________________
६१० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुतीत्यर्थः । अस्योपलक्षणत्वात् 'गन्धनावक्षेपसेवासाहसप्रतियत्नप्रकथनोपयोगे' ( ३।३। ७६ ) एषु सप्तस्वर्थेषु वर्तमानात्करोतेः कर्तर्यात्मनेपदं स्यात् । गन्धनं द्रोहाभिप्रायेण परदोषोट्टनं प्रोत्साहनादिकमन्ये, आदेरव्याबाधानुज्ञादयः । तथा च पठन्ति तथ्येनातथ्येन वा गुणेन प्रोत्साहन गन्धनम् । प्रथममते उत्कुरुते उदाकुरुते माम् , अध्याकुरुते जिघांसुरपकत्रै कथयतीत्यर्थः । अवक्षे५पणमवक्षेपः । कुत्सनं भर्त्सनं च । दुर्वृत्तानवकुरुते कुत्सयतीत्यर्थः । श्येनो वर्तिकामपकुरुते भर्त्सयतीत्यर्थः । सेवानुवृत्तिः । महामात्रानुपकुरुते सेवत इत्यर्थः । साहसमविमृश्य प्रवृत्तिः । परदारान् प्रकुरुते विनिपातमविभाव्य तानभिगच्छतीत्यर्थः । प्रतियत्नः सतो गुणान्तराधानम् । एधोदकस्यो. पस्कुरुते । तत्र गुणान्तरमादधातीत्यर्थः । प्रकथनं कथनप्रारम्भः प्रकर्षेण कथनं वा । जनापवादान् प्रकुरुते, कथयितुमारभते प्रकर्षेण वा कथयतीत्यर्थः । उपयोगो धर्मादौ विनियोगः । शतं प्रकुरुते, १० धर्मादौ विनियुङ्क्ते इत्यर्थः । एध्विति किम् ? कटं करोति । अफलवत्कर्बर्थ आरम्भः । 'अधेः
प्रसहने' ( ३।३।७७) अधेः परात्करोतेः प्रसहने वर्तमानात्कर्त्तर्यात्मनेपदं भवति । प्रसहनं पराभिभवः । परेणापराजयो वा । तं हाऽधिचक्रे तं प्रसेहे; तमभिभूतवान् तेन वा न पराजित इत्यर्थः । अथवा सहनं (क्षमा) तितिक्षोपेक्षेति यावत् । प्रकर्षेण सहनं प्रसहनम् । तच्च द्विधा
शक्तस्याशक्तस्य च । तथा च किरातार्जुनीये 'भवादृशाश्चेदधिकुर्वते परान्' समर्था अपि १५ यापेक्षन्ते तदा 'निराश्रया हन्त हता मनस्विता।' प्रसहन इति किम् ? तमधिकरोति । अधेरिति
किम् ? शत्रून प्रकरोति । अथास्य परस्मैपदं नियमयति । 'परा०' (३।३।१०१) स्पष्टम् । परा. करोति अनुकरोति । गङ्गामनुकुरुते तप इति नात्र करोतिरनुना सम्बध्यते । गन्धनादावर्थे गित्त्वात्फलवति च प्राप्तस्यात्मनेपदस्याऽपवादोऽयम् । 'कृगो नवा' (३।१।१०) इति वा गतिसंज्ञायां
'तिरसो वा' (२।३।२) इति वा रस्य सत्वे तिरस्कृत्य तिरःकृत्य पक्षे गतित्वाभावे 'गतिक०' २०(३।१।४२) इति समासाभावाद्यबभावे तिरःकृत्वा । कर्मणोऽणित्यणि पयस्कारः । अत्र 'अतः
कृकमि०' (२।३।५) इति रस्य सत्वम् । 'सत्यागदा०' ( ३।२।११२) इति मोऽन्ते सत्यङ्कारः । 'कृवृषि०' (५।१।४२) इति वा क्यपि कृत्यम् । पक्षे ध्यणि कार्यम् । 'शकृत्स्तम्बाद्' (५।१। १००) इति इ. शकृत्करिः वत्सः । स्तम्बकरिीहिः । 'किंयत्तद्वहोरः' (५।१।१०१) किङ्करः किङ्करा जातिरिदानीम् , किङ्करी तु 'हेतुतच्छीला०' (५।१।१०३) इति टे रूपम् । यथा विद्या २५ यशस्करी । 'सङ्ख्याहर्दिवा०' (५।१११०२) इति टे सङ्ख्याकरः एककरः इत्यादि । 'भृतौ कर्मणः'
(५।१।१०४) कर्मकरः कर्मकरी । 'क्षेमप्रियमद्रभद्रात् खाऽण् (५।१।१०५) क्षेमङ्करः क्षेमकारः। 'मेघर्तिभयाभयात्खः' (५।१।१०६) मेघङ्करः । 'कृगः खनट करणे' (५।१।१२९) नग्नकरणं द्यूतम् । 'कृगः सुपुण्यपाप०' (५।१।१६२) इति भूते किपि सुकृत् । 'सहराजः' (५।१।१६७)
इति भूते कनिपि सहकृत्वा राजकृत्वा । 'भाज्यलं०' (५।२।२८) इतीष्णौ अलङ्करणशीलोऽलङ्क३० रिष्णुः निराकरिष्णुः । कारणमित्यनटि निपातनात् करोतीति कारणम् । 'व्यर्थे कळप्या०' (५।३।
१४०) इति खलि सुकटङ्कराणि तृणानि । अन्यथैवमिति ख्णमि अन्यथाकारं भुते । 'यथातथादीर्योत्तरे' (५।४५१) यथाकारमहं भोक्ष्ये । तथाकारमहं भोक्ष्ये किं तवामेन । 'शापे व्याप्यात्' (५।४।५२) चौरङ्कारमाक्रोशति । 'स्वाद्वर्थाददीर्घात्' (५।४।५३) स्वादुङ्कारं भुते । 'कृगोऽव्य
येनाऽनिष्टोक्तौ क्त्वाणमौ' (५।४।८४) उच्चैःकृत्य उच्चैःकृत्वा उच्चैःकारं कथयति ब्राह्मणः कन्या ते ३५गर्भिणीति । 'निर्यचाऽपवर्गे' (५।४।८५) इति तिर्यकृत्य । तिर्यकृत्वा । तिर्यकारं गतः समाप्येत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org