________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय उभयपदिन:
६२७ ९। अभक्ष्यत् ॥१०। भजते ४। अभक्त ५। भेजे भेजाते ६। भक्षीष्ट ७ । 'राजग् दुभ्राजि-दीप्तौ । राजति ४ ऋदिच्छीत्यादिनाङि अराजत् । पक्षे सिचि अराजीत् अराजताम्अराजिष्टाम् ५ । रराज ॥ १९४॥
'खरे०' स्पष्टम् । एवं इड्विकल्पे रूपद्वयम् । अगूहिषातां-अघुक्षातामिति । अगूहिषतेति 'अनतोऽन्तोदात्मने' (४।२।११४) इति अन्तोऽदादेशे रूपम् । अघुक्षन्तेति स्वरस्य पर इति प्राचः ५ परस्मिन्नपि विधौ कर्त्तव्ये स्वरादेशस्य स्थानिवत्वमिष्यते, तेनात्राल्लुकः परस्मिन्नन्तोऽदादेशे स्थानित्वादनतोऽन्तोऽदादेशो न भवति । अघुक्षथा इति । अग्रे अघुक्षाथां अगूहिषाथां अघुक्षध्वं अगुव अगृहि ३ ध्वं द्धं डम् । अघुक्षि अगूहिषि अघुझावहीति अग्रे-अघुक्षामहि-अगूहिष्महि । 'ग्रहगुहश्च सनः' (४।४।५९) ग्रहिगुहीभ्यामुवर्णान्ताच्च धातोर्विहितस्य सन आदिरिड् न भवति । इतीड्निषेधे 'उपान्त्ये' (४।३।३४) इति सनः कित्त्वे जुघुक्षति । यडि जोगुह्यते । यङ्लुपि जोगुहीति १० जोगोढि जोगूढः जोगुहति । जोगुहीषि जोघोक्षि । अजोगुहीत् । पदान्ते गो घत्वे अजोघोट्अजोगूढां अजोगुहुः । अजोगुही: अजोघोट्-ड् अजोगूढ अजोगूढ । अजोगुहं अजोगुह अजोगुह्य । णौ गृहयति । ङपरे णौ अजूगुहत् । ह्रस्वाभावमते अजुगृहत् । 'वेटोऽपतः' (४।४।६२) इतीड्निषेधे गूढः गूढवान् । गूड्वा गृहित्वा । गोहिता गोढा । गोढुं गुहितुम् । गृहनीयम् । 'कृवृषि०' (५।११४२) इति वा क्यपि गुह्यम् । पक्षे ध्यणि गोह्यम् । गृहनीयम् । 'नाम्युपान्त्य०' (५।१।१५ ५४) इति के गुहः । गिर्योषध्योर्भिदादित्वादङि गुहा । अन्यत्र तो गूढिः । उणादौ विदनगगन० ( २७५ ) इति निपातनात् गहनम् । तीवरधीवर० (४४४) इति वरटि निपातनात् गह्वरम् । अथ क्षान्तः सेट् च । “भलक्षी भक्षणे । भ्लक्षते भ्लक्षति । बभ्लक्षे बभ्लक्ष । भ्लक्षिता । क्ते भ्लक्षितम् । घनि भ्लक्षः । अयं 'भक्षी'त्यन्ये । भक्षते भक्षति । बभक्षे बभक्ष । भक्षितुम् । क्ते भक्षितम् ।
अथ प्राग यदुक्तम् । 'जान्ताश्चत्वारो वक्ष्यन्ते' इति तानाह । 'भजी भजति भजते । अभाक्षीत् २० इति । अग्रे अभाक्तां अभाक्षुः । अभाक्षीः अभाक्तं अभाक्त । अभाक्षं अभाक्ष्व अभाक्ष्म । परोक्षायां बभाजेति । अग्रे 'तृत्रपफलभजाम्' (४।१।२५) इत्येत्वे भेजतुः भेजुः । भेजिथ बभक्थ भेजथुः भेज । बभाज बभज भेजिव भेजिमेति । आत्मनेपदे अभक्तेति । अग्रे अभक्षातां अभक्षत । अभक्थाः अभक्षाथां अभग्ध्वम् । अभक्षि अभक्ष्वहि अभक्ष्महि । आत्मनेपदे परोक्षायां भेजे इत्यादि व्यक्तम् । सनि बिभक्षति विभक्षते । यङि बाभज्यते यङ्लुपि बाभजीति बाभक्ति । ङपरे णौ २५ अबीभजत् । अनिद्वात् भक्ता भक्तुम् । 'श्लिष०' (५।१।९) इति वा कर्तरि क्ते विभक्ता भ्रातरो रिक्थम् पक्षे कर्मणि क्ते विभक्तं धनं तैः । 'शकि०' (५।१।२९) इति ये भज्यम् । बहुलमिति घ्यणि भाग्यम् । 'भजो विण्' (५।१११४६) अर्द्धभाक् । 'युजभुज०' (५।२।५० ) इति घिनणि भजनशीलो भागी । धनि भागः । 'गोचरे'ति निपातनात् करणाधारयोर्धअपवादे भगः । क्तौ भक्तिः । राजग इति । राजतीत्यादि स्पष्टम् ॥ १९४ ॥ अवित्परोक्षायां सूत्रम् जृभ्रमवमत्रसफणस्यमखनराजभ्राजभ्रासभ्लासो वा
॥ १९५॥ [सि० ४।१।२६] एषामेकादशानां स्वरस्सावित्परोक्षासेट्थवोरेर्वा स्यात् न च द्विः। रेजतुः रराजतुः रेजुःरराजुः । रेजिथ-रराजिथ ६ । राज्यात् ७ । राजिता ८ । राजिप्यति ९ । अराजिष्यत् १० ॥३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org