________________
६०८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु४१) इतीकारः । ध्वमि सर्वत्र सो धि वेति सिज्लोपे इमानि रूपाणि । सिजलोपाभावे अतीईट्वम् इत्यादीनि डकाराकान्तढकाराणि रूपाणि स्वयं ज्ञेयानि । चिनोतिच्यवत्योः 'नामिन ' इति गुणे अचेवम् अच्योवम् अकृवम् चेषीट्वम् कृषीड्वम् । नाम्यन्तादिति किम् ? अपग्ध्वम् पक्षीध्वम् ।
र्नाम्यन्तादिति धातोर्विशेषणं किम् ? ववसिध्वे आसिध्वे । आसिध्वम् । आसिषीध्वम् । परोक्षाय५तन्याशिष इति किम् ? स्तुध्वे स्तुध्वम् अस्तुध्वम् । यस्तन्या ध्वम् ।। १६५ ।। समुपसर्गयोगे सूत्रम्
सम्परेः कृगस्सट् ॥ १६६ ॥ [सि० ४।४।९१] आभ्यां परस्य कृग आदिः स्सट् स्यात् ॥ १६६ ॥ "सम्प०' स्पष्टम् ॥ १६६ ॥ अनोपयोगिसूत्रम्
स्सटि समः ॥ १६७ ॥ [ सि० १॥३॥१२] १० स्सटि परे समः स सात् , अनुखारानुनासिकौ च पूर्वस्य । संस्करोति संस्करोति ॥१६७॥
'स्सटि संस्करोति कन्यां भूषयतीत्यर्थः । संस्कृतं वचनम् । संस्कारो वासना । तत्र नः संस्कृतं समुदितमित्यर्थः । एवं संस्करोतीत्यादीन्यनुनासिकरूपाणि ज्ञेयानि ॥१६७॥ अत्र विशेषसूत्रम्
__लुक् ॥ १६८ ॥ [सि० १॥३॥१३] समः सटिपरे लुक् स्यात् । सस्करोति ॥ समस्करोत् ४ । समस्कार्षीत् ५। सश्वस्कार । १५ सृजिशिस्कृ इत्यादिना वेटि स्कृच्छृतोऽकीति गुणे सञ्चस्करिथ-सञ्चस्कर्थ सञ्चस्करिव ६।
संस्क्रियात ७ । संस्कुरुते ४ । समस्कृषाताम् ५ । सञ्चस्करे ६ । रंस्कृषीष्ट ७ । असोसिवूसहस्सटामिति षत्वे परिष्करोति ॥ १६८॥
'लुक' समः स्सटि परे इत्यादि । सम इत्येतस्य स्सटि परे लगन्तादेशो भवति । पृथग्योगादनुखारानुनासिकौ च पूर्वस्येति निवृत्तम् । ननु पृथग्योगः किमया सुत्र एव लुगुच्यताम् । न च २०वाच्यं तथा सति लुपक्षेप्यनुस्वारानुनासिकौ स्यातामिति, सकारप्रतिबद्धत्वात् तयोस्तन्निवृत्तौ न
प्रवृत्तिः । नैवमनुस्वारानुनासिकौ हि कार्यप्रतिबद्धावेव विज्ञायते । 'नोऽप्रशान०' (१९३८) इत्यादिना शषसादावपि तत्प्रवृत्तेस्ततश्च लुकोऽपि कार्यतया तत्प्रतिबद्धौ लुक्पक्षेऽपि तौ स्यातामिति सूत्रम् । पृथग्योगादित्यादि-सस्करोति सस्कर्ता सस्कर्तुम् । केचित्त्वत्राप्यनुनासिकमिच्छति संस्करोति संस्कर्तुम् । स्सटि इति किम् ? सङ्कृतिः सञ्चकारेत्यादौ तु व्यवधानान्मकारस्य सवं लुक् च न २५भवति । सम इति किम् ? उपस्कर्ता । पूर्व धातुरुपसर्गेण सम्बध्यते पश्चात्साधनेनेति द्विर्वचनादडा.
गमाञ्च पूर्व स्सडेव भवति ततः समस्करोत् ४ । समकार्षीत् ५ । सञ्चस्कार ६ । संस्क्रियात् ७ । श्वस्तम्यां संस्कर्तेत्यत्र समो मस्य सत्वेऽनुस्वारानुनासिकाभ्यां द्विःस-| संस्कर्ता । संस्कर्ता कारं रूपद्वयम् । पाणिनीयमते अनुस्वारविसर्गजिह्वामूली- संस्स्कर्ता सस्स्कर्ता योपध्मानीयानामकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेनानुस्वारस्या- संस्स्स्कर्त्ता १३ सँस्स्स्कर्ता ६ ३० प्यच्त्वात् । अनचि चेति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् ।। संस्कर्ता । सरस्कर्ता तथा लोपस्य रुप्रकरणस्थत्वादनुनासिकाभ्यामेकसकारं रूपद्वयम् । संस्स्कर्ता सस्स्कर्ता ४
श्रीहेमसूरिमते च पूर्वोक्तयुक्त्या मलोपेऽनुस्खारानुनासिकौ न | सर्पसङ्ख्यया | १३२ स्युः । १३भवत इति ताभ्यां रहितं रूपमेकम् । 'शिटः प्रथमद्वितीयस्य' (१॥३॥३५) इति कद्वित्वे द्वितीयम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org