________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुस्मारयत्येनं वनगुल्मः । ननु लूयते केदार इत्यादाविव आरोहयते हस्ती हस्तिपकानित्यादावपि यदेव पूर्व कर्म तदेव कर्तेति एकधातावित्यनेन कर्मकर्त्तर्येवात्मनेपदं भविष्यति किमनेन । सत्यम् । अकर्मकक्रियत्वाभावान्न । अत्र कर्मणः प्रयोजकव्यापारात्कर्तृत्वम् । एकधातावित्यत्र तु सौकर्यादित्यनयोर्भेदः । ननु यदि अणिकर्मणो णिकर्तृकतायां णिगन्तादात्मनेपदमिष्यते तर्हि शुष्यन्त्यातपे ५व्रीहयः शोषयते ब्रीहीनातप इत्यादावधिकरणादेः कर्तृतायामात्मनेपदं न प्राप्नोति । न फलवत्कर्त्तरि
भविष्यति; कृषीवलादिकृतप्रशंसादिना चातपस्य फलवत्कर्तृत्वम् । यद्येवमारोहयते हस्ती हस्तिपकानित्यादावपि तथास्तु । सत्यं किन्तु फलवतः कर्मस्थक्रियाच्चान्यत्रायं विधिः । तथाहि लावयते केदारः भूषयते कन्या कारयते कटः गणयते गणः आरोहयते हस्ती स्वयमेवेत्यादौ कर्मस्थक्रियत्वात् 'एकधातौ फर्मक्रियैकाकर्मक्रिये' (३।४।८६) इत्यनेनैवात्मनेपदम् । नत्वनेनाप्राप्तेस्तथाहि लुनाति केदारं चैत्रः स १० एवं विवक्षति नाहं केदारं लुनामि केदारः स्वयमेव लूयते । तं स्वयमेव लूयमानं चैत्रः प्रयुते लाव
यति केदारं चैत्रः । स एवं विवक्षति नाहं लावयामि अपि तु लावयते केदारः स्वयमेवेत्यनया प्रक्रिययाऽनेन न प्राप्नोति, अणिकर्मणोऽणिग्येव कर्तृतायाः सद्भावात् । एवं भूषयते इत्यादिष्वपि एतद्वृत्त्यभि. प्रायेणोक्तम् । यदा तु लुनाति केदारं चैत्रस्तं लुनन्तं मैत्रः प्रयुङ्क्ते लावयति केदारं चैत्रेण मैत्रः । स एवं विवक्षति नाहं लावयामि चैत्रेण, लावयते केदारः स्वयमेवेति प्रक्रिया क्रियते तदानेनापि प्राप्नोति, १५अणिकर्मणने णिकर्तृतायाः सद्भावात् परं तदापि परत्वादेकधातावित्यनेनैव भवति । कारयते कट इति करोति कटं चैत्रः निष्पद्यमानं निष्पादयति इत्याद्यावस्था । स एवं विवक्षति नाहं कटं करोमि कटः स्वयमेव क्रियते निष्पद्यते इत्यर्थः । अत्र निष्पदनं मुख्यं निष्पादनं गौणमिति द्वितीया ततः स्वयं क्रियमाणं कटं चैत्रः प्रयुक्ते कारयति कटं चैत्रः । अन निष्पदनं गौणं निष्पादनं मुख्यमिति तृतीया
चतुर्थी चावस्था, ततः पुनरस्य कर्तृत्वे निष्पदनं मुख्यं निष्पादनं गौणमिति पञ्चमी, कारयते कटः २० स्वयमेवेति । नन्वारोहयते हस्ती स्वयमेवेत्यास्यास्कन्दयते किलार्थस्तत्कथं कर्मस्थक्रियता रहेर्यदेक
धातावित्यात्मनेपदं स्यात् । अयं भावः ‘गत्यर्थानां कर्तृनिष्ठव्यापारत्वेन कर्मस्थक्रियत्वासम्भव इति पारायणम् यतो गम्यते ग्रामः स्वयमेवेति न भवति । कर्तृसमवेतत्वाद्गमनक्रिया( याः, आस्कन्दनक्रिया ) हि हस्तिपककर्तृसमवेता न हस्तिपककर्मयुक्तेति । कथं कर्मस्थक्रियता रुहेरिति पूर्वपक्षाभिप्रायः । अत्रोच्यते यदा न्यग्भवनार्थोऽयं तदा कर्मस्थक्रियत्वम् । तथाहि आरोहन्ति हस्तिनं हस्तिपका २५ इति न्यग्भवनोपसर्जने न्यग्भावने रुहिर्वर्त्तते । स द्वितीयस्यामवस्थायामारुह्यते हस्ती स्वयमेवेत्यस्यां कर्मकर्तृविषयो न्यग्भवनमात्रवृत्तिर्भवति । अथ चतुर्थ्यामन्तर्भूतन्यग्भवनरूपतृतीयायामारुह्यमाणं प्रयुञ्जत इति हस्तिपकव्यापारप्रधानायां णिगन्तः सन्नारोहयति हस्तिनं हस्तिपका इत्यस्यां शुद्धारोहतिवन्यग्भवनोपसर्जने न्यग्भावने वर्तते । पुनर्यदा अस्यैव प्रयोजकव्यापाराविवक्षा तदा आरोहयते हस्ती स्वयमेवेत्यस्यां पञ्चम्यामवस्थायामारुह्यते हस्ती स्वयमेवेति वन्न्यग्भवनलक्षणस्य विशेषस्य हस्ति३० समबेतत्वेनोपलम्भाल्लावयते केदार इत्यादाविव कर्मस्थक्रियत्वमस्त्येवेति न किश्चिदनुपपन्नम् । तदुक्तम् 'न्यग्भावना न्यग्भवनं रुही शुद्धे प्रतीयते । न्यग्भावना न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते' ॥ १॥ 'अवस्थां पञ्चमीमाहुर्ण्यन्ते तां कर्मकर्तरि । निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते ॥ २ ॥ इति तामिति यत्तदोर्नित्याभिसम्बन्धात् यस्यां किमित्याह कर्मकर्तरि विवक्षिते निवृत्तप्रेषणा निवृत्तप्रयोजकव्यापाराद्धातोः प्राकृतेऽर्थे न्यग्भवनरूपे णिजुच्यते । णिजिति मतान्तरेण स्वमते तु णिगेव । आदा३५वण्यन्तस्य न्यग्भवनं गौणत्वान्न विवक्ष्यते । ण्यन्तस्य तु गौणमपि पार्थक्येन विवक्ष्यते इति पञ्चै.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org