________________
६०२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
किम् ? पदं साधु कारयति । कृग इति किम् ? पदं मिथ्या वाचयति । अभ्यास इति किम् ? सकृत्पदं मिथ्या कारयति । 'परिमुहायमायसपावेववसदमादरुचन्नृतः फलवति' ( ३ । ३ । ९४ ) फलवतीति भूम्यतिशायने वा मतुः तेन यत् क्रियायाः प्रधानं फलमोदनादि यदर्थमियमारभ्यते तद्वति कर्त्तरि विवक्षिते परिपूर्वान्मुहेराङ्पूर्वाभ्यां यमियसिभ्यां पिबति दूवे वद वस दम अद रुच ५ नृतिभ्यश्च णिगन्तेभ्यः कर्त्तर्यात्मनेपदं स्यात् । परिपूर्वः 'मुहौच् वैचित्त्ये' परिमोहयते चैत्रम् । आङ्पूर्वः 'यमू उपरमे' आयमयते सर्पम् । 'यमोऽपरिवेषणे णिचि च' ( ४।२।२९) इति ह्रस्वः । कश्चिद्यमः परिवेषणे इति पठति तन्मते हखो न स्यात् स्वमते तु स्यादेव । आङ्पूर्व 'यसूच् प्रयत्ने' आयासयते मैत्रम् | 'पां पाने' पाययते बटुम् । 'ट्वें पाने' धापयते शिशुम् । 'वद व्यक्तायां वाचि'
1
वादयते शिशुम् । 'वसं निवासे' वासयते पान्थम् । 'शमू दमूच् उपशमे' दमयते अश्वम् 'अमो१० ऽकम्यमिचमः' ( ४।२।२६ ) इति ह्रस्वः । 'अदं सांक् भक्षणे' आदयते चैत्रेण । अदेर्नेच्छन्त्यन्ये आदयति चैत्रेण | 'रुचि अभिप्रीत्यां च ' रोचयते मैत्रम् | 'नृतैच् नर्त्तने' नर्तयते नटम् । पिबन्त्यत्तिट्वेधातूनामाहारार्थत्वा दौदासीन्यनिवृत्त्यर्थतायामकर्मकत्वाच्च नृतेश्चलनार्थत्वाच्च शेषाणां स्वरूपतो विवक्षा तो वाऽकर्मकत्वाच्च अणि प्राणिकर्तृकानाप्यादिति चल्याहारर्थेति सूत्राभ्यां परस्मैपदे प्राप्ते वचनम् । पा इति दूवे साहचर्यात्पिबतेर्ग्रहणं न पातेः । वदसाहचर्याच्च वस इति वसतेर्न वस्तेर्ग्रहणम् । पाति १५ चैत्रो नोदास्ते पालयति चैत्रम् । वस्ते मैत्रो न नग्नो वासयति मैत्रमित्येव भवति । 'पदान्तरगम्ये वा' ( ३।३।९९ ) परिमुहायमायसे ति ( ३ । ३ । ९४ ) १ 'ईगित : ' ( ३।३।९५ ) इति २ 'ज्ञोऽनुपसर्गात्' ( ३।३।९६ ) इति ३ ' वदोऽपात्' ( ३।३।९७ ) इति ४ ‘समुदाङो यमेरग्रन्थे' ( ३।३।९८ ) इति ५ सूत्रपञ्चके यदात्मनेपदमुक्तं तत्पदान्तरगम्ये फलवति कर्त्तरि वा स्यात् । स्वं शत्रुं परिमोहयते परिमोहयति वा । स्वं यज्ञं यजते यजति वा । स्वं कटं कुरुते करोति वा । स्वमवं २० गमयते गमयति वा । स्वं शिरः कण्डूयते कण्डूयति वा । स्वां गां जानीते जानाति वा । स्वं शत्रुमपवदते अपवदति वा । स्वान् व्रीहीन् संयच्छते संयच्छति वा ।
1
अथ प्रसङ्गतः परस्मैपदनियमोऽप्यत्रैव निरूप्यते 'शेषात्परस्मै' ( ३।३।१००) पूर्वप्रकरणेन आत्मनेपदनियमः कृतः, परस्मैपदं त्वनियतमिति तन्नियमार्थमिदम् । उपयुक्तादन्यः शेषः । येभ्यो धातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततोऽन्यस्मादेव धातोः परस्मैपदं स्यात् । अनुबन्धोपसर्गार्थोपप२५ दप्रत्ययभेदाच्चानेकधा शेषः । अनुबन्धशेषात् भवति अत्ति बोभवीति दीव्यति गोपायति पणायत पुत्रीयति पुत्रकाम्यति अश्वति मन्तूयति । उपसर्गशेषात् प्रविशति अधितिष्ठति आगच्छति विपश्यति । अर्थशेषात् करोति नयति वदति । उपपदशेषात् गृहे ' सचरति, साधुभ्यः सम्प्रयच्छति, साधुपदं कारयति । प्रत्ययशेषात् शत्स्यति मुमूर्षति । 'परानोः कृगः' ( ३।३।१०१ ) इत्यादिवत् उपसर्गयोगे धातूनां परस्मैपदनियमस्तु यथास्थानमुक्तो वक्ष्यते च । 'अणिगि प्राणिकर्तृ३० कानाप्याणिगः' ( ३ | ३ | १०७ ) अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्माण्णिगन्ताकर्त्तरि परस्मैपदं भवति । आस्ते चैत्रः आसयति चैत्रम् । शेते मैत्रः शाययति मैत्रम् । अणिगीति स्वयमारोहयमाणं हस्तिनं प्रयुङ्क्ते आरोहयते हस्तिना हस्तिपकः अत्र चावस्थापञ्चकं प्राग्वत् ज्ञेयम् । ननु द्वितीयस्यामवस्थायामारुह्यते स्वयमेवेत्यस्यामणिगन्तायां धातुः प्राणिकर्तृको नाप्यश्चास्ति तत्कथमस्य णिगि परस्मैपदं न भवति । सत्यं । तदपेक्षयाऽन्तर्भूततृतीयायां चतुर्थ्यां परस्मैपदमुत्पन्नमेव, ३५ आरोहयन्ति हस्तिनं हस्तिपका इति । प्रस्तुते त्वारोहयते स्वयमेवेत्यस्याः पञ्चम्या अनन्तरं स्वयमेवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org