________________
प्रक्रियावृतिरूपे श्रीहैमप्रकाशे भ्वादय उभयपदिनः
६०५ विधत्ते विधापयतीत्यर्थः, इत्यादि । यदाहुः क्रीणीष्व वपते धत्ते मिनुते चिनुतेऽपि च । आत्म(१)प्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते ॥ १ ॥ एतच्च श्रोत्रियमतमित्युपेक्ष्यते ।
पचति इत्यादि प्रक्रिया स्पष्टा । यङि पापच्यते । यङ्लुपि पापचीति पापक्ति । 'शुषि०' (४।२७८) इति क्तयोस्तस्य वत्वे पक्का पक्कवान् । 'क्तेऽनिट०' (४।१।१११) इति चस्य कत्वे ध्यणि पाक्यः । 'व्याप्ये धुरकेलिमकृष्टपच्यम्' (५।१।४) कृष्ट स्वयमेव पच्यन्ते कृष्टपच्या ब्रीहयः।५ खयं पच्यन्ते पचेलिमा माषाः । उणादौ विहाविशापचिभिद्यादेः केलिमः (३५४) पचत्यसावनमिति पचेलिमोऽग्निः आदित्योऽश्वश्च । लिहादित्वादणोऽपवादेऽचि श्वपचः । न्यङ्कादिनिपातनादणि कत्वे च श्वपाकः । न्यक्कादित्वादेव कर्मकर्तरि अचि वृद्धावुदन्तत्वे च दूरेपाकुः फलपाकुः । 'मांसस्यानड्०' ( ३।२।१४१) इत्यल्लुकि मांस्पचनम् मांसपचनम् मांस्पाकः मांसपाकः । 'परिमाणार्थ.' (५।१।१०९) इति खे प्रस्थंपचः मितंपचः नखंपचा यवागूः । उदः पचीतीष्णौ उत्पचनशीलं १० उत्पचिष्णुः उणादौ स्थविर० (४१७ ) इति निपातनात् पचतेरत इत्वं ठश्च पिठिरं साधनभाण्डं पिठेर्वा रूपम् ।
वर्णक्रमे प्रकृतेऽपि बालानुग्रहाय प्रसिद्धप्रयोगान् काश्चिद्धातून व्यस्तानेव निर्दिशति । 'डुकंग करणे' गकार उभयपदार्थ इति । एवं डित्त्वात् त्रिमकि कृत्रिमम् । अनुस्वारेत्त्वान्नेट् कर्त्ता कर्तुमिति ज्ञेयम् ॥ १५७ ॥ अत्र तिवादिषु सूत्रम्
कृग्तनादेरुः ॥ १५८ ॥ [सि० ३।४।८३] कृगस्तनादिभ्यश्च कर्तृविहिते शिति उ स्यात् । नामिनो गुणोऽकितीति गुणे, उश्नोरिति गुणे, करोति ॥ १५८॥
'कृगत' स्पष्टम् । तनादावपठित्वा भ्वादिपाठोऽस्य करते करतीत्यत्र शवर्थः । येषां मते तनादौ पाठस्तेषां मते 'तन्भ्यो वा तथासिन्णोश्च' (४।३।६८) इति विकल्पेन सिज्लोपे अतत २० अतनिष्टेतिवदस्यापि रूपद्वयं प्राप्येत, शव् च सिद्धयेत । खमते तु अकृत अकृथा इति नित्यमेव 'धुड्ह्रस्वात्० (४।३।७०) इति सिजुलुक् । अन्यैः कृग् तनादौ पठितस्ततस्तदपेक्षया तनादिसाहचर्यात् कृग् गृह्यते न तु इंग्ट् ॥ १५८ ॥ अविति शिति सूत्रम्
. अतः शित्युत् ॥ १५९ ॥ [सि० ४।२।८९] शित्यविति य उस्तनिमितो यः कुगोऽकारस्तस्य उत्स्यात् । शिदवित् द्वित्स्यात् इति गुणा-२५ भावे कुरुतः । इवर्णादेरिति वत्वे कुर्वन्ति । करोषि ॥ १५९ ॥
'अत०' यथा कुरुतः कुर्वन्ति कुरु कुरुताम् कुर्यात् । कुरुते अकुरुताम् कुर्वन् कुर्वाणः । उविधानबलादुकारे परे 'लघोरुपान्त्यस्य' (४।३।४) इति प्राप्तो गुणो न भवति । ओकार एवान्यथा विधीयेत । उकारनिमित्तत्वेनाकारविज्ञानात् कुर्यादित्यादावुकारलोपेऽपि भवति । अडागमस्य च न भवति । अकुरुत । शित्यवितीत्युकारस्य विशेषणम् । किं कुरुत इत्यादौ शिति व्यवहितेऽपि यथा३० स्यात् । अन्यथा कुर्यादित्यादावेव स्यात् । नच स्वरस्येति स्थानिवत्त्वे व्यवधायकत्वमिति वाच्यम् । तस्याः परिभाषाया अनित्यत्वात् । न चैतद्वाच्यम् येन नाव्यवधानमिति न्यायाद्भविष्यति । किमनेन ३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org