________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे आत्मनेपदविधिः
५९७
तल्लवनेनोपसंगृह्णन्तीत्यर्थः । अयमर्थः । व्यतिहृतं धान्यं लुनन्तीति लवनेनोपसङ्गृह्णन्तीति द्रव्यमत्र व्यतिह्रियते न लवनक्रिया । नात्र व्यतिना लुनातिर्युक्तोऽपि त्वप्रयुक्तोऽपि गृह्णातिः, तस्य धान्यं कर्म न क्रियेति । परस्परस्य व्यतिलुनन्तीति क्रियाव्यतिहारो व्यतिनैव द्योतित इत्यन्योन्यादिभिस्तत्कर्माभिसम्बध्यते । अन्योन्यस्य केदारमिति लौकिके शब्दव्यवहारे लाघवानादरादन्योन्यादिशब्दा उपसर्गाश्च क्रियाव्यतिहारद्योतनाय प्रयुज्यन्ते इत्यन्योन्यार्थवर्जनं सार्थकमन्यथा पौनरौक्तयेनैव ५ परास्तत्वात्तद्वर्जनमनर्थकं स्यादिति । कर्त्तरीत्येव तेन भावकर्मणोः 'तत्साप्यानाप्यात् ० ' ( ३।३।२१ ) इत्यनेनैव स्यादनेन मा भूत् । यदि ह्यनेन स्यात्तदा व्यतिगम्यन्ते ग्रामा व्यतिहन्यन्ते दस्यव इत्यत्रा - गतिहिंसाशब्दार्थहस इति प्रतिषेधः स्यादिति ॥ १५३ ॥
पुनरप्युपसर्गार्थविशेषाद्धातुविशेषाणामात्मनेपदमाह 'नाथ' इत्यादि अयं धातुः उपतापे ऐश्वर्ये आशिषि, चकारात् याचने वर्त्तते । तत्र उपताप उपघातः । अत्र याचोपतापौ क्रियात्वादर्थों, ऐश्र- १० र्याशिषौ तु धर्ममात्रत्वात् द्योये । यद्वा गण्डति श्वेतते प्रासादः । घण्टा ध्वनति संयुज्यते अस्ति समवैतीति द्रव्यगुणसंयोगसत्तासमवायानामिव सिद्धानामपि आख्यातावाच्यत्वेन साध्यतया प्रतीते - रनयोरर्थत्वमस्तु । यदाह पूर्वापरीभूतं भावमाख्यातेनाचष्टे इति । अथास्यात्मनेपदार्थे सूत्रम्आशिषि नाथः ॥ १५४ ॥ [ सि० ३ | ३ | ३६ ]
आशीरर्थादेव नाथ आत्मनेपदं स्यात् ॥ १५४ ॥ 'आशि०' स्पष्टम् ॥ १५४ ॥ आत्मनेपदे सति सूत्रम्
नाथः ॥ १५५ ॥ [ सि० २२|१० ]
आत्मनेपदविषयस्य नाथो व्याप्यं कर्म वा स्यात् । सर्पिषो नाथते ४ । अनाथिष्टेत्यादि । अाशिष तु 'नाथन्ति के नाम न लोकनाथम् ॥ १५५ ॥
'नाथः ' सर्पिषो नाथते इति सर्पिर्मे भूयादित्याशास्ते अनेन कर्मणो वाऽकर्मकत्वे 'शेषे' ( २ |२| २० ८१ ) इति षष्ठी । अनाशिषि त्विति 'आशिषि नाथ:' इत्याशिष्येव चात्मनेपदनियमादर्थान्तरे परस्मैपदमेव । रिपुं नाथति, उपतपति । स्वामी नाथति, ईष्टे । नृपं नाथति, याचते । 'नाथन्ति के नाम न लोकनाथम् । एष्वात्मनेपदाभावान्नाथ इति कर्मणो वा कर्मत्वाभावे 'कर्मणि' (२।२।४०) इति द्वितीयैव । ‘एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । तत्पल्लीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थनादीनं त्वामनुनाथते कुचयुगं पत्रांशुकैर्मा पिधाः ' ।। १ ।। २५ अपपाठः । अनुनाथति स्तनयुगं पत्रांशुकैर्मापिधा इति त्वभियुक्ताः । येषां चानुपसर्गस्य नियम: तन्मते सोपसर्गस्यार्थान्तरेप्यात्मनेपदं विरुद्ध्यते । अणोपदेशश्चायम् । यदाह सर्वे नादयो गोपदेशाः नृति नर्द्दि नक्षि नाटि नाधृ नाथूवर्जमिति । तेन 'अदुरुपसर्गे 'ति णत्वाभावे प्रनाथते । अचि नाथः । 'इङित ० ' ( ५/२/४४ ) इत्यने नाथनः ॥ १५५ ॥
१५
परावेर्जेः ॥ १५६ ॥ [ सि० ३।३।२८ ]
३०
आभ्यां पराजयतेरात्मनेपदं स्यात् । पराजयते विजयते ४ । व्यजेष्ट ५ । विजिग्ये ६ | विजेषीष्ट ७ । विजेता ८ । विजेष्यते ९ । व्यजेष्यत १० ।। १५६ ।।
* इति भ्वादयः आत्मनेपदिनः । 934
१ 'कुम्भाभयाभ्यर्थनादीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः' इति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
३३
www.jainelibrary.org