________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे भ्वादय उभयपदिनः
६३१
अथ अदादयः
श्रीगुरवे नमः। 'अदं प्सांक भक्षणे' । कर्त्तर्यनद्भय इत्यत्रादादिवर्जनादेषां शवभावः । अत्ति अत्तः अदन्ति । अद्यात् । अत्तु-अत्तात् ।
अथादादीन् धातून निरूपयितुकाम आह । 'अदं प्सांक भक्षणे' इति । इहाविकरणेषु वर्णक्रमेण धातुषु पठितव्येषु पूर्वाचार्यप्रसिद्ध्यनुसारेण अदेरादावुपन्यासः । कित्करणमदादिज्ञापनार्थ सर्वत्र ५ ज्ञेयम् । अत्तीत्यादि प्रक्रिया सर्वापि स्पष्टा । पञ्चम्या हौ सूत्रम्
हुधुटो हेधिः॥१॥[सि० ४।२।८३] होधुर्डन्ताच परस्य हेधिः स्यात् । अद्धि-अत्तात् ३ ॥१॥
'हुधु०' होरिति जुहोतेः । यथा जुहुधि । धुडन्तात् यथा छिन्द्धि भिन्द्धि अद्धि विद्धि । हुधुट' इति किम् ? क्रीणीहि । हुधुइभ्यां परत्वेन हेर्विशेषणादिह न भवति रुदिहि स्वपिहि । हेरिति किम् ? १० जुहोतु अत्तु । जुहुतात् त्वम् , भित्तात्त्वमित्यत्र नित्यत्वात्प्रकृत्यनपेक्षणेनान्तरङ्गत्वाच तातङ् । तस्य च पुनर्न धिभावो हिरिति शब्दाश्रयणादिति ॥ १॥ हस्तन्या दिस्योः परयोः सूत्रम्
अदश्चाट् ॥ २॥ [सि० ४।४।९०] अत्तेरुत्पश्चकाच दिस्योरादिरट् स्यात् । खरादेस्ताखिति वृद्धौ । आदत् आत्ताम् आदन् । आदः आत्तम् आत्त । आदम् आद्व आम ॥२॥
'अदा' रुत्पश्चकादिति रुदादयः पञ्च धातवोऽये वक्ष्यन्ते । यथा अरोदत् अरोदः । अदादिदिस्योरित्येव । अत्ति अशि रोदिति रोदिषि ॥ २ ॥ अद्यतन्यां सूत्रम्
घस्लुसनद्यतनी घनचलि ॥३॥[सि० ४।४।१७] एषु पञ्चसु परेवदर्घस्लः स्यात् । लदिद्युतादिपुष्यादेः (३।४।६४) इत्यङ । अघसत् अघसताम् अघसन् ॥३॥
'घस्ल.' सन् च अद्यतनी च घञ् च अच् च अल् च तस्मिन् । क्रमेणोदाहरणानि । सन् , अत्तुमिच्छति जिघत्सति । अद्यतनी, अघसत् । घळ घासः । अच् प्रात्तीति प्रघसः । अजन्तस्य अदेः प्रपूर्वस्यैव घसादेशं वदन्ति वृद्धास्तेन माघे 'अदद' इति प्रयोगः सिद्धः । अदन्तीत्यदाः अच् । अदान भक्षकान् यतीति अतो छ इति ङे अददो विष्णुः। अल प्रादनं प्रघसः । 'घस्ल अदन' इत्यनेनैव सिद्धे अदेः सन्नादिषु रूपान्तरनिवृत्त्यर्थं वचनम् । लदर्थः ॥ ३ ॥ परोक्षायां सूत्रम् २५
परोक्षायां नवा ॥ ४॥[सि० ४।४।१८] अदेः परोक्षायां घस्ल आदेशो वा स्यात् । जघास । द्वित्वे गमहनेत्यकारलोपे, 'अघोषे २७
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org