________________
६२६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु( ८६५) इति तृप्रत्यये निपातनात् त्वष्टा अर्कः । अवपूर्वो दाननिरसनयोश्चेत्येके । निरसनमपाकरणम् , चकाराहीप्तौ । अवत्वेषते अवत्वेषति ददाति निरस्यति दीप्यते चेत्यर्थः । 'अषी असी गत्यादानयोश्च' । चकारादीप्तौ, । अषते अषति । आषे आष । अषित्वा । अथ सान्तौ सेटौ च । असी।
असति असते । आसे आस । आसेत्यसतेरिति वामनः । असिता । 'असक् भुवि' अस्ति । ५'असूच क्षेपणे' अस्यति । 'दामृग दाने' दासति दासते । ददासे ददास । दासिता। क्ते दासितम् ।
अचि दासः । गौरादित्वात् ङयां दासी । ग्रहादित्वाणिनि उदासी । घधि उदासः । 'णौ दान्त०' (४।४।७४) इति क्ते वा निपातनात् दस्तः दासितः । हान्तौ सेटौ च । 'माहा माने' (मानं वर्तनम् ) माहते माहति । अमाहत् । ममाहे ममाह । माहिता । डे अममाहत् । अचि माहः । स्त्रियां माहा गौः । माहा सुरभिरर्जुनीति कोषः। गुहधातुं कण्ठतो निर्दिशति ॥ १९१ ॥ १० गुहौम्' इति । शवि सूत्रम्
गोहः खरे ॥ १९२ ॥ [सि० ४।२।४२] कृतगुण(स्य)गुहेः स्वरादावुपान्त्यस्य ऊत्स्यात् । गृहति १ । गृहेत् २ । गृहतु ३। अगृहत् ४। अगृहीत् । इडभावे हशिट इति सकि अघुक्षत् अगूहिष्टाम्-अघुक्षाताम् अगूहिषु:-अघुक्षन्
५। जुगूह जुगुहतुः जुगुहुः । जुगूहिथ-जुगोढ जुगुहथुः जुगुह ६ । गुह्यात् ७ । गृहिता-गोढा १५८ । गृहिण्यति-घोक्ष्यति ९ । अगूहिष्यत्-अघोक्ष्यत् १०। गूहते ४ । अगूहिष्ट इडभावे सक् ॥ १९२॥
'गोहः०' स्वरादाविति । प्रत्यये इति शेषः । गूहतीति । एवं गृहयति । साधुगृही गृहं २ । जुगूह । गोहः इति किम् ? निजुगुहतुः जुगुहुः । स्वर इति किम् ? निगोढा निगोढुम् । इडभावे इति 'धुगौदितः' (४।४।३८) इति इद् विकल्पात् अघुक्षत इति । अत्र 'हो धुट' इति ढः । 'षढो:०' २० इति कि । 'गडदबा०' इति घः । 'नाम्यन्तस्था०' (२।३।१५) इति षः । अत्र ढस्थानस्य कस्याऽसत्त्वात् चतुर्थान्तलक्षणो घो भवति । आत्मनेपदे अद्यतन्यास्ते अगूहिष्टेति रूपम् । पक्षे इडभावे 'हशिट०' (३।४।५५) इति सक् ॥ १९२॥ तत्र सूत्रम्
दुहदिहलिहाहो दन्त्यात्मने वा सकः ॥ १९३ ॥ [ सि० ४।३।७४ ]
एभ्यश्चतुर्यः परस सको दन्त्यादावात्मनेपदे लुग् वा स्यात् । ढस्तढ इति ढलोपे उकारस्य २५दीर्घ च अगूढ । पक्षे अघुक्षत अगूहिषाताम् ॥ १९३ ॥
'दुहः' एभ्यश्चतुर्थ्य इति । 'दुहीक क्षरणे' 'दिहींक उपलेपे' 'लिहीक आस्वादने 'गुह' इत्ययं प्रकृतः । दन्त्यादौ इति तकारादौ थकारादौ वकारादौ आत्मनेपदे इत्यर्थः । वो दन्त्योष्ठ इति वचनात् वकारोऽपि दन्त्य एव । ततः अगूढेति रूपम् । पले-सको लुगभावे इत्यर्थः अघुक्षतेति रूपम् । अगूहिषातामिति ॥ १९३ ॥ अत्र सूत्रम्
खरेऽतः॥ १९४ ॥ [सि० ४३७५] सकोऽस्य खरादौ प्रत्यये लुक् स्यात् । अधुक्षाताम् । अगृहिषत-अघुक्षन्त । अगूहिष्ठा:अगूढा:-अघुक्षथाः । अगूहिष्वहि-अगुह्वहि-अघुक्षावहि ५ । जुगुहे ६ । गृहिषीष्ट-घुक्षीष्ट ७ । ३३'भजी सेवायाम् । भजति ४ । अभाक्षीत् ५ । बभाज ६ । भज्यात् ७ । भक्ता ८ । भक्ष्यति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org