________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय उभयपदिनः
६१७ अयक्षाताम् ५। ईजे इंजिषे ६ । यक्षीष्ट ७ । 'वेग् तन्तुसन्ताने । वयति वयेत् वयतु अवयत् ४ । आत्सन्ध्यक्षरस्येत्यात्वे अवासीत् अवासिष्टाम् ५॥ १७६ ॥
'यजादि०' वचश्चेति । वचक ब्रुगादेशो वा । ऊचतुः ऊचुः । 'वचण भाषणे' इत्यस्य यौजादिकस्य तु न भवति वच्यते । यङि यायज्यते । यङ्लुपि यायजीति यायष्टि । अनुस्वारेत्त्वानेट यष्टा यष्टुम् । 'यजेर्यज्ञाङ्गे' (४।१।११४) इति गत्वप्रतिषेधात् घनि प्रयाजः अनुयाजः, यज्ञाङ्गादन्यत्र । यागः । ध्यणि गत्वप्रतिषेधात् याज्यम् , अत एव वचनात् ध्यणपि । 'शकितकि०' (५।१।२९) इति ये यज्यम् । णके याजकः । याजकादित्वात् षष्ठीसमासः नृपयाजकः । किपि 'यजसृज.' (२।११८७) इति षापवादे, ऋत्विग्दिगितिं गे ऋतौ यजति ऋत्विक् ‘करणाद्यजो भूते' (५।१। १५८) इति णिनि अग्निष्टोमयाजी । 'सुयज.' (५।१११७२) इति निपि यज्वा । 'पूङ्यजः शानः' (५।२।२३) इति शनि यजमानः । 'यजिजपि०' (५।२।४७) इति यङन्तादूके यायजन-१० शीलो यायजूकः । 'यजिस्खपि०' (५।३।८५) इति ने यज्ञः । आस्यटि० (५।३।९७) इति स्त्रियां भावे क्यपि इज्या । 'श्वादिभ्यः' (५।३।९२) इति क्तौ इज्यतेऽनया इष्टिः । उणादौ प्लुज्ञा० ( ६४६) इति तो यष्टिः । रुद्यति० (९९७ ) इत्युसि यजुः अच्छन्दाः श्रुति ॥ अथ एदन्तात्रयः । वयति वयते इत्यादि स्फुटम् ॥ १७६ ॥ परोक्षायां सूत्रम्
वेर्वय् ॥ १७७॥ [सि० ४।४।१९] वेगः परोक्षायां वय वा स्यात् । उवाय । यजादिवचेः कितीति य्वृति द्वित्वे ऊय् इति । भवति ॥१७७॥
'वे.' उय् इति भवतीति । अत्र 'यजादिवः किति०' (४।१।७९) इति पुनत्वेि प्राप्त ॥ १७७ ॥ सूत्रम् । न वयो य् ॥ १७८ ॥ [सि० ४।१।७३ ]
२० वेगो वयो यः परोक्षायां य्वृन्न स्यात् । ऊयतुः ऊयुः । यजादिवशवच इत्यादिना पूर्वस्य वृति उवयिथ । स्वरान्तत्वानित्यमिद् ऊयथुः ऊय । उवाय उवय । ऊयिव ऊयिम । वयादेशाभावे तु ॥ १७८ ॥
'न व.' वेगो वयो यकारः परोक्षायां य्वृन्न स्यादिति व्यक्तम् । वयादेशस्य वैकल्पिकत्वात् ॥ १७८ ॥ पक्षे सूत्रम्
वेरयः ॥ १७९ ॥ [सि० ४।१।७४ ] वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां न स्यात् । ववौ ववतुः ववुः ॥ १७९ ॥ 'वे.' स्पष्टम् । ववतुः वधुरिति ॥ १७९ ॥ अकृतवयादेशस्य वेगः परोक्षायां नित्यं वृन्निषेधे प्राप्ते सूत्रम् __ अविति वा ॥ १८० ॥ [सि० ४।१।७५]
३० वेगोऽयकारान्तस्याविति परोक्षायां वृद्वा न स्यात् । द्वित्वे कृते परत्वाद्धातोरुवादेशे पश्चात समानदीर्घः । ऊवतुः ऊचुः । ववाथ वविथ ६ । खरान्तत्वादिड्विकल्पः । ऊयात् ७। वाता ८।३२
है. प्रका० उत्त० ७८
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org