________________
६२०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुसप्तमी किम् ? णिविषय एवान्तरङ्गमपि 'पाशाच्छासावेव्याह्वो यः' (४।२।२०) इति यकारागमं बाधित्वा य्वृद् यथा स्यात् । ङसनीति किम् ? ह्वाययति । 'द्वित्वे ह्रः' (४।१।८७) इति । अनेन सिद्धे एतत्सूत्रकरणं णेरन्यस्मिन् निमित्तप्रत्ययव्यवधायके य्वत् मा भूत् इत्येवमर्थम् । तेनेह न
भवति । ह्वायकमिच्छति ह्वायकीयति ततः सन् ह्वायकीयितुमिच्छति जिह्वायकीयिषति ॥ १८४ ॥ ५आत्मनेपदे सूत्रम्
वात्मने ॥ १८५॥ [सि० ३।४।६३ ] हादिभ्यस्त्रिभ्योऽद्यतन्यामात्मनेपदेऽङ् वा स्यात् । आह्वत आह्वास्त, आह्वाताम् आह्वासाताम् ५। आजुहुवे आजुहुविषे ६ । आह्वासीष्ट ७॥ १८५॥ 'वात्म०' स्पष्टम् ॥ १८५ ॥ अथास्यात्मनेपदं नियमयति । सूत्रम्
हः स्पर्धे ॥ १८६ ॥ [ सि० ३।३।५६ ] आङ्पूर्वात् हयतेः स्पर्धे गम्ये आत्मनेपदमेव स्यात् । मल्लो मल्लमाह्वयते । अन्यत्र तु गामाह्वयति ॥ १८६ ॥ ___ '०' स्पर्द्धः सङ्घर्षः पराभिभवेच्छा । स धात्वर्थस्य विशेषणम् । धात्वर्थश्च द्वयतेरापूर्वस्य
शब्द एव स्वभावात् । मल्लो मल्लमाह्वयते इति । स्पर्द्धमान आकारयतीत्यर्थः । स्पर्द्ध इति किम् ? १५गामाह्वयति ॥ १८६ ॥ उपसर्गयोगे नियममाह सूत्रम्
संनिवेः ॥ १८७ ॥ [ सि० ३।३।५७ ] एभ्योऽपि ह्वयतेरात्मनेपदमेव । 'टुवपी बीजसन्ताने' वपति ४। अवाप्सीत् ५। द्वित्वे पूर्वस्य यवृति, उवाप । य्वृति द्वित्वे, ऊपतुः ऊपुः । उवपिथ उवप्थ ऊपथुः ऊप । उवाप
उवप ६ । उप्यात् ७ । वप्ता ८। वप्स्यति ९ । अवप्स्यत् १० । वपते ४ । अवप्त ५। ऊपे २० ऊपिषे ६ । वप्सीष्ट ७ । 'वहीं प्रापणे वहति ४ । अवाक्षीत् ५। सहिवहेरोच्चावर्णस्येति
अवोढाम् अवाक्षु: ५। उवाह उवहिथ । इडभावपक्षे उवोढ ६ । उह्यात् ७। वोढा ८ । वक्ष्यति ९ । अवक्ष्यत् १० । वहते ४ । अवोढ अवक्षावाम् अवक्षत ५ । ऊहे ऊहिषे ६ । वक्षीष्ट ७॥१८७॥
'संनि०' संह्वयते, निह्वयते, विह्वयते । 'उपात्' (३।३।५८ ) उपपूर्वात् ह्वयतेः कर्त्तर्यात्मनेपदं २५स्यात् । उपह्वयते । योगविभाग उत्तरार्थः । 'उपसर्गादातः' (५।३।११०) इति डे आह्वः । 'तन्व्यधी०' (५।११६४) इति णे ह्वायः । 'आतो डो०' (५।१७६) इत्यत्र हावर्जनात् कर्मणोऽणि स्वर्गह्वायः । 'ह्वः समाह्वयाह्वयौ द्यूतनाम्नोः' (५।३।४१) इति अलि निपातनात् समाह्वयः प्राणिद्यूतम् । आह्वयः संज्ञा । 'न्यभ्युपवेर्वाश्चोत्' (५।३।४२) इत्यल् वाकारश्च उकारो भवति । हवः अभिहवः उपहवः विवः । ह्वो हव इति इत्यनिपातनं किम् ? यङ्लुपि निपातनं मा भूत् । ३० तेन निजोहव इति सिद्धम् । 'आङो युद्धे' (५।३।४३) आहवो युद्धम् । आह्वायोऽन्यः । 'आहावो
निपानम्' (५।३।४४) आहूयन्ते पानाय गावो यत्रेति निपातनम् । 'भावेऽनुसर्गात्' (५।३।४५)
हवः । कर्मणि घनि ह्वायः । उणादौ तीवरधीवर० (४४४) इति वरटि निपातनात् उपह्वरं ३३ सन्धिः रहश्च । रहश्छन्नमुपहरमिति वचनात् । 'टुवपी बीजसन्ताने' । बीजानां सन्तानः क्षेत्रे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org