________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय उभयपदिनः
६२५ फ्रीकलयलि० (३८) इतीके अलिकं ललाटम् । स्यमिकषि० (४६) इतीके अलीकं मिथ्या । अलीका पण्यस्त्री । व्यलीकमपराधः । व्यलीका लज्जा । कल्यलि० (२४६) इतीन्दकि अलिन्दः द्वाराप्रस्थूणा । शल्यलेरुश्चातः (३१९) इति वे उल्वं कललम् । कृशकुटि० (६१९) इति वा णिदिः आलिः सखी । अलिर्धमरः । अलक्त इति त्वरक्तशब्दस्य लत्वे । परस्मैपदिनमेनमन्ये मन्यन्ते । अथ वान्तौ सेटौ च । 'धावूग् गतिशुद्धयोः' । धावते धावति, दधावे दधाव, धाविता ।५ ऊदित्त्वात् क्वि वेट धौत्वां । अत्र 'अनुनासिके०' (४।१।१०८) इति वस्योटि 'ऊटा' (१।२।१३) इत्यौत्वम् , पक्षे धावित्वा । वेट्त्वात् क्तयोर्नेट धौतः धौतवान् पादौ । कथं धावितः धावितवान् ? सत्यपि वेट्वे गतौ क्योरिट्रैतिषेधस्यानित्यत्वात् । णके धावकः । मनि 'अनुनासिके च०' इत्यूटि सुधामा । वनि 'य्वोः०' (४।४।१२१) इति वस्य लुकि सुधावा । विचि सुधाः । क्किप्यूटि सुधौः । क्तौ धौतिः । तेऽनिट्त्वात् 'क्तेट.' (५।३।१०६) इत्यप्रत्ययो नास्ति । 'चीवृग' १० झपीवत् । 'झषी आदानसंवरणयोर्वक्ष्यते । तद्वदयमप्यादानसंवरणयोरित्यर्थः । चीवते चीवति । चिचीवे चिचीव । चीविता । ऋदित्त्वात् उपरे णौ अचिचीवत् । अनृदयमित्येके, तन्मते डे हस्खे अचीचिवत् । उणादौ जठर० (४०३) इति निपातनात् चीवरं मुनिवस्त्रम् । चिनोतेर्वा वरटि दीर्घ च (४४३)। 'दाग दाने' दाशते दाशति । ददाशे ददाश । दाशिता । ङे अददाशत् । 'दास्वत्साहन्मीढवत्' (४।१।१५) इति सूत्रेण कसुप्रत्यये निपातनात् फलवत्कर्त्तर्यपि कसौ १५ द्वित्वेटोरभावे दाश्वान् दाश्वांसौ । दाशुषी । एवं 'सहि परिमर्षणे' इत्यस्य परस्मैपदमुपान्त्यदीर्घत्वमनिटत्वं च निपात्यते । साह्वान साह्वांसौ । 'मिहं सेवने' इत्यस्याद्वित्वमनिट्त्वमुपान्त्यदीर्घत्वं ढत्वं च निपात्यते मीट्वान् मीट्वासौ इति । दाशतेऽस्मै दाशः । पुरो दाशते पुरोडाशः, दुःखेन दाश्यते दूडाशः पृषोदरादित्वात्साधू । अथ षान्ता नव त्विषीवर्जाः सेटश्च । 'झषी आदानसंवरणयोः' । झपते झपति । जझषे जझाष । झषिता । क्ते झषितम् । अचि झषः। 'झष हिंसायाम्' झपति । 'भेषग्२० भये । भेषते भेषति । अभेषत् । विभेषे विभेषा भेषिता । ऋदित्वात् डे न ह्रस्वः अविभेषत् णौ भेषयति । 'भ्रषग् चलने च' चकाराद्भये । भ्रषते भ्रषति । बिभ्रेषे विभ्रष । भ्रषिता । अबिभ्रेषत् । णौ भ्रषयति । धनि भ्रषः । भ्रषो भ्रंशो यथोचितादिति कोषः। 'पषी बाधनस्पर्शनयोः' । स्पर्शनं प्रन्थनम् । पषते पषति । पेषे पपाष । पषिता । क्ते पषितम् । घनि पाषा । उणादौ पषो णित् (१९२) इत्याणे पाषाणः । पाषाणः प्रस्तुरो दृषदिति कोषः । अयं स्पशीत्येके । स्पशते स्पशति ।२५ अचि स्पशः । वार्तायनः स्पशश्चार इति कोषः। 'पषण बन्धने पापयति । पषण अनुपसर्गोऽदन्तः पषयति । 'लषी कान्तौ' । कान्तिरिच्छा । 'भ्राजभास.' ( ४।२।३६) इति वा श्ये अभिलष्यते अभिलष्यति, अभिलषते अभिलषति । लेषे ललाष । लषिता । 'लषपतपदः' ( ५।२।४१) इत्युकणि अभिलाषुकः । 'भूषाक्रोधार्थ.' ( 41२।४२) इत्यने अभिलषणः । 'व्यपाभेर्लषः' (५।२।६२) इति धिनणि विलाषी अपलाषी अभिलाषी । घनि अभिलाषः । उणादौ लषेः श च (२८९) इत्युने ३० लशुनं कन्दविशेषः । 'चषी भक्षणे' । चषते चषति । चेषे चचाप । चषिता । क्ते चषितम् । घनि चाषः । उणादौ दृकुनृ० (२७) इत्यके चषकं सरकः । ऋकृमृ० (४७५) इत्याले चपालः यूपवलयः । 'चष हिंसायाम्' चषति । 'छषी हिंसायाम्' । छषते छषति । चच्छषे चच्छाप । छषिता छषितुम् । 'त्विषीं दीप्तौ । त्वेषते त्वेषति । 'हशिट' (३।४।५५) इति सकि अत्विक्षत् तित्विषे तित्वेष । अनिट्वात् त्वेष्टा त्वेष्टुम् । 'क्रुत्सम्पदा०' (५।३।११४) इति विपि विट् । त्वष्टक्षत्त० ३५
है. प्रका० उत्त० ७९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org