________________
६१२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुविपूर्वस्यास्य क्रीडार्थत्वादकर्मकत्वम्। क्रीडार्थत्वं 'विहारदेशं तमवाप्य' इति नैषधीयप्रयोगात् प्रसिद्धम् । अभ्यवहरति मैत्रः । अभ्यवहारयति मैत्रं मैत्रेण वा चैत्रः । यदा सकर्मको भवति । चौर्यार्थत्वादनभ्यवहारार्थश्च तदा कर्मकत्वमप्राप्तं (हक्रोनवेति) कर्मत्वं विभाष्यते । हरति द्रव्यं चौरः, हारयति द्रव्यं चौरं चौरेण वा चैत्रः, यदा तु सकर्मको भवत्यचौर्यार्थत्वेऽपि देशान्तरप्रापणार्थस्तदा ५गत्यर्थत्वात् गतिबोधेति नित्यं प्राप्तं कर्मत्वं विभाष्यते । हरति भारं चैत्रः, हारयति भारं चैत्रं चैत्रेण
वा मैत्रः । देशान्तरं प्रापयतीत्यर्थः । ग्रहादित्वाणिनि व्याहारी संव्याहारी । 'अवहृतास्रंसोः' (५।११६३ ) इति णे अवहारः । 'हगो वयोऽनुद्यमे' (५।१।९५) इत्यचि अस्थिहरः श्वा । मनोहरः । उद्यमे तु अणेव भारहारः । 'आङः शीले' (५।१।९६) इत्यचि पुष्पाहरो विद्याधरः ।
'दृतिनाथात् पशाविः' (५।११९७) दृतिहरिः श्वा, नाथहरिः पशुः। 'न्यायावाय.' ( ५।३।१३४) १० इति घापवादे घधि संहारः अवहारः। उणादौ कुशिकहृदिक० (४५) इतीके निपातनात् हृदिकः
यादवः । द्रुहृवृहि० (१९४) इति इणे हरिणः । हृश्या० (२१०) इतीते हरितः । 'गयहृदय.' (३७०) इति निपातनात् हृदयम् । हिरण्य० (३८०) इत्यन्ये निपातनात् हरतेरिञ्चातः हिरण्यम् । स्वरेभ्य इ. (६०६) हरिः । नीवीप्रहृभ्यो डित् (६१६) प्रहिः कूपः । 'कृह.' (७७२)
इत्येणौ हरेणुर्गन्धद्रव्यम् । हृमृरुहि० (८८७) इतीति हरित् । दिक् । हृजनिभ्यामिमन् (९१७) १५हरिमा मृत्युः । सहभृ० (९१८) इति ईमनि हरीमा मातरिश्वा ।
एवं भृग् भरणे इति । भरते भरति इत्यादि प्रक्रिया सुगमैव । अनुस्वारेत्वान्नेट् । भर्ता भर्तुम् । तीर्थस्य भर्ती तीर्थभर्ती । 'कर्मजा तृचा च' (३।११८३) इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः । 'हनृतः स्यस्य' (४।४।४९) इतीटि भरिष्यति । सनि 'इवृधः' (४।४।४७) इति वेटि बुभूति बिभरिषति । भृतः भृतवान् । घबि भारः । भर इति तु भृणातेरलि । भृगोऽसंज्ञायाम् २०(५।१।४५) इति क्यपि भृत्यः । संज्ञायां 'ऋवर्ण०' (५।१।१७) इति व्यणि भार्यों नाम
क्षत्रियः । भार्या वधूः । 'कुक्ष्यात्मोदराद्भगः खिः' (५।१।९०) कुक्षिम्भरिः । आत्मम्भरिः । उदरम्भरिः 'भृवृजि०' (५।१।११२) इति खे विश्वम्भरा भूः। विपि विदभृत् । 'मालेषीकेष्टकस्याऽन्तेऽपि भारितूलचिते' (२।४।१०२) इति हवे मालां बिभर्तीत्येवंशीलः 'अजातेः शीले'
(५।१११५४) इति मालभारी उत्पलमालभारी । मालभारिणी उत्पलमालभारिणी । 'टुडुग्क् २५पोषणे' इत्यस्य तु बिभर्ति । 'धंग धारणे' इति । धरते धरति इत्यादि प्रयोगजातं प्रकटम् । 'आयु
धादिभ्यः०' (५।११९४ ) इत्यचि वज्रधरः । दण्डादेस्तु 'कर्मणोऽण्' (५।१।७२) इत्यणि दण्डधारः सूत्रधारः । 'धृङ् अवध्वंसने धरते 'धृङ्त् स्थाने ध्रियते । चुरादेराकृतिराकृतिगणत्वात् धारयति । इति चत्वार ऋकारान्ता धातवः उक्ताः । अथ दीर्घईकारान्तमाह । णींग प्रापणे इति ।
अजां नयति नयते वा ग्रामं प्रापयतीत्यर्थः । णोपदेशत्वात् 'अदुरुपसर्गान्तर०' (२।३।७७) इति ३० णत्वे प्रणयते । शेषं स्फुटम् ॥ १७० ॥ अथास्यात्मनेपदं नियमयति । सूत्रम्
कर्तृस्थाऽमूर्ताप्यात् ॥ १७१ ॥ [ सि० ३३१४०] कर्तृस्थममूर्तं कर्म यस्य तसान्निय आत्मनेपदमेव । श्रमं विनयते ॥१७१ ॥
कर्त०' कर्तृस्थमित्यादि । एवं क्रोधं विनयते शमयतीत्यर्थः । कर्तृस्थ इति किम् ? चैत्रो मैत्रस्य ३४मन्युं विनयति । अमूर्तेति किम् ? गईं विनयति । घण्टां विनयति । आप्येति किम् ? बुद्ध्या विन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org