________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे आत्मनेपदविधिः
६०१ वावस्था न षट् । नन्वारोहयते हस्ती स्वयमेवेत्यस्यां पञ्चम्यामेवावस्थायां प्रयोजकव्यापारेऽविवक्षिते निमित्ताभाव इति न्यायाण्णिगोप्यभावः प्राप्नोति । नैवम् । 'णिस्नुभयात्मने.' (३।४।९२) इति सूत्रे ण्यतानामेव कर्मकर्तरि भिक्ययोनिषेधात् । लावयते केदार इत्यादाविवेति; लुनाति केदारं चैत्र इत्यत्र द्विधाभवनमुपसर्जनं द्विधाभावनं मुख्यमिति प्रथमावस्था, ततो लूयते केदारः स्वयमेवेत्यत्र द्विधाभावनमुपसर्जनं द्विधाभवनं मुख्यमिति द्वितीया, ततः स्वयं लूयमानं केदारं चैत्रः प्रयुङ्क्ते इत्यत्र स्वयं५ द्विधाभवनं गौणं द्विधाभावनं मुख्यमित्यवस्थाद्वयं तृतीया चतुर्थी च । लावयति केदारं चैत्र इति पुनरप्यस्य कर्तृत्वे लावयते केदार इति पञ्चमी, अत्र यथा कर्मस्थक्रियत्वं तथा आरोहयते हस्ती खयमेवेत्यत्रापि । 'प्रलम्भे गृधिवश्वेः' (३।३।८९) गृधि-वश्चिभ्यां णिगन्ताभ्यां प्रलम्भे वञ्चने वर्तमानाभ्यां कर्तर्यात्मनेपदं स्यात् 'गृधूच अभिकाङ्क्षायाम्' बटुं गर्द्धयते । 'वश्चिण प्रलम्भने' बटुं वञ्चयते प्रतारयतीत्यर्थः । वञ्चिणो णिजि सिद्धमात्मनेपदमात्मनेपदित्वाण्णिगन्ते तु विध्यर्थं वचनम् ।१० चौरादिकादेव णिचि णिगन्तादात्मनेपदमित्येके । णिगन्त एव चायं प्रतारणे वर्त्तते स्वभावात् । प्रलम्भ इति किम् ? श्वान गर्द्धयति प्रलोभयतीत्यर्थः । अत्र फलवत्त्वेऽपि नात्मनेपदम् । अणिगि प्राणीति निषेधात् । अहिं वश्चयति गमयतीत्यर्थः । अकर्मकत्वेऽणिगि प्राणीति निषेधः [सकर्मकत्वे तु फलवत्यात्मनेपदं भवत्येव । णिग आत्मनेपदविधानं सर्वत्राफलवदर्थम् । लीलिनोऽर्चाभिभवे चाचाकर्तर्यपि (३।३।९०) लीयतिलिनातिभ्यां णिगन्ताभ्यामर्चाभिभवयोः प्रलम्भे चार्थे वर्तमा-१५ नाभ्यां कर्तर्यात्मनेपदं भवति अनयोश्चान्तस्याकर्तर्यप्याकारो भवति । जटाभिरालापयते, परैरात्मानं पूजयतीत्यर्थः । श्येनो वर्तिकामपलापयते अभिभवतीत्यर्थः] कस्त्वामुल्लापयते वञ्चयते इत्यर्थः, अत्रार्चा मुख्य एव धात्वर्थः । अत एवोदाहरणे पर्यायो णिगन्तः कथितः ( यथा पूजयति अर्चयतीत्यर्थः)। अभिभवप्रलम्भौ तु णिगन्त एव धातौ वर्तेते अतोऽणिगन्तौ पर्यायावूचाते । यदि तु मुख्यौ स्यातां धातोस्तदा प्रयोजकव्यापारेण व्यापार्येयातामिति । एष्विति किम् ? बालमुल्लापयति उत्क्षिपतीत्यर्थः ।२० कथं तत्रात्वम् ? अत्रोच्यते 'लीलिनोवा (४।२।९) लीयतेर्लिनातेश्च यपि खलचल्वर्जितेऽक्विति प्रत्यये च विषयभूते आकारोऽन्तादेशो भवति । अनेन सूत्रेण भवति । अकर्यपीति किम् ? जटाभिरालाप्यते जटिलेन । ङित् भानिर्देशो यौजादिकनिवृत्त्यर्थः । 'विभेतेीष् च' ( ३।३। ९२) प्रयोक्तु सकाशात्स्वार्थे वर्तमानाण्ण्यन्ताद्विभेतेः कर्त्तर्यात्मनेपदं स्यात् , अस्य च भीषादेशः। पक्षेऽन्तस्याकारश्चाकर्त्तर्यपि । मुण्डो भीषयते मुण्डो भापयते । प्रयोक्तः स्वार्थे इत्येव कुश्चिकया भाप-२५ यति । अकर्त्तर्यपीयेव-भीषा भापनम् । तिन्निर्देशाद्यङ्लुपि न भवति । मुण्डो बेभाययति । 'मिथ्याकृगोऽभ्यासे (३।३।९३) मिथ्याशब्दयुक्तो यः कृग् तस्माण्णिगन्तादभ्यासेऽर्थे वर्तमानात् कर्त्तर्यात्मनेपदं स्यात् । अभ्यासः पुनः पुनः क्रियाभ्यावृत्तिः । पदं मिथ्याकारयते स्वरादिदोषदुष्टमसकृदुच्चारयति पाठयतीत्यर्थः । मिथ्येति पदसमानाधिकरणं विशेषणम् , मिथ्याभूतं पदं करोति (उच्चरति ) । आत्मनेपदेनैव क्रियाभ्यावृत्तेोतितत्वादाभीक्ष्ण्ये द्विर्वचनं न भवतीति केचित् । स्वमते ३० तु भवत्येव शब्दशक्तिस्वाभाव्यात् । केवलेनात्मनेपदेनाभ्यासो वक्तुं न शक्यते । यथा भोज २ ब्रजतीत्यादावामीक्ष्ण्ये आगतोऽपि ख्णम् द्विर्वचनमाकाङ्क्षति (इति) पदं मिथ्याकारयते २ इति प्रयोगो ज्ञेयः। वृत्तौ त्वेकदेशेनोदाहारि । केचिदिति न्यासकारादयः, तदपरे न मृष्यन्ति, यत एवमभ्युपगम्यमानेऽभ्यासे द्योतकस्यात्मनेपदस्याभावे पदं साधु कारयतीत्यादि प्रत्युदाहरणेषु कस्मान्न भवति, न चाभ्यासो नास्तीति वाच्यं, व्यङ्गवैकल्यप्रसङ्गात्तस्माद्यदेकदेशेनेत्याधुक्तम् स एव पक्षो न्याय्यः । मिथ्येति ३५
__है. प्रका• उत्त. ७६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org