________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय उभयपदिनः
६११
'स्वाङ्गतक्ष्व्यर्थनानाविधानार्थेनभूवच' (५|४|८६ ) मुखतः कृत्य । मुखतः कृत्वा । मुखतः कारं गतः - एषु 'तृतीयोक्तं वा' ( ३।१।५० ) इति समासः । सनि के चिकीर्षितम् । प्रज्ञाद्यणि चैकीर्षितम् । 'कृभ्वस्तिभ्यां ० ' ( ७/२/१२६ ) इति च्वौ घटीकरोति मृदम् । 'अरुर्मन ० ' ( ७।२।१२७ ) इति सो लुकि अरूकरोति । 'तीयशम्ब० ' ( ७।२।१३५ ) इति डाचि द्वितीयाकरोति क्षेत्रम् । 'सङ्ख्यादेगुणात्' (७।२।१३६) द्विगुणाकरोति क्षेत्रम् । 'अव्यक्तानुकरणे० ' ( ७/२/१४५ ) इति डाचि, ५ 'याद' (७।२।१४९ ) इति पूर्वस्य तो लुकि पटपटाकरोति । उणादौ कृवापाजि० ( १ ) इत्युणि कारुः शिल्पी । कृगो वा ( २३ ) इति किति के कृकः शिरोग्रीवे 'कृकस्तु कन्धरामध्य' मिति कोषः । कर्कः श्वेतोऽश्वः । करकः करकेतिं तु दृकृश्रित्यके (२७) रूपम् । कृगो द्वे च ( ७ ) इति किदः 'चक्रम् । कृकडि० (३२१ ) इत्यम्बे करम्बः दध्योदन: दधिसक्तवश्च । 'कृकलेरम्भः ' ( ३३६ ) करम्भः दधिसक्तवः । करीर इति तु किरते: कुशपृ० (४१८ ) इतीरे । ऋकृमृ० १० ( ४७५ ) इत्याले करालमुञ्चम् । पतिकृलूभ्यो णित् ( ४७९ ) कारालं लेपद्रव्यम् । 'कृधूतन्यृ० (४४० ) इति किति सरेः कृसरः तिलौदनः । कृकुरिभ्यां पासः ( ५८३ ) कर्पासः । कृकुटि ० ( ६१९ ) इति वा णिदिः कारिः शिल्पी, करिः हस्ती विष्णुश्च [ ऋसृ ( ६३८ ) इत्यणौ करणिः सादृश्यम् । आङः 'गृह' ( ६४३ ) इति सनो णौ आचिकीर्षणिर्व्यवसायः । कृभूभ्यां कित् ( ६९० ) इति मौ कृमिः ] क्रिमिरिति तु क्रमेः क्रमितमि० (६१३ ) इति इप्रत्यये उपान्त्येत्वे च । जरास्तृ० १५ ( ७०५ ) इति ङिति वौ कृविः रुद्रः राजा च । कृह० ( ७७२ ) इत्येणौ करेणुः हस्ती । कृलाभ्यां कित् (७८० ) इत्यतौ क्रतुः । मनि ( ९११ ) कर्म, करण्ड इति तु कृतृ० ( १७३ ) इति अण्डे किरतेः । एवं किरोङ्को रो लश्च वा ( ६२ ) करङ्कः समुद्रः कलङ्को लाञ्छनम् । कृम ऋत उर् च (७३४) 'कृत् विक्षेपे' ( इत्यस्मादुः ) कुरुः । कुरोरपत्यमिति 'दुनादि ० ' ( ६।१।११८ ) इति यः । 'कुरो' ( ६।१।१२२ ) इति स्त्रियां तलुपि 'उतोऽप्राणिनश्चा० ' (२।४।७३ ) इत्यूङि कुरू: । 'कंग्ट् २० हिंसायामित्यस्य तु कृणुते कृणोति । 'हंग हरणे' इति प्रक्रिया सर्वापि कृंग्वत् स्पष्टा । अथास्यात्मनेपदं नियमयति तत्र सूत्रम् 'हृगो०' ( ३ | ३ | ३८ ) अस्यायमर्थः । गतं प्रकारः सादृश्यमनुकरणमित्येकोऽर्थः । तच्छीलमस्य, तच्छीलस्तस्य भावस्ताच्छील्यम्, उत्पत्तेः प्रभृत्याविनाशात्तत्स्वभावता । हरते: प्रकारताच्छील्ये ऽर्थे वर्त्तमानात्कर्त्तर्यात्मनेपदं स्यात् । शब्दशक्तिस्वाभाव्याच्चानुपूर्व एव हरतिर्गतताच्छील्ये वर्त्तते । तथा चोदाहरति - पैतृकमश्वा अनुहरन्ते इति । एवं गावो मातृकमनुहरन्ते । पितुरागतं मातु- २५ रागतं गुणविषयं वा सादृश्यम विकलं शीलयन्तीत्यर्थः । एवं पितुरनुहरते मातुरनुहरते । गतग्रहणं किम् ? पितुर्हरति मातुर्हरति । ताच्छील्य इति किम् ? नटो राममनुहरति । नटो हि कश्चिदेव कालं राममनुकरोतीत्यसातत्ये न भवति । यद्वा गतं गमनं तस्य पित्रादेः शीलमस्य तच्छीलस्तस्य भावस्ताच्छील्यम् । गतेन गमनेन ताच्छील्यं गतताच्छील्यम्, तस्मिन् वर्त्तमानात् हरतेः कर्त्तर्यात्मनेपदं स्यात् । पैतृकमश्वा अनुहरन्ते । पितुरागतं गमनमविच्छेदेन शीलयन्तीत्यर्थः । एवं पितुरनुहरते पितरमनु- ३० हरते । गतताच्छील्य इति किम् ? धर्मान्तरेण पितरमनुहरते । अथवा गते गमने ताच्छील्ये च वर्त्तमानात् हरतेरात्मनेपदं भवति । पैतृकमश्वा अनुहरन्ते तद्वगच्छन्ति तद्वच्छीलयन्ति वेत्यर्थः । हरतिरयं सकर्मकश्चाकर्मकश्च तथाभ्यवहारार्थश्वेतरार्थश्च दृश्यते । यदा अकर्मकश्चाभ्यवहारार्थश्च भवति, तदा णौ ‘गतिबोध० ' ( २२२५ ) इत्यणिकर्तुर्नित्यं प्राप्तं कर्मत्वं 'हृक्रोर्नवा' (२।२२८ ) इति विकल्प्यते । हरति मैत्रः हारयति मैत्रेण वा चैत्रः । हरतीत्यत्र विहरतीति युक्तं प्रतिभाति । ३५
1
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org