________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय उभयपदिनः
६२९ ऽक्षीत् अभाङ्कीत् अताक्षीत् अत्वाक्षीदित्यादि । अराक्षुरिति अग्रे अराझीः अरातम् अराङ्क । अराङ्कम् अराव अराक्ष्म । ररञ्जतुरिति संयोगान्तत्वादवित्परोक्षाया अपि 'इन्ध्यसंयोगात्' (४।३। २१) इति किस्वाभावे नलोपाभावात् अग्रे ररञ्जः । ररञ्जिथ ररथ ररञ्जथुः ररञ्ज । ररञ्ज ररञ्जिव रञ्जिम । रज्यादिति कित्त्वान्नलोपः । 'कुषिरओप्प्ये वा परस्मै च' (३।४।७४) कर्मकर्तरि शिद्विषये वा परस्मैपदम् , तद्योगे श्यश्च । रजति रजकः । रज्यति रज्यते वा वस्त्रं५ स्वयमेव । विरज्यति विरज्यते भव्यो भोगेभ्यः स्वयमेव । शितोऽन्यत्र तु अरञ्जि । रडीष्ट । रक्ष्यते वा वस्त्रं स्वयमेव । सनि रिरङ्गति रिरसते । यङि रारज्यते । यलुपि रारञ्जीति रारतः राराति । 'णौ मृगरमणे' (४।२।५१) इति नलुकि, 'कगेवनूजनैजृषकस्रञ्जः' (४।२।२५) इति हस्खे रजयति मृगं व्याधः । उ अरीरजत् । बिपरे तु वा दीर्घः । अराजि अरजि । मृगरमणादन्यत्र नलोपाभावे रञ्जयति नटः सभाम् । रञ्जयति रजको वस्त्रम् । कित्त्वान्नलुकि एत्वे च कसुकानो:१० रेजिवान् रेजानः । 'जनशो०' (४।३।२३) इति वा कित्त्वे रक्त्वा रक्त्वा । अनिट्त्वात् रक्ता रक्तम् । केचित्तु मृगरमणादन्यत्रापि नलुकमिच्छन्ति । राजर्षिकल्पो रजयति मनुष्यान् । 'घत्रि भावकरणे (४।२।५२) इति न लुकि रञ्जनं रागः। 'व्यञ्जनाद् घञ्' (५।३।१३२) इति करणे घनि रागः । आधारे घबि रङ्गः नृत्तस्थानम् । ऋवर्णेति ध्यणि रङ्ग्यः । उणादौ पृषिरजि० (२०८) इति कित्यते रजतम् । तुदादिवृजि० (२७३) इति कित्यने रजनं हरिद्रा महारजनं कुसुम्भम् ।१५ गौरादित्वात् ड्यां रजनी । रजेः कित् (६८१) इत्यनौ रजनिः रात्रिः । मिथिररञ्जयुषि० (९७१) इति कित्यसि रजः । 'रखींच रागें' इत्यस्य तु रज्यति रज्यते । इत्युभयपदिनः । 'चतुः पञ्चाशदुभयपदिनः परिकीर्तिताः । यजादयो नवेत्येवं त्रिषष्टिः सर्वसङ्ख्यया ॥ १ ॥ 'एवं भ्वादिगणे सर्वसङ्ख्यया धातवः स्फुटम् । अष्टपश्चाशदधिकं सहस्रं परिकीर्तिताः॥२॥ १९६॥
'यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ, स्वोपज्ञसत्प्रक्रियावृत्तौ
भ्वादय इत्यमी निगदिताः, स्पष्टं त्रिधा धातवः" ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org