________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
उदश्चरः साप्यात् ॥ १४६ ॥ [ सि० ३।३।३१] उत्पूर्वाञ्चरतेः सकर्मकादात्मनेपदं स्यात् । मार्गमुच्चरते । व्युत्क्रम्य यातीत्यर्थः । अकर्मकत्वे तु धूम उच्चरति । ऊर्ध्व गच्छतीत्यर्थः॥ १४६ ॥
'उद०' व्युत्क्रम्येति ननु चैवमपि व्युत्क्रमणस्य क्रियान्तरस्य धात्वन्तरार्थत्वान्न तत्कर्मणा चरिः ५सकर्मक इत्युदाहरणायोगः । अत्रोच्यते । चरिरेवात्र व्युत्क्रमणोपसर्जनायां विशिष्टायां गतौ वर्त्तते । यथा 'जीव प्राणधारणे' इति जीवतिरेव विशिष्टे धारणे इति । (तद् ) व्युत्क्रमणं चरावन्तर्भूतमिति सकर्मक इत्यदोषः । प्रत्युदाहरणे तु गतिमात्रे वर्त्तते न व्युत्क्रमणाङ्गे । धातूनामनेकार्थत्वादिति भक्षणार्थेऽपि ग्रासमुच्चरते । सक्तूनुच्चरते भक्षयतीत्यर्थः । उद इति किम् ? चारि(रं) चरति ॥ १४६ ॥
समस्तृतीयया ॥ १४७ ॥ [ सि० ३।३।३२] १० सम्पूर्वाच्चरेस्तृतीयान्तेन योगे आत्मनेपदं स्यात् । अश्वेन सञ्चरते ४ । समचरिष्ट ५ ।
सञ्चेरे सञ्चेरिखे ६ । इत्यादि । अन्यत्र तु सञ्चरति समचारीत् । सञ्चचारेत्यादि १० । ॥ १४७ ॥ 'क्रीड विहारे। ___ 'सम' तृतीययेति किम् ? उभौ लोकौ सञ्चरसि इमं चामुं च । यद्यप्यत्र विद्यया तपसा चेत्य
दिह तृतीयान्तं गम्यते । तथापि तृती(य?)येति सहयोगे तृतीया साक्षाद्योगस्य प्रतिपत्त्यर्थं न १५ गम्यमानस्येति । अन्यथा नहि काचिक्रिया करणं विना सम्भवतीति व्यावृत्तिरेव न घटते । सह
धनेन चैत्रः सञ्चरतीत्यत्र तु विद्यमानार्थतायां चरतेस्तृतीयान्तेन योग एव नास्ति । अत्र हि तृतीयान्तं कत्रैव संयुज्यते नतु चरतिना, नहि तद्धनं चैत्रेण सह सञ्चरतीति । (देवल) किं ( त्वं ) करिष्यसि ? रथ्यया सञ्चरति चैत्रोऽरण्ये इत्यत्र तु धातोस्तृतीयान्तेनायोगान भवति ॥ १४७ ॥
क्रीडोऽकूजने ॥ १४८॥[सि० ३३३३३३] २० कूजनमव्यक्तशब्दस्ततोऽन्यार्थात्संपूर्वात्क्रीडतेरात्मनेपदं स्यात् । संक्रीडते । कूजने तु
संक्रीडन्त्यनांसि ॥१४८॥ _ 'क्रीडो' 'क्रीड़ विहारे' संक्रीडते रमते इत्यर्थः । संक्रीडन्त्यनांसीति अव्यक्तं शब्दं कुर्वन्ती. त्यर्थः । सम इत्येव क्रीडति ॥ १४८॥
अन्वाङ्परेः ॥ १४९ ॥ [सि० ३३॥३४ ] २५ एभ्यस्त्रिभ्यः क्रीडतेरात्मनेपदं स्यात् । अनुक्रीडते ४ । अन्वक्रीडिष्ट ५ । अनुचिक्रीडे
अनुचिक्रीडिषे ६ । इत्यादि । अन्यत्र तु क्रीडति । अक्रीडीत् । चिक्रीडेत्यादि ॥१४९॥ 'तपं धूप सन्तापे ।
'अन्वा०' अनुक्रीडते एवं आक्रीडते परिक्रीडते । उपसर्गादित्येव माणवकमनुक्रीडति । माणवकेन सह क्रीडतीत्यर्थः । धातुना अनोरसम्बन्धान भवति । एवमर्थवद्हणे नानर्थकस्येति उपरीत्यादि३० शब्दा(न)नुवृत्तेः । (उपरि क्रीडति ) 'भुनजोत्राणे' (३।३।३७) त्राणात् पालनादन्यत्रार्थे __ वर्तमानाद्भुनक्तेः कर्तर्यात्मनेपदं स्यात् । ओदनं भुङ्क्ते । अत्राण इति किम् ? पृथिवीं भुनक्ति पालय
तीत्यर्थः । 'भुते भूमिमखिलाम्' इत्यत्र तु भूम्याश्रितं फलोपभोगविवक्षया त्राणार्थत्वम् । 'अम्बरीषश्च ३३ नाभागो बुभुजाते चिरं महीम्' इत्यत्र तु न पालनं भुजेरर्थः, किन्तु पालननिमित्तक उपकारः । धातूना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org