SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु णिश्रिकमः कर्त्तरि ङः ॥ १७३ ॥ [ सि० ३ | ४|५८ ] ण्यन्तात् श्रयादेश्च कर्त्तर्यद्यतन्यां ङः स्यात्ततो द्विर्धातुरिति द्वित्वे संयोगादितीयादेशे अशिश्रियत् अशिश्रियताम् अशिश्रियन् ५ । शिवाय शिश्रियतुः शिश्रियुः । शिश्रयि ६ । श्रीयात् ७ । श्रयिता ८ । श्रयिष्यति ९ । अश्रयिष्यत् ९० । श्रयते ४ । अशिश्रियत अशिश्रियेताम् ५ अशिश्रियन्त ५ । शिश्रिये ६ । श्रयिषीष्ट ७ । 'शपीं आक्रोशे' । शपति ४ । अशाप्सीत् ५ । शशाप | शेपिथ - शशस्थ ६ । शपते ४ अशप्त ५ । शेपे । शेपिषे ६ । शप्सीष्ट ७ ॥ १७३ ॥ । ६१४ 'णिश्रि०' क्रमेणोदाहरणानि । णिरिति णिगुणिणिङां ग्रहणम् । तथाहि अचीकरत् अचूचुरत् औदत् अचीकमत । कर्मकर्त्तापि कर्त्तव । अचीकरत् कटः स्वयमेव । श्रि अशिश्रियत् । द्रु अदुद्रुवत् । कम अचकमत । कर्त्तरीति किम् ? अंकारयिषातां कटौ देवदत्तेन । कमिग्रहणं 'अशवि १० ते वा' ( ३।४।४ ) इति यदा णिङ्गास्ति, तदार्थवत् । ङकारो ङित्कार्यार्थः ॥ श्विश्रिडी इत्यनिट् कारिकायामस्य वर्जनादनुस्वारेत्त्वाभावेन सेट्त्वात् श्रयितेत्यादि । 'ऋवर्णयूणुगः कित' (४।४।५७) इति इडभावे श्रत्वाश्रितः श्रितवान् । सनि 'इवृध ० ' ( ४|४|४७ ) इति वेटि शिश्रीषति शिश्र'यिषति । 'जीणदृक्षि०' ( ५/२/७२ ) इतीनि विश्रयणशीलो विश्रयी । 'दिद्युइदृद्०' ( ५/२/८३ ) इति क्विपि निपातनात् श्रीः | 'भूयद ० ' ( ५।२।२३ ) इति सोपसर्गादलि प्रश्रयः । अनुपसर्गात् १५ घपि श्रायः । श्रय इति तु बाहुलकादलि । 'उदः श्रे:' ( ५।३।५३ ) इति अलि उच्छ्रयः । पक्षे घञि उच्छ्रायः । उणादौ कावावी० (६३४ ) इति णौ श्रेणिः । अश्रिरिति त्वश्नोतेः तङ्किवकि० (६९२ ) इति रौ । श्मश्रुरित्यपि शेते: श्मनः शीङो डित् ( ८१० ) इति रौ । शिर इति च मिथिरञ्जयुष० (९७१ ) इति कित्यसि । भ्वादिस्वरान्ताः षडेवोभयपदिन इति ते निरूपिताः । 1 अथ वर्णक्रमोऽनुसन्धीयते । तत्र कान्तः प्रागुक्तः । चान्तेषु अब्रूग् डुपचींष् प्रागुक्तौ । याच ग् २० वक्ष्यते इति चान्तास्त्रय एव । राजग् दुभ्राजि भञ्जीं रञ्जीं इति जान्ताश्चत्वारो वक्ष्यन्ते । शेषा वर्णक्रमेण निरूप्यन्ते । तत्र टान्तः एकः सेट् च । 'रेदृग् परिभाषणयाचनयो:' । रेटते रेटति ऋदित्त्वादद्यतन्यामङि अरटत् । रिरेटे रिरेट । ङपरे णौ न ह्रस्वः अरिरेटत् । णान्तः एकः सेट् । 'वेणूग् गतिज्ञानचिन्तानिशामन वादित्रग्रहणेषु' । वादित्रस्य वाद्यभाण्डस्य वा वादनाय ग्रहणम् । वेणते वेणति । अवेणत् अवेणीत् । विवेणे विवेण । ङपरे णौ अविवेणत् । णके स्त्रियां वेणिका । २५ उणादौ इणुर्विशा ० ( १८२ ) इति णे वेण्णानाम नदी । वीणा इति तु घृवीह्ना० ( १८३ ) इति किति णे वेतेः । वेणिरित्यपि कावावी० ( ६३४ ) इति णावस्यैव ॥ अथ तान्तः सेट् १ | ''चतेग् याचने' । चतते चतति । चतिता चतितुम् । एदित्त्वात् 'व्यञ्जनादेः ' ( ४ | ३ | ४७ ) इति वा वृद्धेः 'न २८ श्विजागृ०' (४।३।४९ ) इति प्रतिषेधे अचतीत् । क्के चतितम् । उणादौ कृगुरा ( ४४१ ) इति १ ननु 'स्वरस्य परे' इति हखत्वस्य स्थानित्वे लघोरभावात्सन्वद्भावो न प्राप्नोति । न । एतत्सूत्रसामर्थ्याद्भवति, यत ओणेदनुबन्धकरणव्याख्यानात् पूर्वं ह्रस्वत्वे कृते स्थानिवद्भावो न प्राग्विधावित्यस्य प्राचि पूर्वस्मिन् काले विधिः प्राग्विधिरिति व्याख्यानाद्वा । २ अत्र परे द्वित्वे 'हो धुट्पदान्ते' इत्यस्यासत्त्वे तदाश्रितत्वात् 'अधश्चतुर्थात्तथोर्घः' इत्यस्याप्यसत्त्वे णौ यत्कृतमिति न्यायादकारस्य स्थानिले 'नाम्रो द्वितीयात्' इत्यनेन हृतेति द्विर्वचनम्, तत्र यदा परे द्विले 'हो धुट्पदान्ते' इत्यस्य शास्त्रस्यासिद्धिराश्रीयते तदा पुनरपि 'हो धुट्पदान्ते' इत्यादि प्रक्रिया क्रियते, ततो 'ढस्तड्डे' इति ढलोपे पूर्वजकाराकारस्य दीर्घत्वे ‘ह्रखः’ इत्यनेन ह्रखः । ३ क्रियेते कटौ देवदत्तेन तौ देवदत्तेन क्रियमाणौ यज्ञदत्तेन प्रयुज्येते स्म, यद्वा करोति कटौ देवदत्तः, स एवं विवक्षते नाहं करोमि अपि तु क्रियेते कटौ स्वयमेव । तौ क्रियमाणी यज्ञदत्तेन प्रायुक्षाताम् । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy