________________
६३२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुप्रथमोऽशिट' (१॥३॥५०) इति घस्य कत्वे, 'घखसः' (२॥३॥३६) इति षत्वे । जक्षतुः जक्षुः। ऋवृव्येऽद' इट् । जघसिथ जक्षथुः जक्ष । जघास जघस जक्षिव जक्षिम । पंक्षे ॥ ४ ॥
'परो०' स्पष्टम् । घस्यदिभ्यामेव सिद्धे विकल्पवचनं घसेरसर्वविषयत्वज्ञापनार्थम् । तेन घस्ता घस्मर इत्यादावेव घसेः प्रयोगो भवति ॥ ४ ॥ क्षे इति विकल्पपक्षे सूत्रम्
अस्यादेराः परोक्षायाम् ॥ ५॥ [सि०४।१६८] अस्यां द्वित्वे पूर्वस्यादेरत आः स्यात् । आद आदतुः आदुः। आदिथ ६ । अद्यात् ७। अत्ता ८ । अत्स्यति ९ । आत्स्यत् १० ॥ प्साति प्सातः प्सान्ति १ । प्सायात् २ । सातुप्सातात् ३ । अप्सात् अप्साताम् ॥५॥
'अस्या' स्पष्टम् । णौ गतिबोध०' (२।२।५) इत्यत्रादेवर्जनादणिकर्तुः कर्मत्वाभावे आदयते १० पिण्डी चैत्रेण । अत्र 'चल्याहारार्थ' (३।३।१०८) इति फलवत्कर्त्तर्यपि परस्मैपदापवादः 'परिमुहायमा०' ( ३।३।९४) इत्यात्मनेपदम् । 'यपि चादो जग्ध्' (४।४।१६) इति जग्धादेशे क्त्वि जग्ध्वा प्रजग्ध्य गतः । क्तौ जग्धिः । 'अद्यर्थाच्च०' (५।१।१२) इति वाधारे क्ते इदमेषां जग्धम् । कर्मणि क्ते जग्धमन्नम् । भावे जग्धमनेन । अन्नमिति त्वदोनन्नादिति निर्देशादने प्याधा.' (२५८) इति ने रूपम् । अचि प्रघसः । 'अदोनन्नादिति' (५।१।१५०) किपि आमात् । १५ 'कर्मणोऽण्' (५।११७२) अन्नादः। 'क्रव्याक्रव्यादावामपक्कादौ' (५।१।१५१) ऋव्यात् आम
मांसादी । क्रव्यादः पकमांसादी । 'मृघस्यदो मरक्' (५।२।७३) अदनशीलोऽद्मरः । 'भूश्यदोऽल्' (५।३।२३) विघसः । उपसर्गाभावे घबि घासः । 'न्यादो नवा' ( ५।३।२४ ) न्यादः निघसः । नन्द्यादित्वादने काकादनः । गौरादित्वात् ङ्यां काकादनी । तत्रैव पाठात् गवादनः । उणादौ तङ्कि
वकि० (६९२) इति रिः अद्रिः । अदेस्त्रीणिः (६४५) अत्रीणिः कृमिजातिः । अद्यते गृधैरिति २० रावादीति (६९६) त्रिः अत्रिः ऋषिः । अदेखिन् ( ९२९) अत्री ऋषिः । अत्रिणौ । अदेरन्ध
च वा ( ९६३) इत्यसि अन्धः कूरम् पक्षे अदः । क्षीरमिति तु घसिवशीति (४१९) कितीरे घसतेः । अथादन्तोऽनिट् प्साधातुः । प्सातीत्यादि ॥ ५॥ यस्तन्या अपि सूत्रम् ।
वा द्विषातोऽनः पुस् ॥६॥[सि०४।२।९१] द्विष आदन्ताच परस्य शितोऽनः पुस् वा स्यात् । अप्सुः अप्सान् ४ । अप्सासीत् अप्सा२५सिष्टाम् अप्सासिषुः ५ । पप्सौ पप्सतुः पप्सुः ६ । प्सायात्-प्सेयात् ७ । प्साता ८१ प्सास्यति
९। अप्सास्यत् १० । एवं 'भांक दीप्तौ । भाति ४ । अभासीत् ५। बभौ बभाथ-बभिथ ६। 'यांक प्रापणे' । याति ४ । अयासीत् ५। ययौ ६ । 'ष्णांक शौचे । स्वाति ४ । अस्मासीत् ५। सत्रौ ६ । 'श्रांक पाके' । श्राति ४ । अश्रासीत् ५। शौ ६ । 'द्रांक कुत्सितगतौ' । द्राति । नियोगे निद्राति ४ । न्यद्रासीत् ५। निदद्रौ ६ । 'प्रांक पूरणे । प्राति ४ । अप्रासीत् ३०५ । पौ ६ । प्रेयात्-प्रायात् ७ । प्राता ८ । प्रास्यति ९ । अप्रास्यत् १० । 'वांक गतिगन्ध
नयो' 'ख्यांक प्रकथने । 'पांक रक्षणे । 'मांक माने' दांवक् लवने' एतावपि तथैव । किन्त्वाशिषि गामापास्थेति मेयात्, दायात् । 'इंण्क् गतौ' । एति । अविच्छितो ङित्त्वाद् ३३ गुणाभावे इतः॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org