________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादय उभयपदिनः
I
'अदीर्घाद्विराम ० ' ( १ | ३ | ३२ ) इति सद्वित्वे तृतीयम् । उभयोर्द्वित्वे चतुर्थम् । अनुनासिकवतां त्रयाणां द्वित्वे षट् । अनुस्वारवतां त्रयाणां रुद्वित्वे षट् 'कादिर्व्यञ्जन' मित्यत्रानुस्वारस्य व्यञ्जनसंज्ञाया ज्ञापितत्वाददीर्घाद्विरामेत्यनुस्वारद्वित्वे द्वादश । एषां द्वाविंशतेः तकारद्वित्वे मतान्तरेण पुनर्द्वित्वे एकतं द्वितं त्रितमिति षट्षष्टिः । अन्त्यस्वरस्यानुनासिकत्वे द्वात्रिंशं शतम् । संस्करोतीत्यादौ चतुश्वत्वारिंशदित्यादि स्वयं ज्ञेयम् । संस्कुरुते इत्यात्मनेपदे प्रक्रिया स्पष्टा । परिष्करोतीति परिष्करोति ५ कन्यां भूषयतीत्यर्थः । परिष्कृतं परिष्काराभरणे चेति कोषः । तत्र नः परिष्कृतं समुदितमित्यर्थः । भूषासमवाययोरेवेच्छन्त्येके तन्मतेऽन्यत्र परिकृतम् । पूर्वोक्तन्यायेन द्विर्वचनादडागमाच्च प्राकू रसडागमे पर्यस्करोत् ४ । पर्यकार्षीत् ५ । परिचस्का र ६ । एवं समचिस्करत् पर्यचिस्करत् । कथं सङ्कति ? गर्गादिपाठात् । सङ्करः परिकर इति किरते रत्वाद् भविष्यति । सङ्कार इत्यत्र किरतेरेव बहुलाधिकारात् घञ् । स्सडिति द्विःसकारनिर्देशात् समचिस्करदित्यादौ 'नाम्यन्तस्था ० ' ( २।३।१५ ) इति षो न १० भवति । परिष्करोतीत्यादौ तु ' असोसिवू सहस्सटाम् ' ( २।३।४८ ) इत्यादिवचनाद्भवति । ढकारः 'सटि सम' इत्यत्र विशेषणार्थः ॥ १६८ ॥ उपोपसर्गयोगे सूत्रम्
उपाद्भूषासमवायप्रतियत्नविकारवाक्याध्याहारे ॥ १६९ ॥ [ सि० ४|४|१२]
एष्वर्थेषु उपात्कृगः स्सट् स्यात् । कन्यामुपस्करोतीत्यादि ॥ १६९ ॥
'उपा०' एष्वर्थेष्वति । भूषा अलङ्कारस्तत्र कन्यामुपस्करोति भूषयतीत्यर्थः । समवायस्समुदा- १५ यस्तत्र न उपस्कृतं समुदितमित्यर्थः । पुनर्यत्नः प्रतियत्नः । सतोऽर्थस्य सम्बन्धाय वृद्धये तादवस्थ्याय समीहा प्रतियत्नः । एधोदकस्योपस्कुरुते । काण्डगुणस्योपस्कुरुते तत्र प्रतियतत इत्यर्थः । अत्र च 'कृगः प्रतियत्ने' ( २/२/१२ ) अस्मिन्नर्थे वर्त्तमानस्य करोतेर्व्याप्यं कर्म वा स्यादिति वैकल्पिके कर्मत्वाभावे 'शेषे' (२।२।८१ ) इति षष्ठी । पक्षे एधोदकमुपस्कुरुते इति रूपद्वयम् । प्रकृतेरन्यथाभावो विकारः । तत्रोपस्कृतं भुङ्क्ते । उपस्कृतं गच्छति विकृतमित्यर्थः । गम्यमानार्थस्य वाक्यैकदेशस्य २० स्वरूपेणोपादानं वाक्याध्याहारस्तत्रोपस्कृतं जल्पति । उपस्कृतमधीते । सोपस्काराणि सूत्राणि सवाक्याध्याहाराणीत्यर्थः । एष्विति किम् ? उपस्करोति ॥ १६९ ॥ अथास्यात्मनेपदं नियमयति । सूत्रम्
६०९
वेः कृगः शब्दे चानाशे ॥ १७० ॥ [ सि० ३।३।८५ ]
५ ।
कर्मण्यसति शब्दे वा कर्मणि सत्यनाशार्थाद्विपूर्वात्कग आत्मनेपदमेव स्यात् । विकुर्वतेऽश्वाः । क्रोष्टा विकुरुते खरान् । परानोः कृगः ( ३।३।१०१ ) परस्मैपदमेव । पराकरोति । २५ 'हूंग् हरणे' । हरति ४ । अहार्षीत् ५ । जहार जहर्थ जहिम ६ । हरते ४ । जहिषे ६ । हृषीष्ट ७ । 'हृगो गतताच्छील्ये' ( ३|३|३८ ) आत्मनेपदमेव । पैतृकमश्वा अनुहरन्ते । पितुरनुहरते । एवं 'भृंगू भरणे' 'घुंग धारणे' भरति धरतीत्यादि । 'णीं प्रापणे' । नयति ४ । अनैषीत् अनैष्टाम् अनैषु: ५ । निनाय निनयिथ निनेथ ६ । नयते ४ । अनेष्ट ५ । निन्ये निन्यिषे ६ ॥ १७० ॥
३०
'वेः कृ०' कर्मण्यसतीति विकुर्वतेऽश्वाः - साधु दान्ताः शोभनं वल्गन्तीत्यर्थः । ओदनपूर्णा छात्रा विकुर्वते - निष्फलं चेष्टन्त इत्यर्थः । शब्दे कर्मणि क्रोष्टा विकुरुते खरान् नानोत्पादयतीत्यर्थः । शब्दे चेति किम् ? विकरोति मृदम् । अनाश इति किम् ? विकरोत्यध्यायं विकरोति शब्दम् विनाशय- ३३ है० प्रका० उत्त० ७७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org