________________
६०४ महामहोपाध्यायश्रीविनयविजयमणिविरचिते खोपज्ञहैमलधु(५।३।१०६) इत्यः हिक्का । अथ चान्तात्रयः तत्राद्यौ सेटावन्योऽनिट् 'अञ्चूग् गतौ च' चकारादव्यक्ते शब्दे, गतिपूजयोरयं परस्मैपदिषु पठितः स चास्य पाठो गतौ फलवत्कर्त्तर्यपि परस्मैपदार्थः । अश्चते अञ्चति 'अञ्चोऽन याम्' (४।२।४६) इति नस्य लुकि अच्यते । 'अनात०' (४।१।६९) इति पूर्वस्यात्वे ने च आनञ्चे आनश्च अश्चिता अश्चितुं ऊदित्त्वात् क्त्वि वेद अक्त्वा अश्वित्वा धातोः ५परः क्त्वासेट किन्नभवतीति कित्त्वाभावान्नस्य लुग् नास्ति । वेट्त्वात् क्तयोर्नेट् अक्तः अक्तवान् ।
अयम् 'अचू गतावि'त्येके अचति अचते आचत् आचत आचे आच अचिता अचितुम् अदित्वात् क्त्वि वेट् अक्त्वा अचित्वा । 'अचु गतावि'त्यन्ये उदित्त्वान्ने अञ्चते अश्चति क्ये अश्चयते क्ते अश्चितः। 'अन् गतौ च' अश्चति अनर्चायां नस्य लुकि अच्यते अर्चायां नलोपाभावे अश्चयते । ‘डयाचा याजायाम् , अयमो वक्ष्यते । पच् धातुं कण्ठतो निर्दिशति 'डुपची पाके' इति । शेषा इत इति १० डुकारेकारानुस्खारषकारा इत्यर्थस्तत्र डुकारेत्त्वात् 'वितस्त्रिमा तत्कृतम्' (५।३।८४) इति त्रिमकि पाकेन निवृत्तम् पक्तिमं फलम् । अनुस्वारेत्वान्नेट पक्ता पक्तुम् षित्त्वात् षितोऽङ् पच्यतेऽसाविति पचा स्त्रियां भावे तु 'गापापचो भावे' ( ५।३।९५) इति क्तिरेव । ईकारेत्त्वस्य फलमाह अत्र सूत्रम्
ईगितः ॥ १५७ ॥ [सि० ३।३।९५] ईदितो गितश्च धातोः कर्तुरात्मगामिनि फले आत्मनेपदं स्यादन्यथा परस्मैपदं स्यात् । १५पचति ४ । अपाक्षीत् अपाक्तम् ५ । पपाच पपक्थ-पेचिथ ६ । पच्यात् ७ । पक्ता ८ ।
पक्ष्यति ९ । अपक्ष्यत् १० । पचते ४ । अपक्त ५। पेचे ६ । पक्षीष्ट ७ । पक्ता ८ । पक्ष्यते ९ । अपक्ष्यत १० । 'डुकंग करणे । गकार उभयपदार्थः ॥ १५७ ॥
'ईगि० ईदित इति यथा यजी यजते डुपची पचते लक्षीण लक्षयते । गित इति डुकुंग करणे कुरुते टु,ग्क बिभृते, कण्डूग् कण्डूयते । 'णिगन्त गमयते गतिः पादविहरणम् चलनं तु स्थितस्ये२० वेति 'चल्याहारार्थ.' (३।३।१०८) इत्यादिना न नित्यं परस्मैपदम् । ईगित इति किम् ? गच्छति
चोरयति कर्तुरित्यादेः फलवति कर्तरीत्यर्थः । फलवतीत्येव यजन्ति याजकाः, पचन्ति पाचकाः, कुर्वन्ति कर्मकराः गमयत्यश्वं दमकः नात्र स्वर्गीदनादिप्रधानं फलं का सम्बध्यते । यच्च दक्षिणावेतनादि कर्ता सम्बध्यते न तत् क्रियायाः प्रधानं फलम् । तच्चैतत्कर्तृगामिफलं सदसद्वा विवक्षानिबन्धनमेव ग्राह्यम् , तथैव लोके व्यवहारात् । तथाहि कचिदसदपि सद्विवक्ष्यते यथा शोषयते व्रीही२५नातपस्तथा च पूर्वाचार्यप्रयोगः शब्दः प्राक् स्वार्थमभिधत्ते ततो द्रव्यम् । अत्र हि शब्दस्यासदपि
फलवत्वं विवक्षितम् । परकर्मण्यपि प्रवृत्ताः केचिदाहुर्यजामहे इमे पचामहे यत्नादस्मदीयमेवैतदिति । कचिस्सदप्यसद्विवक्ष्यते इमे ब्रूमः । अवचनप्रतिषेधपरत्वेन प्रवृत्तेर्विवक्षितत्वात् । तथाहुः 'क्रियाप्रवृप्तावाख्याता कैश्चित्स्वार्थपरार्थता । असती वा सती वापि विवक्षितनिबन्धना' ॥१॥ इति । स्वस्मै इयं
परस्मै इयं क्रियाप्रवृत्तिः कर्मधारये स्वार्थपरार्था ततो भावे तल्, मतान्तरेण पुंवद्भावे स्वार्थपरार्थता ३० खमते तु 'त्वते गुणः' (३।२।५९) इति गुणवचनस्य भवति । केचित्तु णिग्वर्जितादीगितो धातोर्णिगर्थे एव प्रेषणाध्येषणाविशेष प्रतिविधाननानि वर्तमानादात्मनेपदमिच्छन्ति । प्रतिविधान
नानीति पूर्वेषां प्रयोजकव्यापारस्य प्रतिविधानमिति संज्ञा, विधानं प्रयोज्यव्यापार प्रतिगतं प्रति३३ विधानमिति व्युत्पत्तेः । यथा पचते पाचयतीत्यर्थः । केशश्मश्रु वपते वापयतीत्यर्थः । वेदो वैधयं
१ यथा गोशब्दः स्वार्थ सामान्यं गोलं प्राक् ततो गोलक्षणं द्रव्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org