________________
५९८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
'परा०' जेरित्यस्य धात्वनुकरणस्य प्रकृतिवदनुकरणमिति न्यायाद्धातुकार्यमियादेशः परिव्यवाक्रियः' ( ३।३।२७) इत्यादिवत्प्राप्तोऽपि बाहुलकान भवति । आभ्यामिति उपसर्गाभ्यामित्यर्थः । उपसर्गाभ्यामित्येव सेना पराजयति । बहु विजयति वनम् । अद्यतन्यां व्यजेष्टेति सिचो लुकः परत्वेऽपि नित्यत्वात्प्रागेव गुणः। ५ अस्योपलक्षणत्वात् 'निविशः' (३।३।२४) निपूर्वाद्विशः कर्त्तर्यात्मनेपदं स्यात् । निविशते न्यविशतेत्यटो धात्ववयवत्वान्न व्यवधायकत्वम् । मधुनि विशंति भ्रमरा इत्यादौ तु निविशोरसम्वन्धादनर्थकत्वाञ्च न भवति । 'उपसर्गादस्योहो वा' (३।३।२५) उपसर्गात्पराभ्यामस्यत्यूहिभ्यां कर्त्तर्यात्मनेपदं वा स्यात् । विपर्यस्यति विपर्यस्यते समूहति समूहते । अस्येति श्यनिर्देशोऽस्त्य
सति निवृत्त्यर्थः । उपसर्गादिति किम् ? अस्यति । ऊहते अस्यतेरप्राप्ते उहतेश्च नित्यं प्राप्ते उभयत्र १० विभाषेयम् । अन्ये त्वकर्मकाभ्यामेवेच्छन्ति प्रत्युदाहरन्ति च । निरस्यति शत्रून, समूहति पदार्थान् , नात्र विकल्पः । 'उत्खराधुजेरयज्ञतत्पात्रे' (३।३।२६) उदः स्वरान्ताच्चोपसर्गात्परायुनक्तेः कतर्यात्मनेपदं स्यात् । न चेद्यज्ञे यत्तत्पात्रं तद्विषयो युज्यों भवति । उद्युझे उपयुक्ते नियुते । उत्स्वरादिति किम् ? संयुनक्ति । अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञे तत्पात्राणि प्रयुनक्ति । यत्र तु
यज्ञ एव न तत्पात्रम् , तत्पात्रमेव वा न यज्ञस्तत्र भवत्येव । यज्ञे मत्रं रन्धनपात्राणि वा प्रयुक्ते । १५ यज्ञपात्राणि रन्धने प्राप्ते प्रयुते । इदित्त्वात्फलवति सिद्धेऽफलवदर्थमिदम् । 'युजिच समाधावि'त्यस्येदि. त्त्वादात्मनेपदविधानमनर्थकम् । 'परिव्यवाक्रियः' (३।३।२७) एभ्यः परात्क्रीणातेः कर्त्तर्यात्मनेपदं स्यात् । परिक्रीणीते विक्रीणीते अवक्रीणीते । सर्वत्रेगितः फलवतोऽन्यत्र विधिः, फलवति कर्तरि तु सिद्धमेव । उपसर्गादित्येव उपरिक्रीणाति, गवि क्रीणाति, वनं बहुविक्रीणाति, अपचाव
क्रीणीवः । क्री इत्यनुकरणमनुकार्येणार्थेनार्थवदिति नामत्वे सति ततः स्यादयः । प्रकृतिवदनुकरण२० मिति न्यायाञ्च धातुकार्यमियादेशः वत्करणाच सर्वथा धातुत्वाभावान्न त्यादयः । “समः क्षणोः'
( ३।३।२९) समः परात् क्ष्णोतेः कर्त्तर्यात्मनेपदं स्यात् । 'क्ष्णुक् तेजने' संक्ष्णुते शस्त्रम् । सम इति किम् ? विक्ष्णौति । उपसर्गादित्येव आयसं क्ष्णौति । सकर्मकत्वात् 'समो गमृच्छि०' ( ३।३।८४ ) इत्यत्र क्ष्णोरग्रहणं तत्र कर्मण्यसतीत्यनुवृत्तेः । 'अपस्किरः' ( ३।३।३० ) अपपूर्वात्किरतेः सस्सट्कात् कतर्यात्मनेपदं स्यात् । अपस्किरते वृषभो हृष्टः । अपस्किरते कुक्कुटो भक्ष्यार्थी । अपस्किरते श्वा २५आश्रयार्थी । सस्सटकनिर्देशादिह न भवति अपकिरति वृषभः । अपेति किम् ? उपस्किरति । स्सट्सूत्रं त्वेवम् । 'अपाच्चतुष्पात्पक्षिशुनि हृष्टान्नाश्रयार्थे (४।४।९५) अपात्परस्य किरतेश्चतुष्पदे पक्षिणि शुनि च कर्तरि यथासङ्ख्यं हृष्टेऽन्नार्थिनि आश्रयार्थिनि सति स्सडादिर्भवति । अपस्किरते वृषभो हृष्टः हर्षाद्विलिख्य तटं विक्षिपतीत्यर्थः । हृष्ट इति 'हृषेः केशलोमविस्मयप्रतीघाते' (४।४।७६ ) केशलोमकर्तृका क्रिया केशलोमशब्देनोच्यते । हृषेः (केशादिष्वर्थेषु वर्तमानात्परयोः ३०क्तयोरिड्वा भवति । हृष्टा हृषिताः केशाः, हृष्टं हृषितं केशैः) हृष्टानि हृषितानि लोमानि । हृष्टं हृषितं
लोमभिः । हृष्टः हृषितश्चैत्रः विस्मित इत्यर्थः । हृष्टाः हृषिता दन्ताः प्रतिहता इत्यर्थः । केशादिष्विति किम् ? हृष्टो मैत्र इत्यलीकार्थस्य, हृषितश्च चैत्र इति तुष्ट्यर्थस्य ॥ एवं च वृषभो हृष्ट इति विस्मयविवक्षायां 'तुषं हृष्च् तुष्टौ' इत्यस्य रूपम् । अथवा धातूनामनेकार्थत्वात् 'हृषू अलीके' इत्येषोऽपि
हर्षे अथवा तुषं हृषच तुष्टौ इत्येनमूदितं मन्यते विश्वनन्दी तत 'ऊदितो वा' (४।४।४२) इति ३५क्त्वायां वेट्त्वात् 'वेटोऽपतेः' (४।४।६२) इति क्तयोरिद-निषेधे रूपम् । अथवा हृष्टिरस्यास्तीत्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org