________________
६२८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
राजते ४ । अराजिष्ट ५ । रेजे रराजे, रेजाते रराजाते, रेजिरे रराजिरे ६ । राजिषीष्ट ७ । एवं भ्राजिरपि । 'रञ्जीं रागे ॥ १९५ ॥
।
'भ्र०' एषामेकादशानामिति । 'नृष ष च जरसि' १ 'भ्रमुच् अनवस्थाने ।' 'अमू चलने' ज्वलादिर्वा २ । ‘टुवमूद्गिरणे' ३ । 'त्रसेच् भये' ४ । 'फण कण रण गतौ' घटादिः ५ । 'स्यमू ५ शब्दे' ६ । 'स्तन धन ध्वन चन स्वन वन शब्दे' एषु षट्सु पञ्चमः स्वन इति ७ । राजग् टुभ्राजिश्व' इमौ प्रकृतौ । 'भासिं दुभ्रासि टुम्लासृङ् दीप्तौ । भ्रासभ्लासौ ११ । क्रमेणोदाहरणानि । जेरतुः जजरतुः । जेरिथ जजरिथ । भ्रमतुः बभ्रमतुः । मिथ बभ्रमिथ । वेमतुः ववमतुः । वेमिथ ववमिथ । “उद्वेमुस्तत्र रुधिरं रथिनोऽन्योन्यवीक्षिताः' । वमेर्नेच्छन्त्यन्ये । त्रेसतुः तत्रसतुः । त्रेसिथ तत्रसिथ । फेणतुः पफणतुः फेणिथ पफणिथ । स्येमतुः सस्यमतुः । स्येमिथ सस्य मिथ । १० स्वेनतुः सस्वनतुः । स्वेनिथ सस्वनिथ । रेजतुः रराजतुः । रेजिथ रराजिथ । भेजे बभ्राजे । से बभ्रासे । भ्लेसे बभ्लासे । अविदित्येव । अहं जजर । एषु नृधातोर्गुणित्वेन 'न शस ० ' ( ४ |१| ३० ) इति निषेधे प्राप्ते भ्रमत्रसस्यमस्वनानामनेकव्यञ्जनमध्यत्वेन फणस्यादेशादित्वेन राजादीनां चतुर्णामकाराभावेनाप्राप्ते वमस्यानादेशादित्वान्नित्यं प्राप्ते इयमेकादशानामेत्वविभाषा ॥ 5 आत्मनेपदे रेजे रेजाते इत्यादि स्पष्टम् । ङपरे णौ अरराजत् । किपि सम्राट् विराट् । उणादौ शीभी ० (७१) १५ इत्यानके राजानकः । धात्राजि० ( ३७९ ) इत्यन्ये राजन्य: । त्रुटि ( ४४६ ) राष्ट्रम् | उक्षितक्षि०
1
1
1
( ९०० ) इत्यनि राजा । एवं भ्राजिरपीति । इदित्वादात्मनेपदम् । भ्राजते इत्यादि । ' भ्रम ० ' इत्येत्वे भ्रेजे बभ्राजे इति । भ्राजिता । णौ ङे 'भ्राजभास ०' ( ४ । २ । ३६ ) इति वा ह्रस्वे अबिभ्रजत् अबभ्राजत् । द्वित्त्वादथुः भ्राजथुः । द्वित्वमेके नेच्छन्ति । भ्राजेरात्मनेपदिनोऽपि पुनरिह पाठो राजसाहचर्यप्रदर्शनार्थः । तेन 'यजसृज ० ' (२२११८७ ) इत्यत्रास्यैव ग्रहणात्पत्वे यङ्लुपि याभ्राष्टि । २० पूर्वस्य तु धातोर्गत्वे बाभ्राक्ति । विश्वायं तेनास्य भ्राजथुः, पूर्वस्य तु भ्राज इति रूपम् । एतच्च प्रागयुक्तम् । यद्येत्वं षत्वमेव विकल्प्यतां किं पुनः पाठेन ? सत्यम् । अस्यात्मनेपदाव्यभिचारोपदर्शनद्वारान्येषां यथादर्शनमात्मनेपदानित्यत्वज्ञापनार्थः पुनः पाठः । तेन लभते लभति । सेवते सेवति । श्रोतारमुपलभति न प्रशंसितारम् । 'स्वाधीने विभवेऽप्यहो नरपतिं सेवन्ति किं मानिनः' । इत्यादयः प्रयोगाः साधव इति । 'रञ्जीं' इति ॥ १९५ ॥ शवि सूत्रम्
अकनिश्च रञ्जेः ॥ १९६ ॥ [ सि० ४२५० ]
रञ्जरकटि घिणि शवि चोपान्त्यनो लुक् स्यात् । रजति । अरजत् ४ । अराङ्गीत् अराङ्काम् अराक्षुः ५ । ररञ्ज ररञ्जतुः ६ । रज्यात् ७ । रङ्का ८ । रक्ष्यति ९ । अरक्ष्यत् १० । रजते ४ । अरङ्क अरङ्खातां अरङ्गत ५ । रर ६ । रङ्गीष्ट ७ । रङ्का ८ । रक्ष्यते ९ । अरइक्ष्यत १० ॥ १९६॥
३० इति महोपाध्यायश्रीकीर्त्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां भ्वादयः समाप्ताः ।
‘अक०' अकटीति । ‘नृत्खन्रञ्जः शिल्पिन्यकटू' ( ५।१।६५ ) अस्मिन् परे नलोपे रजक इति । घिनीति 'युजभुज ० ' ( ५|२५० ) इति घिनणि रञ्जनशीलो रागी । प्रकृते च शवि नलुकि रजत इत्यादि स्पष्टम् । अराङ्क्षीदिति 'व्यञ्जनानामनिटि ' ( ४ | ३ | ४५ ) इति सूत्रे बहुवचनं जाय३४ र्थम्, तेनानेकव्यञ्जनव्यवधानेऽपि परस्मैपदेऽनिटि सिचि परे समानस्य वृद्धिर्भवति । यथा असा
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org