________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादय उभयपदिनः
इति वैकल्पिके प्रत्यये अक्ष्णुहि । अत्र संयोगात्पर उकार इति हेर्लुग् न । असंयोगादित्योर्विशेषणादिहापि न भवति आहि राध्नुहि । अत्र संयोगात्परो नकारोऽस्ति न तु उकारः । यदि वा संयोगाय उकारान्तः प्रत्यय इति प्रत्ययविशेषणं स्यात्तदाऽत्रापि भवेत् । ओरिति किम् ? क्रीणीहि । प्रत्ययादित्येव । जुः सौत्रो धातुः, 'टुक्षु रु कुंक् शब्दे' जुहि रुहि । अत्र संयोगात्पर उस्तदन्तो धातुरस्ति न तु प्रत्यय इति । ननु हिलोपे निमित्ताभावे नैमित्तिकस्याप्यभाव इति उनिवृत्तिः कथं न ५ स्यादित्यत्रोच्यते । शित्प्रत्ययनिमित्तिकस्य उप्रत्ययस्य हिनिवृत्तौ निवृत्तिर्न न्याय्या । सन्निपातलक्षणाद्वा उप्रत्ययनिमित्तको हिलोप उविघाताय नोत्सहत इति वा न उनिवृत्तिः ॥ १६२ ॥ आशिषि सूत्रम्
रिः शक्याशीर्ये ॥ १६३ ॥ [ सि० ४ | ३ | ११० ]
ऋदन्तस्य धातो ऋतः शे क्ये आशीर्ये च परे रिः स्यात् । क्रियात् ७ । कर्त्ता ८ | 'हनृत०' इति इडागमे करिष्यति ९ । अकरिष्यत् १० । कुरुते कुर्वते १ । कुर्वीत २ । कुरुताम् । १० कुरुष्व । करवै करवावहै करवामहै ३ । अकुरुत । अकुरुथाः । अकुर्वि अकुर्वहि अकु - र्महि ४ ॥ १६३ ॥
६०७
'रिः श०' क्रमेणोदाहरणानि शे 'पृत् व्यायामे' 'तुदादेः श:' ( ३|४|८१ ) अनेन ऋतो रिः व्याप्रियते । 'दृङ्क्त् आदरे' आद्रियते । करणं क्रिया 'कृगः श च वा' ( ५।३।१००) इति शे अन ऋतो रित्वे 'संयोगात् ' ( २।१।५२ ) इतीयादेशे क्रिया । क्ये क्रियते ह्रियते । आशीर्ये हियात् १५ क्रियात् । ह्रस्वविधानसामर्थ्यात् च्वियङ्यक्येष्वित्यधिकृतेष्वपि 'ऋतो री: ' ( ४|३|१०९) इति सूत्रेण क्रियते इत्यत्र दीर्घो न स्यात् । आशीर्य इति किम् ? कृषीष्ट हृषीष्ट ॥ १६३ ॥
अद्यतन्यां सूत्रम्
ऋवर्णात् ॥ १६४ ॥ [ सि० ४।३।३६ ]
ऋवर्णान्ताद्धातोरनिटावात्मनेपदे सिजाशिषौ किद्वत्स्याताम् । धुइहखादिति सिलपि अकृत २० अकृषाताम् । माकृथाः ॥ १६४ ॥
1
'ऋव०' ऋवर्णान्तादित्यादि । अयमर्थः ऋवर्णान्ताद्धातोः परे अनिटावात्मनेपदविषये सिजाशिषौ किद्वत्स्याताम् । यथा अकृत अहृत । कृषीष्ट हृषीष्ट । अतीष्ट अस्मात्कर्मकर्त्तरि एकधातावित्यात्मनेपदप्रत्यये 'स्वर हो वा' ( ३।४।९० ) इति विकल्पेन बिच । कर्मणि तु नित्यं ञिच् स्यात् । एवमपूर्टेत्यत्रापि । तीर्षीष्ट पूर्षीष्ट । अनिटावित्येव अवरिष्ट वरिषीष्ट । अतरिष्ट रिषीष्ट ॥ १६४ ॥ २५ अद्यतन्या ध्वमि सूत्रम्
र्नाम्यन्तात्परोक्षाद्यतन्याशिषो धो ढः ॥ १६५ ॥ [ सि० २।१८० ]
रेफान्तान्नाम्यन्ताच्च धातोरेतासां धो ढः स्यात् । अकृद्वम् | अकृष्वहि अकृष्महि ५ । चक्रे । चकृषे चढे ६ । कृषीष्ट । कृषीम् ७ । कर्त्ता ८ । करिष्यते ९ । अकरिष्यत १० ।। १६५ ॥
'नाम्य० ' रेफादीनामुदाहरणानि यथा तरतेरद्यतन्या ध्वमि 'सोधि वा' ( ४ | ३ |७२ ) इति ३० सिचो लुकि 'ऋतां कितीर्' ( ४|४|११६ ) इतीरादेशे 'भ्वादे: ० ' ( २|१|६३ ) इति दीर्घे 'अड्धातो ० ' ( ४।४।२९ ) इत्यडागमे अनेन ढत्वे अतीर्द्धम् । आशिषः सीध्वम् सीद्वम् । नाम्यन्त ष्टुंग्क् स्तुतौ डुकुंग करणे आभ्यां परोक्षाध्ने तुष्टुवे चक्रद्वे । ददातिदधात्योः 'इश्च स्थादः ' ( ४।३।३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org