________________
६२२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
वा परोक्षा यङि ॥ १८९ ॥ [सि० ४।१।९०] श्वेः सखरान्तस्था परोक्षायडोर्वृद्वा स्यात् । ततः शुशु इति द्वित्वे शुशाव शुशुवतुः शुशुवुः, शुशविथ पक्षे शिश्वाय शिश्वियतुः शिश्वियुः शिश्वयिथ ६ । यजादिवचेरिति वृति शूयात्
शूयास्ताम् ७ । श्वयिता ८ । श्वयिष्यति ९ । अश्वयिष्यत् १० । 'वद व्यक्तायां वाचि' ५वदति ४ वदव्रजलू इति वृद्धौ अवादी अवादिष्टाम् अवादिषुः। मैवं वादी: ५। उवाद ऊदतुः
ऊदुः उवदिथ ६ । उद्यात् ७ । वदिता ८ । 'वसं निवासे' वसति ४ ॥ १८९ ॥ ___ परोक्षायां शिश्वयिथेति । अग्रे शुशुवथुः शिश्वियथुः शुशुव शिश्विय । शुशाव शुशव, शिवाय शिश्वय । शुशुविव शुशुविम, शिश्वियिव शिश्वियिम । शिश्वियथुः । शुशुय. शिश्विय । शुशाव
शुशव । शिश्वाय शिश्वय । शुशुविव शिश्वियिव । शुशुविम-शिश्वियिम । यङि शोशूयते शेश्वीयते । १. यङ्लुपि शोशवीति शोशोति, शिश्वयीति शेश्वेति । श्वेवा' (४।१।८९) श्वयतेः सस्वरान्तस्था
ङपरे सन् परे च णौ विषये वृद्वा भवति । अशूशवत् अशिश्वयत् । शुशावयिषति शिश्वाययिषति । विषयविज्ञानादन्तरडामपि (वृद्ध्यादिकं) वृता बाध्यते । कृते च तस्मिन् वृद्धिस्ततः अवादेशं उपान्त्यहस्वत्वम् । ततो णि कृतस्य स्थानित्वात् शोद्वित्वं ततः पूर्वदीर्घ इति क्रमः । णावित्येव
अशिश्वियत् शिश्वयिषति । य एश्चातः' (५।१।२८) इति ये श्वेयम् । ओदित्त्वात् 'सूयत्यादि.' १५(४।२।७० ) इति क्तयोस्तस्य नत्वे, ‘डीयश्यै०' (४।४।६१) इतीडभावे च शूनः शूनवान् । ट्वित्त्वादथुः श्वयथुः । स्त्रियां क्तौ शूतिः। क्त्वि श्वयित्वा । क्त्वेति कित्त्वाभावात् गुणः । उणादौ श्वन्मातरिश्वन्० (९०२) इत्यनि निपातनात् श्वा मातरिश्वा ७ । वदेति वदतीत्यादि स्फुटम् । उवदिथेति 'स्क्रस०' (४।४।८१) इति इट् । ननु स्कृवृ० इत्यादिना वेट् । अस्य सेट्त्वात् 'दीप्ति
ज्ञान०' (३।३।७८) इत्यात्मनेपदे वदते विद्वान् स्याद्वादे वदन् दीप्यते इत्यर्थः । 'व्यक्तवाचां २० सहोतो' ( ३।३।७९) सम्प्रवदन्ते द्विजाः । 'विवादे वा' ( ३।३।८०) विप्रवदन्ते विप्रवदन्ति वा मौहूर्तिकाः । 'अनोः कर्मण्यसति' (३।३३८१) अनुवदते कठः कलापस्य । 'वदोऽपात्' (३।३।९७) इति फलवत्कर्तरि अपवदते । अन्यत्रापवदति । क्ये 'यजादिवचे.' (४।१७९) इति स्वृति उद्यते । णौ 'ईगितः' (३।३।९५) इति फलवत्कर्त्तरि आत्मनेपदे 'अणिगि प्राणी०' (३।३।१०७) इति परस्मैपदेनापोदिते परिमुहेति पुनर्विहिते वदति चैत्रः । वाद२५ यते चैत्रं मैत्रः । अत्र ‘गतिबोध०' (२।२।५) इत्यणिकर्तुः कर्मत्वम् । फलवतोऽन्यत्र परस्मैपदे
वादयति चैत्रं मैत्रः । ङपरे णौ अवीवदत् । णिगन्ताण्णौ वदति वीणा तां परिवादकः प्रायुत तमप्यन्यः, अवीवदद्वीणा परिवादकेन । यद्यप्यत्र णौ णे पोऽभूत्तथापि न समानलोपः। यतो णाविति जात्या एकवचनं ततश्च यः कश्चित् णिग् स सर्वोऽपि निमित्ततया विवक्षितोऽन्तः(ऽतः ?) स
लुप्तोऽपि निमित्तमेव । एवमपीपठदित्यादावपि सनि विवदिषति । सन् परे णौ विवादयिषति । यडि ३० वावद्यते । यङ्लुपि वावदीति वावत्ति वावत्तः वावदति । सेट्त्वात् वदिता वदितुम् । 'ऋवर्ण०' (५।१।१७) इति ध्यणि वाद्यम् । 'वर्योपसर्य०' (५।१।३२) इति निपातनाये अवधं गद्यम् ।
अनूद्यमन्यत् । 'नाम्नो वदः क्यप् च' (५।१।३५) ब्रह्मोद्या । ये ब्रह्मवद्या । 'खेयमृषोये (५।१। ३३३८) इति निपातनात् क्यपि मृषोद्यम् । अचि वदः । 'चराचर०' (४।१।१३) इति निपातनात्
१ ननु विधानसामर्थ्यादेव वृद्ध्यादिकं बाधित्वा वृद्भविष्यति किं विषयव्याख्यानेन । नैवम् । वृद्धौ कृतायामपि यस्यापि ध्वृत्प्राप्नोति, अतो विधानं चरितार्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org