________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय उभयपदिनः
६२१ विस्तारणम् । वपति इत्यादि स्पष्टम् । 'नेमादा०' (२।३।७९) इति णत्वे प्रणिवपति प्रणिवपते इति । 'यजादिवचे०' (४।१७९) इति वृति ऊपे । क्ये उप्यते । यङि वावप्यते । यलुपि वावपीति वावप्ति । 'आसुयु०' (५।१।२०) इति यापवादे व्यणि वाप्यम् । अचि वपः । कर्मणोऽणि बीजवापः । अनिट्त्वात् उप्तः उप्तवान् । ट्वित्त्वात् उप्तिमम् । घधि वापः । भिदादित्वादडि. वपा भेदः । उप्तिरन्या । उणादौ भापाचणि० (२९६) इति पे वप्पः पिता । भीवृधि० (३८७) इति ५ रे वप्रः केदारः । कमिवमि० (६१८) इति णिदिः वापिः । रुर्ति० (९९७) इत्युसि वपुः ५। वहीं इति । भारं वहति । देशान्तरं प्रापयतीति । सकर्माप्ययं धातुरर्थान्तरे वर्तमानोऽकर्मा भवति । यथा नदी वहति स्रवतीत्यर्थः । 'नेमादा० इति णत्वे प्रणिवहति । अवोढामिति, पूर्वं वृद्धौ एकदेशविकृतेति न्यायात् वहेरोत्वे रूपम् । अवाक्षुरिति अग्रे अवाक्षीः अवोढं अवोढ । अवाक्षम् अवाक्ष्व अवाक्ष्म । आत्मने अद्यतन्यां अवक्षतेति । अग्रे अवोढाः अवक्षाथाम् अवोदम् । अत्र 'सोधि वा'१० (४।३७९) इति वा सिज्लुकि हो धुड्' (२।१।८२) इति हो ढे, 'तवर्गस्य०' (१।३।६०) इति धो ढे, 'सहिवहेः०' (१।३।४३ ) इति ढलुक् ओच्च । पक्षे सिज्लुगभावे हो ढ, इति ढे 'पढोः कः सि' (२।१।६२) 'नाम्यन्तस्था०' (२।३।१५) इति थे, 'तृतीयस्तृतीय०' (१।३।४९) इति डे गे च, 'तवर्ग०' इति धो ढे च अवगवम् । अवक्षि अवक्ष्वहि अवक्ष्म हि । उपसर्गयोगेऽस्य परस्मैपदं नियमयति ॥ १८७ ॥ सूत्रम्
१५
प्राद्वहः ॥ १८८ ॥ [सि० ३।३।१०३ ] परस्मैपदमेव । प्रवहति । (परेश्च ) परिवहति । 'ट्रोश्चि गतिवृद्ध्योः श्वयति अश्वयत् ४ । टूधेश्वेर्वेति वैकल्पिके डे, द्विर्धातुरिति द्वित्वे संयोगादितीयादेशे अशिश्वियत् अशिश्वियताम् अशिश्चियन् । पक्षे ऋदिच्छीत्यादिना वैकल्पिके डि श्वत्यस्वच इत्यादिना श्वादेशे च अश्वत् अश्वताम् अश्वन् । पक्षे सिजागमे इडागमे ईदागमे न श्वीति वृद्धिनिषेधे गुणेऽयादेशे सिज्लोपे२० अश्वयीत् अश्वयिष्टाम् अश्वयिषुः । अश्वयीः ५॥ १८८॥
'प्रा०' (३।३।१०३) स्पष्टम् । 'परेमषश्च' (३।३।१०४) परिपूर्वान्मृषेर्वहेश्च कर्त्तरि परस्मैपदं भवति । परिमृष्यति परिवहति । धनं परिमृष्यते धनं परिवहते इत्यत्र परिर्पषिवहिभ्यां सम्बध्यते । वहेर्नेच्छन्त्यन्ये । क्ये उह्यते । यडि वावह्यते । यलुपि वावहीति वावोढि । अनिट्त्वात् वोढा । ऊढः ऊढवान् । घधि प्रवाहः । 'गोचरसंचर०' (५।३।१३१) इति निपातनाद् २५ चञपवादे घे वहो वृषस्कन्धः । 'वयं करणे' (५।१।३४) इति निपातनाये वह्यं शकटम् । वाह्यमन्यत् । ण्यन्तादचि वाहः । उदकस्य वाहः उदवाहः । अत्र 'नान्युत्तरपदस्य च' ( ३।२।१०७) इति उदादेशः । 'कूलादुद्रुजोद्वहः' (५।१।१२२) इति खशि कूलमुद्वहः समुद्रः। णौ करणेऽनटि वाहनम् । प्रगतानि वाहनानि यस्य प्रवाहणः । अत्र 'पूर्वपदस्थानान्यगः' (२।३।६४) इति णत्वम् । अजा अस्मिन्नुह्यन्ते इति व्यञ्जनाद् घनि 'ड्यापो बहुलं नाग्नि' (२।४।९९) इति ह्रस्वे च ३० अजवाहो नाम ग्रामः । 'कर्तुर्जीव०' (५।४।६९) इति णमि पुरुषवाहं वहति । उणादौ बन्धिवहि० (४५९) इति वहिनं वाहनं वहनं च । वीयुसुवह्यगिभ्यो निः (६७७ ) वह्निः । वहेषु च (८३२) इत्यूः वधूः । ६ । दोश्वीति ॥ १८८ ॥
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org