________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे आत्मनेपदे विधिविशेषः
५९९ भ्रादित्वादप्रत्यये हृष्ट इति, अन्यथा इट् स्यादेवेति । अथ प्रकृतं अपस्किरते कुकुटो भक्ष्यार्थी विलिख्यावस्कर विक्षिपतीत्यर्थः । अपस्किरते श्वा आश्रयार्थी विलिख्य भस्म विक्षिपतीत्यर्थः । अपादिति किम् ? विकिरति वृषभो हृष्टः । एष्विति किम् ? अपस्किरति धूलिं बालो हृष्टः । हृष्टादिष्विति किम् ? अपकिरति हस्ती रजश्चापलेन । प्रसङ्गतोऽस्य धातोरर्थान्तरोपसर्गान्तरोपयोगे स्सडागमो दय॑ते । स्सडिति उपादिति चानुवर्त्य 'किरो लवने (४।४।९३) उपात्परस्य किरतेः स्सडादि-५ र्भवति लवने लवनविषयश्चेत्तदर्थों भवति । उपस्कीर्य मद्रका लुनन्ति, उपस्कारं मद्रका लुनन्ति 'उपात् किरो लवने (५।४।७२) इति णम् , लवन इति किम् ? उपकिरति पुष्पम् । 'प्रतेश्च वधे' (४।४।९४) प्रतेरुपाच्च परस्य किरतेर्वधे हिंसायां विषयेऽभिधेये वा स्सडादिर्भवति । प्रतिस्कीर्ण ह ते वृषल भूयात् , उपस्कीणं ह ते वृषल भूयात् । हिंसानुबन्धी विक्षेपस्ते भूयादित्यर्थः। ह इति खेदे खल्बर्थे च अभिधेये । 'उरोविदारं प्रतिचस्किरे नखैः' हत इत्यर्थः । वध इति किम् ? प्रति-१० कीर्ण उपकीणं बीजम् , विक्षिप्तमित्यर्थः।
आत्मनेपद एव विशेषमाह । 'अणिकर्म णिकर्तृकाण्णिगोऽस्मृतौ' (३।३।८८) प्रयोक्तृव्यापारे णिगिति वक्ष्यते । अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य सोऽणिकर्मणि कर्तृकस्तस्माण्णिगन्ताद्धातोरस्मृतौ वर्तमानात्कर्तर्यात्मनेपदं स्यात् । आरोहन्ति हस्तिनं हस्तिपकास्ताननुकूलाचरणेन पादार्पणशिरोऽधूननादिना हस्ती प्रयुङ्क्ते इति ‘आरोहयते १५ हस्ती हस्तिपकान् आस्कन्दयते इत्यर्थः । हस्तिन उपर्यागच्छन्ति तानुपर्यागमयतीत्यर्थः अत्राप्येतेनात्मनेपदम् । पश्यन्ति राजानं भृत्याः दर्शयते राजा भृत्यान् भृत्यैरिति वा । 'दृश्यभिवदोरात्मने' ( २।२।९) इति अणिकर्तुर्णौ वा कर्मत्वम् । पिबन्ति मधु पायकाः पाययते मधु पायकान् । 'चल्याहारार्थ.' ( ३।३।१०८) इति परस्मैपदे प्राप्ते 'परिमुह०' ( ३।३।९४) इत्यनेन फलवत्यात्मनेपदम् । अनेनाफलवत्यपि । अणिगिति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः आरोहयति हस्तिपकान २० महामात्रः आरोहयन्ति महामात्रेण हस्तिपकाः । प्रथमणिगन्तकर्मणि द्वितीयणिगन्तकर्तर्यपि माभूत् । गित्करणं किम् ? गणयति गणं गोपालकः गणयते गणो गोपालकमिति णिजन्तकर्मणि कर्तृकादपि णिगन्तात्प्रतिषेधो माभूत् । णिज्कर्माप्यणिकर्मैव णिणिजोर्भेदात् । कर्मेति किम् ? करणादिकर्तृत्वे माभूत् । पश्यन्ति भृत्याः प्रदीपेन दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? यस्याणिगन्तस्यैव कर्म कर्ता भवति ततो ण्यन्तान्माभूत् । लुनाति केदारं चैत्रः लूयते केदारः स्वयमेव तं प्रयुङ्क्ते लाव-२५ यति केदारं चैत्रः । कर्तृप्रहणं किम् ? आरोहन्ति हस्तिनं हस्तिपकास्तानेनमारोहयति महामात्रः । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकास्तानारोहयते हस्तीत्यणिगवस्थायां माभूत् , अत्रारोहयते हस्तीत्यर्थे विवक्षिते आरोहन्तीत्यत्राणिगवस्थायामात्मनेपदं प्राप्तं णिग इति व्यावृत्त्या निषिध्यते । प्रत्यासत्तेश्च यस्यैव धातोरणिगवस्था तस्यैव धातोर्णिगवस्था गृह्यते न धात्वन्तरस्य तेनेह न भवति आरुह्यमाणो हस्ती सेचयति पृष्ठं मूत्रेण; सिञ्चति मूत्रं कर्तृ पृष्ठं कर्मतापन्नं तत् सिश्चत् हस्ती प्रयुङ्क्ते ३० इति । हस्तिपकैरारुह्यमाणो हस्ती स्थलमारोहयति मनुष्यानित्यत्र तु सदृशधातुप्रयोगेऽपि पूर्वो हस्तिपक. कर्तृको रहिः परश्च मनुष्यकर्तृक इति भेदान भवति । ननु यथा ग्लानाय मुद्राः प्रत्यहं दीयमानाः सादृश्यात्त एव मुद्गा दीयन्ते इति व्यवह्रियते, तथात्रापि कर्तृभेदभिन्नोपि रुहिः सादृश्यादेक एवेति, रुहेरणिक्कर्मणि कर्तृकत्वाद्भवत्वात्मनेपदमित्यत्रोच्यते साधनभेदाक्रियाभेदे धातुभेद इति न भवति, उपचारस्य च वस्तुनिरूपणेऽकिञ्चित्करत्वात् । अस्मृताविति किम् ? स्मरति वनगुल्मं कोकिल:३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org