________________
६०६
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
विशेषणेनेति ? कुर्यादित्यादावव्यवहितोऽस्तीति । अवितीत्येव करोति ॥ १५९ ॥ वकारमकारयकारा
दिविभक्तौ सूत्रम्
कृगो यि च ॥ १६० ॥ [ सि० ४२८८ ]
गः परस्योतो यादौ वमि चाविति लुक् स्यात् । कुर्वः कुर्मः ॥ १६० ॥ 'कृगो०'
I
चकारात् वमीत्यनुवर्त्तते । ततो यादावित्यादि स्पष्टम् । यि चेति किम् ? कुरुतः । अवितीत्येव करोमि । कुम्र्मीत्यपि कश्चित्तदसम्मतम् । 'कुंगट् हिंसायामित्यस्मात्तु नकारव्यवधानादुः परो न सम्भवतीति न भवति । कृणुयात् कृणुवः कृणुमः ॥ १६० ॥ सप्तम्यां 'भ्वादेर्ना मिन: ० ' (२|१|६३ ) इति दीर्घे प्राप्ते सूत्रम्
५
कुरुच्छुरः ॥ १६१ ॥
[ सि० २२१२६६ ]
१० कुरुच्छुरोर्नामिनो रेफे परे दीर्घो न स्यात् । कुर्यात् २ | करोतु कुरुतात् ।। १६१ ॥ 'कुरु० ' कुर्यादिति एवं कुर्वः कर्मः । छुरत छेदने तुदादौ कुटाद्यन्तर्गणे छुर्यात् छु । कुर्वि - त्युकारः किम् ? उच्यते उकाराभावे प्रतिपदोक्तत्वात् 'कुरत् शब्दे' इत्यस्यैव ग्रहणं स्यात् । तर्हि कृच्छुर इति निर्विवादं क्रियतां न च वाच्यं कृच्छुर इति कृते कंट् हिंसायामित्यस्यापि ग्रहणम्, कृणोतीत्यादौ रेफाभावात्करिष्यतीत्यादौ नाम्यभावेन दीर्घत्व प्राप्तेरभावाश्चेति । उच्यते । कृच्छुर इति १५ कृते सर्वत्रापि कृधातोर्दीर्धनिषेधे चिकीर्षतीत्यादावपि दीर्घनिषेधः स्यात् । उकारे कृते च डुकंग् इत्यस्यैव उप्रत्ययविषय एव दीर्घनिषेध इति सर्वे समञ्जसम् । किचात्रोकारग्रहणात् 'कुरत् शब्दे' इत्यस्य दीर्घः स्यात् कुर्यात् कूर्यते । केचिदस्यापि प्रतिषेधमिच्छन्ति । अथ 'रींश गतिरेषणयोः ' रीः 'रिपिंत् गतौ' रिर्वा अनयोर्द्वयोरपि परोक्षाया सि उसि च रिर्यतुः रिर्युः । तथा 'वींक् प्रजनादौ ' अस्य विव्यतुः विव्युः । एषु इकारस्य दीर्घः कस्मान्न भवतीत्यत्रोच्यते । बहिरङ्गलक्षणस्य यत्वस्या२० सिद्धत्वेन व्यञ्जनाभावादिति । ननु 'व्येंग् संवरणे' 'व्यधंच् ताडने' आभ्यां णवि ' व्यस्थव् णवी' - त्यात्वप्रतिषेधे द्वित्वेऽनादिव्यञ्जनलोपे 'हखः' इत्यनेन ह्रस्वत्वे तस्य च कार्यान्तरबाधनार्थं 'ज्याव्येव्यधि० ' ( ४|१|७१ ) इति इकारस्यापि इत्त्वे प्रथमे 'नामिनोऽकलिहलिरित्येत ऐत्वे आयि । द्वितीये 'णिति' ( ४।३।५० ) इति वृद्धौ संविव्याय संविव्याधेति रूपद्वयं सिद्ध्यति । अथात्र नामिनो दीर्घः कस्मान्न भवतीति चेत् । द्वित्वे कृते प्रत्ययाश्रितत्वेन बहिरङ्गस्य इकारस्य प्रकृत्याश्रितत्वे२५ नान्तरङ्गे दीर्घे कर्त्तव्येऽसिद्धत्वादिति गृहाण ॥ १६९ ॥ पञ्चम्या हौ सूत्रम्
असंयोगादोः ॥ १६२ ॥ [ सि० ४।२८६ ]
असंयोगात्परो य उस्ततो हेर्लुक् स्यात् । कुरु, कुरुतात् । करवाणि करवाव करवाम ३ । अकरोत् अकुरुताम् | अकरवम् अकुर्व अकुर्म ४ । अकार्षीत् अकाम् अकार्षुः । अकार्षीः अकार्ष्टम् अकार्ष्ट । अकार्षम् अकार्ष्व अकार्ष्म ५ । चकार चक्रतुः चक्रुः । 'ऋतः' इतीनिषेधे, ३० चकर्थ चकार चकर । स्त्रसृव इत्यत्र स्कुग्रग्रहणात् कृगो नेट् । चकृव चक्रम ६ ॥ १६२ ॥
Jain Education International
'असं०' असंयोगादित्यादि । असंयोगात्परो य उकारस्तदन्तात्प्रत्ययात्परस्य हेर्लुग् भवति । यथा सुनु, चिनु, तनु, कुरु । असंयोगादिति किम् ? 'ऋणूयी गतौ' 'कृग्तनादेरु:' ( ३।४।८३ ) ३३‘लघोरुपान्त्यस्य' (४।३।४ ) इति गुणे अर्णुहि । ' अक्षौ व्याप्तौ च' भ्वादि: 'वाक्षः' (३।४।७६ )
For Personal & Private Use Only
www.jainelibrary.org