________________
६१८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवास्यति ९ । अवास्यत् १० । आत्मनेपदेऽपि वयते ४ । अवास्त ५ । परोक्षायां वयादेशे ऊये ऊयिषे पक्षे ववे वविषे ६ । वासीष्ट ७ । 'व्यंग संवरणे' संव्ययति ४ । अव्यासीत् ५ ॥१८०॥
'अवि०' परत्वादिति । वार्णात्प्राकृतं बलीय इति न्यायाद्धातोरुवादेशे पश्चात्समानदीर्घ इति । ऊवतुः ऊवुरिति । अत्र 'वृत्सकृत्' (४।१।१०२) इति सूत्रेण पश्चाद्वकारस्य न वृत् । तथाहि ५ वृदित्यन्तस्थानामिकारोकारऋकाररूपापनानां शास्त्रेऽस्मिन् व्यवहारधातोर्वृत् सकृदेकवारमेव भवति । यावत्सम्भवस्तावद्विधिरिति पुनः प्राप्तमनेन निषिध्यते । यथा 'व्यग् संवरणे इत्यस्य संवीयते इत्यत्र यकारस्य 'यजादिवचेः०' (४।११७९) इति वृति पुनर्वकारस्य प्राप्तमनेन निषिध्यते। ववाथ वविथेति । अवित्परोक्षाभावान य्वृद्विकल्पः । किन्तु स्वरान्तत्वादिड्विकल्प एव । एवं ववथुः
ऊवथुः । वव ऊव । वविव ऊविव । वविम ऊविम । आत्मनेपदे वयादेशे ऊये ऊयाते ऊयिरे । १० यिषे ऊयाथे ऊयिध्वे ऊयिट्वे । ऊये ऊयिवहे ऊयिमहे । पक्षे वयादेशाभावे य्वृद्विकल्पे ववे ऊवे,
ववाते ऊवाते, वविरे ऊविरे । वविषे अविषे ववाथे उवाथे, वविवे २ ऊविवे २ । ववे उवे, वविवहे उविवहे, वविमहे उविमहे इति । अनिट्त्वात् वाता वातुम् वातव्यम् । णौ 'पाशाच्छा०' (४।२।२०) इति ये वाययति । 'ज्यश्च ०' (४।११७६) इति यपि य्वृन्निषेधे प्रवाय । 'य एञ्चातः
(५।१।२८) इति ये प्रवेयः पटः। 'उपसर्गादातः' (५।३।११०) इति डे प्रवः । 'तळ्यधी०' १५ (५।१।६४) इति णे वायः । 'आतो ड०' इत्यत्र वावर्जनात्कर्मणोऽणि तन्तुवायः । मनि सुवामा
वनि सुवावा । क्वनिपि 'यजादि०' (४।११७९) इति वृति 'दीर्घमव.' (४।१।१०३ ) इत्यत्र वेगो वर्जनादीर्घाभावे 'हस्वस्य०' (४।४।११३) इति तागमे सुत्वा । विचि सुवाः । किपि सूत् । क्ते 'यजादी'ति य्वृति 'दीर्घमव०' इत्यत्र वेगो वर्जनादीर्घाभावे उतः उतवान् । ऊयत इत्यत्र तु य्वृति 'दीर्घश्वि०' (४।३।१०८) इति दीर्घः । क्तौ उतिः । ऊतिरिति तु 'ऊयैङ् तन्तुसन्ताने' इत्यस्य २०क्तौ । उणादौ वेगो ङित् (६२८) इतीचौ वीचिः। सात्मन्नात्मन् ० (९१६) इति निपातनात्
वेमा वेम तन्तुवायोपकरणम् । विरिति तु वेतेडौँ (६१६) २ । 'व्यग् संवरणे' इति संवरणमाच्छादनम् । संव्ययतीत्यादि स्पष्टम् । परोक्षायां सूत्रम् 'व्यस्थवणवि' (४।२।३ ) न आः इति । 'आत्सन्ध्यक्षरस्य' (४।२।१) इति सूत्रात् आ इत्यनुवर्तते, 'न शिति' (४।२।२) इति सूत्राच्च
नेत्यनुवर्तते, ततोऽयमर्थः, व्ययतेस्थवि गवि च विषयभूते आकारो न भवति । अन्यत्र सर्वत्रात्वं २५भवतीति । केचित्तु परोक्षामात्रे आत्वप्रतिषेधमिच्छन्तो व्येगो वृद्विधि विकल्पयन्ति । वृति
संविव्यतुः । अन्यथा संविव्ययतुः । एवं संविव्युः संविव्ययुः इति सर्वत्रापि रूपद्वयसिद्धिः तेन त्वक्त्रैः संविव्ययुर्देहानिति सिद्धम् । तदपरे पाठभ्रम एवायमिति मन्यन्ते । त्वक्त्रैः संविव्युरङ्गानीति सम्यक्पाठः । एवं 'संविव्ययुर्वसनचारुचमूसमुत्थं पृथ्वीरजः करभकण्ठकडारमाशाः' इति माघे । अत्रापि 'संविव्युरम्बरविकासिचमूसमुत्थ'मिति सत्पाठ इति ॥ १८० ॥ अत्रोपयोगिसूत्रम् ३० ज्याव्येव्यधिव्यचिव्यथेरिः ॥ १८१॥ [सि० ४११७१]
एषां पञ्चानां परोक्षायां द्वित्वे सति पूर्वस्य इ: स्यात् । यजादिवशिति वृद्धाधनार्थमिकारस्थापि इः । नामिनोऽकलिहलेरिति वृद्धौ आयादेशे च विव्याय । यजादिवचेरिति यवृति
योऽनेकखरस्येति यत्वे च विव्यतुः विव्युः ॥१८१॥ ३४ 'ज्याव्ये' एषां पश्चानामिति । ज्यांश् हानौ ऋयादिः । 'व्यग् संवरणे' यजादिः । 'व्यधंचू
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org