________________
५९६
महामहोपाध्यायश्रीविनय विजयगणिविरचिते खोपज्ञहै मलघु
उद्वाह एवेच्छन्त्यन्ये । आहते इत्यादीति अत्र 'शिदवित्' ( ४।३।२० ) इति अविच्छितः कित्त्वम् । ततश्च घुडादौ किति 'यमिरमिनमि० ' ( ४ |२| ५५ ) इत्यादिना नलुक्, स्वरादौ किति च ' गमहन० ' ( ४।२।४४ ) इत्यादिनोपान्त्यलुक्, आहते आनाते आन्नते । आहसे आन्नाथे आहध्वे । आने वकारस्याधुत्वान्नलोपाभावे आहन्वहे आहन्महे ? आनीत आनीयातां २ । आहतां आन्नातां अन्नताम् । ५आहस्व आन्नाथां आहध्वम् । वित्त्वेनाकित्त्वादुपान्त्यलोपाभावे आहनै आहना है आनाम है ३ | आहत आन्नातां आन्नत । आहथाः आन्नाथां आहध्वम् । अनि आहन्वहि आहन्महि ४ । 'हनः सिच्' ( ४ | ३ | ३८ ) हने पर आत्मनेपदविषयः सिच् किद्वत्स्यादिति सिचः कित्त्वे नलोपे 'धुड्हस्वाद् ०' (४।३।७० ) इति सिच्लोपे आहत आहसातां आहसत । आहथा : आहसाथाम् लोपे 'सोधि वा' ( ४ | ३ |७२ ) इति सलोपे आहध्वम् । पक्षे 'तृतीयस्तृतीय० ( १।३।४९ ) इति १० सस्य दत्वे आहम् । आहसि आहस्वहि आहस्महि | अद्यतन्यां विषये हनो वध इत्ययमादेशो भवति । आत्मनेपदे त्वस्यां वा भवति । स्थानिवद्भावेनानुखारेत्त्वेऽपि अनेकस्वरत्वादिप्रतिषेधो न भवति नैकस्वरादनुस्वारेत इति वचनात् । तत इडागमे अत इत्यलोपे आवधिष्ट आवधिपातां आवधिषत । आवधिष्ठाः आवधिषायां आवधिध्वम् आवधिड्डम् । आवधिषि आवधिष्वहि
५ । आजन्ने ६ | आशिषि 'हनो वध आशिष्यऽनौ' ( ४।४।२१ ) इति बधादेशे आवधिषीष्ट १५ आवधिषीयाष्टां आवधिषीरन् ७ । आहन्ता ८ | 'हनृतः स्यस्य' ( ४|४|४९ ) इतीडागमे आहनिष्यते ९ । आहनिष्यत १० । अस्योपलक्षणत्वात् 'समुदाङो यमेरग्रन्थे' (३|३|९८ ) समुदाभ्यः पराद्यमेरग्रन्थविषये प्रयोगे फलवति कर्त्तर्यात्मनेपदं स्यात् । संयच्छते व्रीहीन् । उद्यच्छते भारम् । आयच्छते वस्त्रम् । समुदाङ इति किम् ? नियच्छति वाचम् । अग्रन्थ इति किम् ? वैद्यचिकित्सामुद्यच्छति - चिकित्साप्रन्थे उद्यमं करोतीत्यर्थः । [ हेतुत्वाद्रन्थोऽपि चिकित्सा चिकित्स्यते२० ऽनयेति चिकित्सा सा चासौ ग्रन्थश्च ] फलवतीत्येव संयच्छति उद्यच्छति आयच्छति परस्य वस्त्रम् । आङ्पूर्वादकर्मकात्स्वाङ्गकर्मकाञ्चाङो यमन इति सिद्धे अन्यकर्मकार्थं वचनम् ॥ १५२ ॥
अथार्थविशेषणसामान्यतः सर्वधातूनामात्मनेपदं निर्दिशति । सूत्रम् क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसो हृवहश्चानन्योऽन्यार्थे ॥ १५३ ॥ [ सि० ३।३।२३ ]
२५ अन्यचिकीर्षितायाः क्रियाया अन्येन हरणं करणं क्रियाव्यतिहारः । तदर्थाद्गतिहिंसाशब्दार्थहस्वद्धातोर्ह वहिभ्यां चात्मनेपदं स्यात् । व्यतिहरन्ते व्यतिवहन्ते भारम् । गत्यादिवर्जनं किम् । व्यतिसर्पन्ति व्यतिहिंसन्ति व्यतिजल्पन्ति व्यतिहसन्ति । परस्परान्योन्येतरेतरयोगे च न । परस्परस्य व्यतिलुनन्ति ॥ १५३ ॥ 'नाङ उपतापैश्वर्याशीषु च ' ॥
'क्रिया०' करणं हरणं च एकार्थमेव धातूनामनेकार्थत्वात् । ततोऽन्यचिकीर्षितायाः क्रियायाः ३० अन्येन हरणं करणं क्रियाव्यतिहार इति । अनन्योन्यार्थे इति न चेदन्योन्यार्थी अन्योन्येतरेतरपरस्परशब्दाः प्रयुज्यन्ते । यथा व्यतिलुनते व्यतिपुनते व्यतिहरन्ते भारम् । सम्प्रहरन्ते राजानः । संविवहन्ते वर्णैः [ अनेकार्थत्वाद्वत्यर्थोऽत्र वहिः ] इति । हृवहोर्गतिहिंसार्थत्वात् प्रतिषेवे प्राप्ते प्रतिप्रसवार्थमुपादानम् । व्यतिहार इति किम् ? लुनन्ति पुनन्ति । क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत् ३४ चैत्रस्य धान्यं व्यतिलुनन्ति । अत्र लुनातिरुपसङ्ग्रहात्मके लवने वर्त्तते । चैत्रेण यद्गृहीतं धान्यं पुरस्ता
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org