________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे परस्मैपदविधिः । भ्वादय उभयपदिनः ६०३ रोहयमाणं हस्तिनं प्रयुक्रे इत्यस्यां षष्ट्यामवस्थायां णिगि प्राप्तमनेन निषिध्यते, तदा हि णिगवस्थायामनाप्यो धातुर्नाणिगवस्थायाम् , पञ्चम्यामवस्थायामयं धातुर्नित्याकर्मकोऽतो नित्याकर्मकद्वारेण णिगन्तस्य धातोः षष्ठ्यामवस्थायां 'वा कर्मणामि'त्यनेन हस्तिनः कर्मत्वं प्राप्तमणिकर्तेत्यंशेन निषिध्यते । अणि. गिति गकारः किम् ? णिजवस्थायां प्राणिकर्तृकानाप्याण्णिगन्ताद्यथा स्यात्-चेतयमानं प्रयुते चेतय. तीति । प्राणिकर्तृकादिति किम् ? शुष्यन्ति ब्रीहयः शोषयते व्रीहीनातपः 'प्राण्यौषधिवृक्षेभ्य०'५ (६।२।३१) इति पृथग्निर्देशादिह लोकप्रतीता एव प्राणिनो गृह्यन्ते । अनाप्यादिति किम् ? कटं कुर्वाणं प्रयुङ्क्ते कटं कारयते । णिग इति किम् ? आस्ते शेते । गकारः किम् ? अणिगवस्थायां प्राणिकर्तृकानाप्याण्णिजन्तान्मा भूत् चेतयते । 'ईगितः' (३।३।९५) इत्यात्मनेपदस्यापवादोऽयम् । 'चल्याहारार्थेबुधयुध द्रुघुनशजन:' (३।३।१०८) चलेरर्थः कम्पनम् । तदर्थेभ्य आहारार्थेभ्य इडादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपदं स्यात् । चल्यर्थ चलयति कम्पयति चोपयति १० शाखाम् । गतिरपि कम्पनमेव गमयति ग्रामं गां चैत्रः । कथं शिरः कम्पयते युवेत्यत्रात्मनेपदम् ? सत्यं, णिग्द्वयमत्र कम्पमानं शिर आत्मा प्रयुङ्क्ते ततो नात्र कम्पनं किन्तु कम्पना अत्र चलेरर्थः कम्पनमित्येधोक्तमिति । आहारार्थ निगारयति भोजयति आशयति चैत्रमन्नं पय उपयोजयते चैत्रेणेति । युजेरनाहारार्थत्वान्न भवति । 'न पीयतां नाम चकोरजिह्वया कथञ्चिदेतन्मुखचन्द्रचन्द्रिका । इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी ॥ १ ॥' इति नैषधीये । अत्राहारार्थत्वादा-१५ चामयसे इत्यात्मनेपदं कथम् ? प्रामादिक एवायं प्रयोगः । इङ् सूत्रमध्यापयति शिष्यम् । बुध अवगमने भ्वादिः परस्मैपदी बुधृग बोधने इति भ्वादिरुभयपदी बुधिंच ज्ञाने इति दिवादिरात्मनेपदीत्येषां त्रयाणामपि ग्रहणमन्यथा धातुभेदेन बोधयति बोधयते इति रूपद्वयसिद्धौ नित्यं परस्मैपदविधानार्थमत्र बुधग्रहणमनर्थकं स्यात् , त्रयाणामप्यत्र ग्रहणाञ्च बोधयति पद्मं रविः बोधयति शिष्यं धर्ममित्येव स्यान्न तु बोधयते इति । युध योधयति काष्ठानि । प्रावयति राज्यं प्रापयतीत्यर्थः । द्रु २० द्रावयत्ययः विलालयतीत्यर्थः । सु सावयति तैलं स्यन्दयतीत्यर्थः । नश नाशयति पापम् । जन जनयति पुण्यम् । प्रीतिं भक्तजनस्य यो जनयते इति भास्कराचार्यकृतगणितलीलावत्याः प्रथमपद्ये । अधनसम्पदादयः पदार्थाः प्रीतिं जनयन्ति तान् प्रयुङ्क्ते इति णिगन्ताण्णिगि रूपम् । एवं 'तदपि नाशयसे शरीरम्' इति- सिद्धसेनाचार्यकृतकल्याणमन्दिरस्तोत्रे तत्रापि भव्याः शरीरं तापोऽनशनादिभिर्नाशयन्ति तान् सदुपदेशादिना प्रयुङ्क्ते इति णिगन्ताणिगि फलवत्कर्तृविव-२५ क्षयात्मनेपदे रूपम् । युनुसूणामचलनार्थाथ शेषाणां सकर्मकार्थ प्राणिकर्तृकार्थ च वचनम् ॥ १५६ ।।
* इत्येवं स्वाभाविकाः कृत्रिमाश्चात्मनेपदिनो धातवो निरूपिताः
अथ भ्वादय उभयपदिनः। 'हुँपची पाके' पच् धातुः । शेषा इतः ।
अथोभयपदिनो वर्णक्रमेण निरूपणीयास्तेषु हवेकारान्तः श्रिग् सेवायामिति दीर्घकारान्तो णींक ३० प्रापणे इति । एतौ च पुरस्ताद्वक्ष्यन्ते । उक्तशेषस्वरान्ता अप्रसिद्धाः । अथ व्यञ्जनक्रमेण ते निरुच्यन्ते तत्र कान्त एकः 'हिक्की अव्यक्ते शब्दे' ईदित्वात्फलवत्कर्तरि 'ईगित' इत्यात्मनेपदम् । अफलवति तु 'शेषात्परस्मै' इति परस्मैपदम् । हिनते हिकति जिहिक हिबिता क्ते हिक्कितं 'क्तेट०'३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org