________________
६१३
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय उभयपदिनः यति । श्रमं विनयते इत्यादौ श्रमापगमादेः फलस्य कर्तृसमवायित्वात्सिद्धे आत्मनेपदे नियमार्थ वचनम् । (तेनात्र सूत्रे फलवत्तैव विवक्ष्यते) व्यवच्छेद्यं च प्रत्युदाहरणम् , तेन प्रत्युदाहरणेषु फलवत्त्वविवक्षायामपि नात्मनेपदम् । शमयतिक्रियावचनादेव नयतेरात्मनेपदं दृश्यते न प्रापणार्थात् । यथा 'शिवमौपयिकं गरीयसी फलनिष्पत्तिमदूषितायतिम् । विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः' ॥ १॥ इति किरातार्जुनीये द्वितीयसर्गे श्लो० ३५ यथा च कोपं शमं नयति । मन्यु५ नाशं नयति । प्रज्ञां वृद्धिं नयति । बुद्धिं क्षयं नयति ॥ १७१ ॥ सूत्रम् पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः ॥ १७२ ॥ [सि० ३।३।३९] __ आत्मनेपदमेव । नयते विद्वान् स्याद्वादे । अदुरुपसर्गेति णत्वे प्रणयति अन्तर्णयति । 'झिंग सेवायाम् । श्रयति ४ ॥ १७२ ॥
'पूजा०' अयमस्यार्थः पूजाचार्यकभृतिषु यथासङ्ख्यं कर्मकर्तृधात्वर्थविशेषणेषु गम्यमानेषु उत्क्षेपादिषु १० च धात्वर्थेषु वर्तमानान्नयतेः कर्त्तर्यात्मनेपदं स्यात् । पूजा सन्मानः । नयते जीवादीन् विद्वान् स्याद्वादे प्रमाणव्यापारवित् स्याद्वादे जीवादीन् पदार्थान् युक्तिभिः स्थिरीकृत्य शिष्यबुद्धिं प्रापयति, ते हि युक्तिभिः स्थिरीकृताः पूजिता भवन्ति । आचार्यस्य भावः कर्म वा आचार्यकम् , माणवकमुपनयते, स्वयमाचार्यो भवन्माणवकमध्ययनायात्मसमीपं प्रापयतीत्यर्थः। भृतिवेतनम् ; कर्मकरानुपनयते । वेतनेनात्मसमीपं प्रापयतीत्यर्थः । उत्क्षेप ऊर्ध्वनयनम् , शिशुमुदानयते उत्क्षिपतीत्यर्थः । ज्ञानं प्रमेय-१५ निश्चयः; नयते तत्त्वार्थे, तत्र प्रमेयं निश्चिनोतीत्यर्थः । विगणनमृणादेः शोधनम् ; मद्राः कारं विनयन्ते, राजग्राह्यं भागं दानेन शोधयन्तीत्यर्थः । व्ययो धर्मादिषु विनियोगः, शतं विनयते, धर्माद्यर्थ विनियुङ्क्ते इत्यर्थः । एतेष्विति किम् ? अजां ग्रामं नयति । गित्त्वादफलवदर्थ आरम्भः । णिगि 'गतिबोधे'त्यत्र नीवर्जनादणिकत्र्तुः कर्मत्वाभावे नाययति भारं ग्रामं चैत्रेण । 'प्रणाय्यो निष्कामासंमते' (५।११२३) इति ध्यणि निपातनात् प्रणाय्यः । 'धाय्यापाय्य.' (५।१।२४) इति निपात-२० नात् सानाय्यं हविः । 'परिचाय्योपचाय्य०' (५।१।२५) इति निपातनात् आनाय्यो दक्षिणाग्निः । ये त्वमेरन्यत्राप्यनित्यविशेषमिच्छन्ति, तन्मते आनाय्यो गोधुक् । 'जिविपून्य०' (५।१।४३ ) इति क्यपि विनीयः कल्कः । 'वा ज्वलादि.' (५।१।६२) इति णे नायः । पक्षेऽचि नयः । 'ग्रामाप्रान्नियः' (२।३।७१) इति ग्रामणीः अग्रणीः । 'असरूपोपवादे.' (५।१।१६) इत्यणि ग्रामनाय इत्यपि । 'नीदांव०' (५।२।८८) इति करणे त्रुटि नेत्रम् । 'नियश्चानुपसर्गाद्वा' (५।३।६०) इति २५ वा पनि नायः । पक्षेऽलि नयः । 'वोदः' (५।३।६१) उन्नायः उन्नयः । 'अवात्' (५।३।६२) अवनायः । 'परेख़्ते' (५।३।६३) 'परिणायस्तु शारीणां नयनं स्यात्समन्ततः' । पुनाम्नि घे नीयतेऽनेनेति नयः । 'आनायो जालम्' (५।३।१३६) इति पनि आनायो मृगाणाम् । उणादौ नीनूर (२२७) इति किति थे नीथं जलम् । सुनीथो नाम राजा । नियो वा (३०२) इति वा किति पे नीपः कदम्बः, कित्त्वाभावे नेपः पुरोधाः, नेपं जलं यानं च । ऋज्यजि० (३८८) इति ३० कितीरे नीरम् । नीस० (६८७) इति मौ नेमिः चक्रधारा । नियो डित् (८५४) इति ऋः ना नरौ । हुपूगोन्नी० (८६३) इति तृः उन्नेता ऋत्विक् । नियः षादिः (८६४) नेष्टा ऋत्विक् । अथ हखेकारान्तमाह । भिंग सेवायामिति । श्रयतीत्यादि स्पष्टम् ॥ १७२ ॥ अद्यतन्यां सूत्रम्
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org