________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे परस्मैपदविधिः । भ्वादय उभयपदिनः ६१९ ताडने दिवादिः । 'व्यचत् व्याजीकरणे' तुदादौ कुटादिः । 'व्यथिष भयचलनयोः' घटादिः । क्रमेणोदाहरणानि ज्या । जिज्यौ जिज्यिथ । प्रकृते संविव्याय । व्यध् विव्याध विव्यधिथ । व्यच् विव्याच विव्यचिथ अत्र 'कुटादेर्डिद्वदमित्' (४।३।१७) इत्यनेनेथे डित्त्वेऽपि 'व्यचोऽनसि' (४।१।८२) इति न वृत् । समासान्तागम इति न्यायात् कुटादिगणनिर्दिष्टस्य ङित्त्वस्यानित्यत्वात् । व्यथ विव्यथे । परोक्षायामित्येव वाव्यथ्यते ॥ १८१ ॥ थवि विशेषसूत्रम् ।
ऋवृव्येऽद इद ॥ १८२ ॥ [ सि० ४।४।८०] एभ्यश्चतुर्म्यः परस्य थवो नित्यमिट् स्यात् । विव्ययिथ । विव्याय विव्यय ६ । यजादिवचेः कितीति रवृति वीयात् ७ । व्याता ८। व्यास्यति ९ । अव्यास्थत् १० । व्ययते ४ । अव्यास्त ५ । विव्ये विव्यिषे ६ । व्यासीष्ट ७ । 'ढेंग स्पर्धाशब्दयो' । आह्वयति ४ ।
'ऋ०' एभ्यश्चतुर्थ्य इति । ' प्रापणे' 'ऋक् प्रापणे वा' । 'वृग्टु वरणे' वृग्श् वरणे वा' ।१० 'व्यग् संवरणे' । 'अदं प्सांक् भक्षणे' । क्रमेणोदाहरणानि । ऋ ऋ द्वित्वे 'ऋतोऽत्' (४।१।३८) पूर्वस्य अत्वे । 'अस्यादेः०' (४।१।६८) इति तस्य आत्वेऽनेन इडागमे आरिथ । वृग् ववरिथ । व्ये विव्ययिथ । अद् आदिथ । अर्तेः 'ऋतः' (४।४।७९) इति सूत्रेण वृगः 'स्क्रसृवृ'० (४।४। ८१) इति सूत्रेण प्रतिषेधे प्राप्ते व्येऽदोस्तु 'मृजिशि०' (४।४।७८) इत्यादिना विकल्पे प्राप्ते वचनम् । संव्यायेत्यादौ परोक्षाश्रयत्वेन बहिरङ्गमित्वमन्तरङ्गे दीर्धेऽसिद्धमिति । 'भवादेः०' (२।१।१५ ६३) इति पूर्वस्य दीर्घाभावः । यङि 'व्येस्यमोर्यङि' (४।१।८५) इति वृति संवेवीयते । यपि 'व्यः' (४।११७७) इति वृन्निषेधे उपव्याय । 'सम्परेवा' (४।१।७८) संव्याय संवीय । परिव्याय परिवीय । क्ये वीयते । णौ 'पाशाच्छा०' (४।२।२०) इति ये व्याययति । अनिट्वात् व्याता । 'य एञ्चातः' (५।१।२८) इति व्येयम् । नीविरिति नयतेरौणादिके डौ (७०५) ३ । ह्रग् इति सर्व सुगमम् ॥ १८२ ॥ अद्यतन्यां सूत्रम्
हालिप्सिचः ॥ १८३ ॥ [सि० ३।४६२] एभ्यस्त्रिभ्योऽद्यतन्यामङ् स्यात् । आह्वत आह्वताम् आह्वन् ॥ १८३ ॥ 'हा०' एभ्यस्त्रिभ्य इति । ह्वा इति प्रकृतोऽयम् । अन्यौ च द्वौ 'लिपीत् उपदेहे' 'षिचीत् क्षरणे' इति । ङित्त्वात् 'इडेत्पुसि चातो लुक' (४।३।९४ ) इत्यातो लुकि आह्वत् इत्यादि व्यक्तम् ॥ १८३ ॥ परोक्षायां सूत्रम्
२५ द्वित्वे ह्रः॥ १८४ ॥ [ सि० ४३११८७] ह्वेगो द्वित्वविषये सस्वरान्तस्था यवृत्स्यात् । ततो हुहु इति द्वित्वे आजुहाव । धातोरिवर्णोवर्णस्येत्युवादेशे आजुहुवतुः आजुहुवुः, आजुहोथ आजुहविथ, आजुहाव आजुहव ६। आहूयात् ७ । आह्वाता ८ । आह्वास्यति ९ । आह्वास्यत् १० । आह्वयते ४ ॥१८४ ॥
'द्वित्वे.' आजुहावेत्यादि स्पष्टम् । यङि जोहूयते जोहवीति । सनि जुहूषति । 'णौ ङसनि'३० (४।१।८८) ह्वयतेः सखरान्तस्था ङपरे सन्परे च णौ विषये य्वृद्भवति । 'भ्राजभ्रास०' (४।२। ३६) इति वा ह्रखे पक्षे 'लघोर्दीर्घ०' (४।१।६४ ) इति दीर्घ 'णेरनिटि' (४।३।८३ ) इति णिग्लोपे हाययन्तं प्रायुड आजुहावत् आजुहवत् । ह्वाययितुमिच्छति जुहावयिषति । णाविति विषय-३३
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org