________________
६२४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
वावसति । वावसित्वा । वावसितः वावसितवान् । अत्र गणनिर्देशात् 'यजादिवचेरिति' न वृत् । सनि विवत्सति । णौ 'ईगित : ' ( ३।३।९५ ) इत्यात्मनेपदे 'अणिगि प्राणी ० ' ति ( ३|३|१०७ ) परस्मैपदेनोपादिते, 'परिमुह ० ' ( ३।३।९४ ) इति फलवत्कर्त्तरि पुनर्विहिते वसति चैत्रः, वासयति 'चैत्रं मैत्रः । अत्र 'गतिबोधे ० ' त्यणिक्कर्तुः कर्मत्वम् । 'क्षुधवसस्तेषाम् ' ( ४।४।४३ ) इतीटि उषितः ५ उषितवान् । उषित्वा । अत्र 'क्षुधकिश ० ' ( ४ | ३ | ३१ ) इति क्त्वः कित्त्वाद्यजादीति यवृत् । 'रुच्याव्यथ्य०' ( ५।१।६ ) इति कर्त्तरि निपातनात् ध्यणि वास्तव्यः । 'वाधारे० ' ( ५।१।२१ ) इति ध्यणि वा निपातनात् अमावास्या अमावस्या | 'अजातेः शीले' ( ५।१।१५४ ) इति णिनि शयवासीति सप्तम्या वा अलुपि ग्रामेवासी ग्रामवासी । 'श्रुसद० ' ( ५।२।१ ) इति भूते वा परोक्षा अनूवास । पक्षे अन्ववात्सीत् अन्ववसत् । तत्र कसुकानौ इति 'घसेकस्वर ० ' ( ४|४|८२ ) इतीटि १० अनूषितवान् गुरुं शिष्यः । 'सम्प्राद्वसात् ' ( ५/२/६१ ) इति निणि संवसनशीलः संवासी । एवं सम्प्रवासी । उणादौ तृजि० ( २२१ ) इत्यन्ते वसन्तः । उपसर्गाद्वसः ( २३३ ) इत्यथे आवसथः । भेषजादि व्यणि आवसथ्यम् । प्याधा० ( २५८ ) इति ने वस्त्रं वस्त्रं मूल्यं च । ऋज्यजि० ( ३८८ ) इति किति रे उसे रश्मिः, बाहुलकात्पत्वाभावः । णौ ऋच्छिचटि० ( ३९७ ) इत्यरे वासरः । मीज्यजि० (४३९ ) इति सरे वत्सरः । कृशृकुटि० ( ६१९ ) इति वा णिदिः वासि: १५ङयां वासी तक्षभाण्डम् । वसिः शय्या । लुज्ञा० (६४६ ) इति तौ वस्तिः मेोर्ध्वं वस्त्रदशा गुदस्नेहनोपकरणं च इति धातुपारायणे । उणादिवृत्तौ तु बस्तिः मूत्राधारः चर्मपुट: स्नेहनोपकरणं च । खल्यमि० ( ६५३ ) इति तौ वसतिः । वस्यर्त्तिमाति: ( ६६२ ) वसातयो राष्ट्रम् । भृमृत ( ७१६ ) इत्यौ वसुद्रव्यम् । वसेर्णिद्वा ( ७७४ ) इति तुनि वस्तु पदार्थ: । वास्तु गृहं गृहभूमिश्च । 'वसिक् आच्छादने' वस्ते । उणादौ दम्यमि ० ( २०० ) इति ने वस्नः । ' वस्तिण् अर्दने' इत्यस्य वा २० अचि । 'वसण् स्नेहच्छेदावहरणेषु' वासयति ९ । इत्येवं नवको यजादिगणः समाप्तः ।
अथ यत्प्रागुक्तं याचृग् वक्ष्यते इति तमाह । 'डुयाचूग् याचायाम्' इति । याचत याच इत्यादि स्पष्टम् । क्ते याचितः । ऋदित्त्वात् ङे न ह्रस्वः । अययाचत् । द्वित्वात् त्रिमक् याचित्रिमम् । द्विदयमित्येके तन्मते अथौ याचथुः । ते सेदूत्वात् ध्यणि कत्वाभावे याच्यम् । ' मृगयेच्छा ० ' ( ५।३।१०१ ) इति निपातनात् ने याचा । अथ यान्तौ सेटौ च । 'चायगू पूजानिशामनयो:' । २५ चायते चायति । चचाये चचाय । णौ ङे अचचायत् । चायिता । 'चाय की : ' ( ४|१|८६ ) यङि चेकीयते । 'अपाच्चायश्चिः क्तौ' ( ४/२/६६ ) अपचितिः । ' अपचित:' ( ४|४|७७ ) इति क् वा निपातनात् अपचितः अपचायितः । उणादौ चाये: केकू, च ( ३६६ ) इत्यये केकयः राजा । चायः के च ( ७७८) इति तुनि केतुः । 'व्ययी गतौ' व्ययते व्ययति । वव्यये वव्याय । ‘व्यञ्जनादेः०’ ( ४।३।४७ ) इति वा वृद्धेः 'न श्विजागृ० ' ( ४।३।४९ ) इति निषेधात् अव्ययीत् । ३० व्ययिता । णौ व्याययति । अचि व्ययः । 'व्ययण वित्तसमुत्सर्गे' अदन्तः व्यययति । अथ लान्तः सेट् च 'अली भूषणपर्याप्तिवारणेषु' । अलते अलति । आले आल । सनि अलिलिपते अलिलिषति । अचि अलम् । ‘निषेधेऽलंखल्वो ० ' ( ५|४|४४ ) इति निर्देशान्मान्तत्वं निपात्यते, अव्ययश्चायम् । 'भूषादर०' ( ३ | ११४ ) इति च्वौ अलङ्कृत्य कन्यामुपयच्छते । अत्र 'गतिक ० ' ( ३|१| ४२ ) इति समासे 'क्त्वो यप्' । पर्याप्तौ अलं मल्लो मल्लाय । अत्र 'शक्तार्थ ० ' ( २।२।६८ ) इति चतुर्थी । वारणे अलं कृत्वा । अत्र 'निषेधऽलं०' इति क्त्वा । उणादौ निष्कतुरुष्क० ( २६ ) इति ३६निपातनात् अलर्कः उन्मत्तः श्वा । दृकृनृ० (२७) इत्यके अलकं चूर्णकुन्तलः । अलकापुरी ।
1
1
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org