________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय उभयपदिनः
६१५ वरटि चत्वरम् । वाश्यसि० (४२३) इत्युरे चतुरः । चतेरुर् (९४८) चत्वारः। अथ थान्ताः त्रयः सेटश्च । 'प्रोग् पर्याप्तौ' पर्याप्तिः पूर्णता । प्रोथते प्रोथति । पुप्रोथे पुप्रोथ । ऋदिस्यात् डे अपुप्रोथत् । अचि प्रोथः अश्वघोंणाधः, प्रियश्च युवा । प्रियं प्रोथमनुब्रजेत् । 'मिशृग् मेधाहिंसयोः' । मेथते मेथति । मिमेथे मिमेथ । मेथिता । अमिमेथत अचि मेथः । गौरादित्वात् ख्यां मेथी खीले गोबन्धदारु यत् । 'मेथीबद्धोऽपि च भ्राम्यन् घासग्रासं करोति गौः' । उणादौ५ किलिपिलि० (६०८) इति इः मेथिः खलमध्यस्थूणा । 'मेशृग् सङ्गमे च'। चकारात् हिंसामेधयोः । मेथते मेथति । मिमेथे मिमेथ । अचि मेथः । इयां मेथी । अथ दान्ता षट् सेटश्च । 'चदेग याचने' । चदते चदति । अचदीत् १ । 'ऊबुन्दर निशामने' । निशामनमालोचनम् । बुन्दते बुन्दति । बुबुन्दे । बुन्दिता । ऋदित्त्वादडि अबुदत् अबुन्दीत् । ऊदित्त्वात् क्त्वि वेट बुत्त्वा बुन्दित्वा । वेट्वात् क्तयो. नेट बुन्नः बुन्नवान् । धान्तोऽयमिति नन्दी बुन्धति २ । अबुधत् अबुन्धीत् । बुवा बुन्धित्वा ।१० बुद्धः बुद्धवान् । अयं चेदृगित्येके २ । 'णिहम् णेहग कुत्सासन्निकर्षयोः' । 'पाठे.' (२।३।९७) इति नत्वे नेदते नेदति । णोपदेशत्वात् 'अदुरुपसर्गः' (२।३७७) इति णत्वे प्राप्ते प्रणेदते प्रणेदति । णेहर नेदते नेदति ४ । 'मिर मेहर मेधाहिंसयोः' । मेदते मेदति । मिमेदे मिमेद। मेहम् मेदते २ । मिमेदे मिमेद । 'बिमिदाच् स्नेहने' मेद्यति । 'मिदुण स्नेहने' मिन्दयति ६ । अथ धान्ताश्चत्वारः सेटश्च । 'मेधृग सङ्गमे च' चकारान्मेधाहिंसयोः । मेधते मेधति । मिमेधे मिमेध ।१५ 'क्तेट' (५।३।१०६) इत्यः मेधा । यणि मेध्यम् । 'कर्मणोऽण् (५।१।७२) इत्यणि अश्वमेधः। 'अजातेः शीले' (५।१।१५४) इति णिनि गृहमेधी । उणादौ पदिपठि० (६०७) इति इ: मेधिः १। 'शृधूम् मृधूग उन्दे' । उन्दं वेदनम् । शृधू तालव्यादिः । शर्धते शति । अशृधत् अशर्धीत् । शशृधे शशर्ध । शर्धिता । ऊदित्त्वात् क्त्वि वेट शुध्वा शर्धित्वा । वेट्त्वात् क्तयोनेंट शुद्धः शृद्धवान् । शृधूङ् इत्यस्य तु शर्धते । मृधूग मर्धते मर्धति । ममृधे ममर्ध । मर्धिता । मृध्वा २० मर्धित्वा । मृद्धः मृद्धवान् । 'नाम्युपान्त्य०' (५।११५४) इति के मृधं रणः । 'बुधृग् बोधने । बोधते बोधति । बुबुधे बुबोध । बोधिता । अबुधत् अबोधीत् । आत्मनेपदे त्वङोऽसत्त्वे अबोधिष्ट । क्ते बुधितः । नायमृदिदित्येके । 'बुध अवगमने' ज्वलादिः । बोधति । 'वा ज्वलादि०' (५।११६२) इति णे बोधः । 'नाम्युपान्य०' (५।११५४) इति के बुधः । 'बुधिंच ज्ञाने' बुध्यते । अविवक्षितकर्मत्वेन 'गत्यर्थ०' (५।१।११) इति कर्तरि क्ते बुधः । अथ नान्तास्त्रयः सेटश्च । खनूर अव-२५ दारणे । खनते खनति । चखान चख्ने चख्नतुः । खनिता। क्त्वि वेट् खात्वा, अत्राः खनीत्यास्वम् । खनित्वा । 'ये नवा' (४।२।६२) इति वात्वे खायते खन्यते । यङि चाखायते चङ्खन्यते । यङ्लुपि चङ्खनीति चङ्खन्ति । वेटत्वात् क्तयोर्नेट खातः खातवान् । 'खेय.' (५।१।३८) इति क्ये निपातनात् खेयम् । 'नृत्खन्०' (५।१।६५) इत्यकटि खनकः खनकी । क्वचिदिति डे खन्यते खम् परिखाता परिखा । 'लघूसूखनि०' (५।२।८७) इतीने खनन्ति तेन खनित्रम् । खनो डडरेकेकव.३० कधं (?) च आखायते आखन्यते वाऽनेनास्मिन्वा आखः आखरः आखनिकः आखनिकवकः आखनः आखानः। १ । 'दानी अवखण्डने २ 'शानी तेजने' ३ । आर्जवे निशाने चार्थे 'शान्दान्मान्बधान्निशानार्जवविचारवैरूप्ये दीर्घश्चेतः' (३।४।७) इति सनि 'सन्याश्च' (४।१।३) इति द्वित्वे 'हस्वः' (४।११३९) इति पूर्वस्य हस्खत्वे 'सन्यस्य' (४।१।५९) इति तस्य इत्वेऽनेन तस्य दीर्घत्वे च दीदांसते दीदांसति । शीशांसते शीशांसति । अर्थान्तरे तु सनोऽभावे प्रत्ययान्तराण्यपि । 'कापू' ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org