________________
६२३
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय उभयपदिनः वदावदः । लिहाद्यचि श्लोकवदः । 'प्रियवशाद्वदः' (५।१।१०७) इति प्रियंवदः वशंवदः । 'सम्परिव्यनुप्राद्वदः' (५।२।५८) इति घिनणि संवदते इत्येवंशीलः संवादी । एवं परिवादी । 'वादेश्व णकः' (५।२।६७ ) इति णौ णके (परिवादनशीलः) परिवादकः । 'यजिजपि०' (५।२।४७) इति यङन्तादूके वावदूकः । घनि वादः । 'तेहादिभ्यः' (४।४।३३ ) इतीटि उदितिः । क्त्वि उदित्वा । 'गत्यर्थवदोच्छः' (३।१८) इति गतित्वे गतिक्विति समासे क्त्वो यपि अच्छोद्य ।५ उणादौ वदिसहिभ्यामान्यः (३८१) वदान्यः दाता प्रियवाक् च । वदन्य इति तु वदने साधु इति साधौ ये । भूगृवदिचरिभ्यो णित् (४६०) इति णितीत्रे वादित्रं आतोद्यम् । कमिवमि० (६१८) इति णिदिः वादिः वाग्मी । मावावदि० (५६४) इति से वत्सः ८ । वसमिति । वसति । 'उपान्वध्याङ्वसः (२।२।२१) इत्याधारस्य कर्मत्वे ग्राममुपवसति ४ । अन्वादिसाहचर्यात् वासार्थस्येवोपस्य ग्रहणम् । तेन भोजननिवृत्त्यर्थे नोपेन योगे कर्मत्वं न भवति । यद्वा नात्र वसेरुपपूर्वस्य ग्राममाधारः, किन्तु वसेः । ग्रामे वसंस्त्रिरात्रमुपवसतीत्युपवस्याधारस्य त्रिरात्रस्य कर्मता स्यादेव १० ॥ १८९ ॥ अद्यतन्यां सूत्रम्
सस्तः सि ॥ १९०॥[सि०४॥३९२] सन्तस्य धातोः सस्याशिति सादौ प्रत्यये विषयभूते तः स्यादिति सिजागमात्मागेव सस्य तः । अवात्सीत् अवात्ताम् अवात्सुः ५ । उवास ॥ १९० ॥
'सस्तः०' सिजागमात्प्रागेवेति, सिजुत्पत्तेः प्रागेव सस्य तत्वे सिचो लुकि स्थानित्वेन वृद्धौ च १५ अवात्तामिति सिद्ध्यति । 'धुड्ह्रस्व०' (४।३।७० ) इत्यत्र हि लुबधिकारे लुग्ग्रहणं सिजो लुक्यपि स्थानित्वेन तत्कार्यप्रतिपत्त्यर्थम् । तेनात्र वृद्धिः सिचोऽभावेऽपि सिद्धा । विषयसप्तमीव्याख्यानाभावे प्राक् सिजागमे तु लोपविधेर्बलीयस्त्वात् 'धुड्हस्वात्०' (४।३।७०) इति सिजूलोपे तकारो न स्यात् । न च सिचो लुचः स्थानित्वाद्भविष्यति किमनेन विषयसप्तमीव्याख्यानेनेति वाच्यम् । सकार उक्तस्तस्य वर्णविधित्वात् स्थानिवद्भावो न भवति । 'स्थानीवावर्णविधौ' (७।४।१०९) इति २० वचनात् अवात्सुरिति । अग्रे अवात्सीः अवात्तं अवात्त । अवात्सम् अवात्स्व अवात्स्म ॥१९०॥ कित्परोक्षायां 'यजादिवचे:०' (४।१।७९) इति य्वृति सूत्रम्
घखसः ॥ १९१ ॥ [सि० २।३।३६ ] नाम्यादेः परस्य घखसोः सः पा स्यात् । ऊपतुः ऊषुः । उपसिथ उवस्थ, उवास उवस ६। उष्यात् ७ । वस्ता ८ । वत्स्यति ९। श्विवद्वसः परस्मैपदिनः । 'डुयाग याज्जायाम्' ।२५ याचति ४ । अयाचीत् । पक्षे ऋदिच्छीत्यङागमे अयाचत् । ययाच ६ । याच्यात् ७ । याचिता ८। याचिष्यति ९ । अयाचिष्यत् १० । याचते ४ । अयाचिष्ट ५ । ययाचे ६ । याचिषीष्ट ७ । 'गुहौग संवरणे ॥ १९१॥
'घख०' नाम्यादेरिति । नाम्यन्तस्थाकवर्गात्परस्य घसेर्वसश्च धातोः सम्बन्धिनः सकारस्य षः स्यादिति भावः । घसिरिह प्रकृत्यन्तरं आदेशस्य कृतत्वेनैव सिद्धत्वात् अकृतसकारार्थं वचनम् ।३० शिड्नान्तरेऽपि बहूंषि नगराणि वसन्तीति विपि वृति उषः । बहव उषो वास्तव्या येषु तानि बहूंषि । नाम्यादेरियेव । जघास । वसति यङि वावस्यते । यलुपि वावसीति वावस्ति वावस्तः३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org