________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे आत्मनेपदविधिः
५९५ मनेकार्थत्वात्पालनेन महीमुपकृतवन्तौ मह्याश्रयं फलं स्वीकृतवन्तौ वेत्यर्थः । उभयपदिनमेनमन्ये मन्यन्ते । भुनजिति भनिर्देशो 'भुजोंत् कौटिल्ये' इत्यस्य निवृत्त्यर्थः । ओष्ठौ निर्भुजति । कुटिलयतीत्यर्थः ॥ १४९ ॥ 'तपं धूप सन्तापे' इति अत्र सूत्रम्
व्युदस्तपः॥ १५०॥ [सि० ३।३।८७] आभ्यां परात्तपेः कर्मण्यसति खेऽङ्गे वा कर्मणि सत्यात्मनेपदं स्यात् । वितपते उत्तपते ५ रविः । वितपते पाणिम् । व्यतपत ४ । व्यतप्त व्यतप्साताम् व्यतप्सत ५ । वितेपे वितेपिषे ६ । वितप्सीष्ट ७ । वितप्ता ८ । वितप्स्यते ९ । व्यतप्स्यत १० । अन्यत्र तु तपति तपः । अताप्सीत् अताप्ताम् अताप्सुः ५। तताप तेपिथ ततप्थेत्यादि १०॥१५०॥
'व्युद०' वितपते उत्तपते रविरिति दीप्यते इत्यर्थः । कर्मण्यसतीत्यस्येदमुदाहरणम् । स्वेऽङ्गे कर्मणीति वितपते उत्तपते पाणिम् तापयतीत्यर्थः । व्युद इति किम् ? निष्टपति । खेऽङ्गे चेत्येव वितपति १० पृथ्वीं सविता सन्तापयतीत्यर्थः । उत्तपति सुवर्णं स्वर्णकारः । द्रवीकरोतीत्यर्थः । उत्तपति पृष्ठं चैत्रस्य मैत्रः । अङ्ग इत्येव । स्वं स्वर्णमुत्तपति । इह दीप्यते ज्वलति भासते रोचते तत्र दीप्यते सामान्येन दीप्तौ भवति । ज्वलति ज्वालावान् भवति । भासते उद्भूतरूपो भवति । रोचते किरणवान् भवति । इत्येष्वर्थेषु तपिमकर्मकं स्मरन्ति । यथा वहति भारमिति प्रापणे वहिं सकर्मकम् , स्यन्दने स्वकर्मकं वहति नदी स्यन्दत इत्यर्थः ॥ १५० ॥ 'यमूं उपरमे' इति । अत्र सूत्रम् ।
आङो यमहनः खेऽङ्गे च ॥ १५१ ॥ [ सि० ३।३।८६ ] आङ्पराभ्यां यम्हन्भ्यां कर्माभावे खेऽङ्गे वा कर्मण्यात्मनेपदं स्यात् । आयच्छते ४॥१५१॥ 'आङो.' आयच्छते इति । एवम् आहते। कर्माविवक्षयात्राकर्मकत्वम् । स्वेऽङ्गे कर्मणीति आयच्छते पादं आहते शिरः । स्वेऽङ्गे चेति किम् ? आयच्छति रजुम् । आहन्ति वृषलम् । स्व इति किम् ? आयच्छति पादौ चैत्रस्य । आहन्ति शिरो मैत्रस्य । अङ्ग इति किम् ? स्वामायच्छति रज्जुम् । स्खं २० पुत्रमाहन्ति । स्वाङ्ग इति समस्तनिर्देशे पारिभाषिकस्वाङ्गप्रतिपत्तिः स्यादित्यस्यासमस्ताभिधानम् [तेनायच्छति पादौ चैत्रस्येति नात्मनेपदम् ] ॥ १५१ ॥ अद्यतन्यां सिजागमे सूत्रम्
यमः सूचने ॥ १५२ ॥ [सि० ४।३।३९] सूचनार्थाद्यमेरात्मनेपदविषयः सिन् किद्वत्स्यात् । कित्त्वात् 'यमिरमि०' (४।२।५५) इत्यादिना मलुकि उदायत । 'वा स्वीकृतौ' (४।३।४०) सिचः कित्त्वम्-उपायत-उपायंस्त २५ शस्त्रम् । उपायसाताम् इत्यादि ५। उपायेमे ६ । उपायंसीष्ट ७। उपायन्ता ८। उपायंस्यते ९। उपायंस्थत १० । आहते इत्यादिवत् ॥ १५२ ॥
'यम' सूचनार्थादिति । सूचनं परदोषाविष्करणम् , तस्मिन् वर्तमानाद्यमेः पर आत्मनेपद विषयः सिच् किद्वत्स्यादिति । उदायतेति उदायसातां उदायसत । सूचन इति किम् ? आयंस्त कूपाद्रजुम् उद्धृतवानित्यर्थः । सकर्मकात् 'समुदाङो यमेरग्रन्थे' ( ३।३।९८) इत्यात्मनेपदम् । अत्र विशेषे सूत्रम् ३० 'वा स्वी०' (४।३।४०) स्वीकृतौ वर्तमानाद्यमः पर आत्मनेपदविषयः सिच् किद्वद्वा भवतीत्यर्थः । 'यमः स्वीकारे' (३।३।५९) इति सूत्रेण उपपूर्वाद्यमेरात्मनेपदम् । यथा 'मोपयध्वं भयं सीतां नोपायंस्त दशाननः' इति । स्वीकृताविति किम् ? आयंस्त पाणिम् । सिजित्येव उपयंसीष्ट कन्याम् ।३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org