________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे आत्मनेपदविधिः
५९३
इत्यादीति सम्पूर्वादीनां गमादीनां शिद्विभक्तिचतुष्टये सङ्गच्छते समृच्छते इत्यादिना रूपपद्धतिदिग्दर्शिता स्पष्टा च शेषविभक्तिषु गमेः स्वरतेर्दृशश्च मूले एव दर्शिता । शेषाणां तु ऋच्छेरद्यतन्यां सेट्त्वात् समाच्छिष्ट समाच्छिषाताम् समाच्छिषत । समाच्छिष्ठाः समाच्छिषाथाम् समाच्छ्ध्विम् समाच्छ्द्विम् । समाच्छिषि समाच्छिष्वहि समार्चिष्महि । परोक्षायां प्रथमं द्वित्वं ततः 'स्कृच्छ्रतोऽकि०' ( ४|३|८ ) इति गुणे 'ऋतोऽत् ' ( ४।१।३८ ) इति पूर्वस्य अत्वे 'अनातो५ नश्चान्त०' ( ४।१।६९ ) इति अस्य आत्वे नागमे च समानच्छे समानच्छाते समानच्छिरे । समाच्छिषे समानर्च्छाथे समानच्छिध्वे । समानच्छे समानच्छिवहे समानच्छिम हे ६ । समृच्छिषीष्ट ७ । समृच्छिता ८ । समृच्छिष्यते ९ । समाच्छिष्यत १० । प्रच्छेरद्यतन्यां सिजागमे अनित्वादिडागमे 'घुड्हस्वाद् ० ' ( ४।३।७० ) इति सिज्लोपे 'अनुनासिके च च्छुः शूटू' ( ४।१।१०८) इति द्वयोरपि छकारयोः शत्वे तस्य ‘यजसृज०’( २।१।८७ ) इति षत्वे ' तवर्गस्य च वर्ग ० ' (१।३।६० ) इति तस्य टत्वे समप्रष्ट सम- १० प्रक्षातां समप्रक्षत । समप्रष्टाः समप्रक्षाथां समप्रदुम् २ | समप्रक्षि समप्रवहि समप्रक्ष्महि । परोक्षायां सम्पच्छे सम्पप्रच्छाते सम्पप्रच्छिरे । सम्पप्रच्छिषे सम्पप्रच्छाये सम्पप्रच्छिध्वे । सम्पप्रच्छे सम्पप्रच्छिवहे सम्पप्रच्छिमहे ६ । सम्प्रक्षीष्ट ७ । सम्प्रष्टा ८ । सम्प्रक्ष्यते ९ । समप्रक्ष्यत १० । संशृणोतेरतन्यां समश्रोष्ट समश्रोषाताम् समश्रोषत । समश्रोष्ठाः समश्रोषाथाम् समश्रोम् समश्रोध्वम् । समश्रोषि समश्रोष्वहि समश्रोष्महि ५ । परोक्षायां 'संयोगात् ' ( २।११५२ ) इत्यु- १५ वादेशे संशुश्रुवे संशुश्रुवाते संशुश्रुविरे । संशुश्रुविषे ६ । संश्रोषीष्ट ७ । संश्रोता ८ । संश्रोष्यते ९ । समश्रोष्यत १० । वेत्तेरद्यतन्यां समवेदिष्ट समवेदिषाताम् समवेदिषत । समवेदिष्ठाः समवेदिषाथाम् समवेदिध्वम् समवेदिढम् । समवेदिषि समवेदिष्वहि समवेदिष्महि । परोक्षायां वेत्तेः कित् इत्यामादेशे संविदाञ्चके पक्षे संविदे० । संवेदिता ८ | संवेदिष्यते ९ । समवेदिष्यत १० । अतैरद्यतन्यां सिजलोपात्प्रागेव 'स्वरादेस्तासु' ( ४ | ४ | ३१ ) इति वृद्धौ ततश्च 'घुड्हस्वाद् ०' इति सिज्लोपाभावे २० समाष्र्ष्ट समार्षाताम् समार्षत। समाः समार्षाथाम् समार्ध्वम् समार्द्धम् । समार्षि समाहि समाहि ५ । परोक्षायां ऋऋ इति द्वित्वे 'ऋतोत्" (४|१| ३८ ) इति पूर्वस्य अत्वे 'संयोगादत्ते : ' ( ४ | ३ ९ ) इति द्वितीयस्य गुणे समारे समाराते समारिरे । समारिषे समाराथे समारिध्वे । समारे समारिवहे समारिमहे । 'नुप्र०' (३।३/५४) आङ इत्यधिकृत्य आङ्पूर्वात् शुक् स्तुतौ इत्यस्य धातोः प्रच्छेश्व धातोः कर्त्तर्यात्मनेपदं स्यात् । आनुते शृगालः, उत्कण्ठितः शब्दं करोतीत्यर्थः । उत्कण्ठापूर्वके शब्दने २५ नौतेरयं विधिर्न सर्वत्र । आनुवाते आनुवते ४ | अद्यतन्यां आनविष्ट आनविषाताम् आनविपत ५ । परोक्षायां नुनु ६ । आनविषीष्ट ७ । आनविता ८ । आनविष्यते ९ । आनविष्यत १० । एवं आपृच्छते । रूपरीतिः प्राग्वत् । तथा च प्रयोगो मेघदूते कालिदासस्य 'आपृच्छस्व प्रियसखमनुं शैलमाश्रिष्टानुम्' इति वियुज्यमानस्य प्रश्नेऽयं विधिः । आङ इत्येव (नौति ) प्रणौति पृच्छति परिपृच्छति । 'गमेः ० ' ( ३ | ३ |५५ ) क्षान्तिः कालहरणं तत्र वर्त्तमानाद्गमयतेः कर्त्तर्यात्मनेपदं वा स्यात् । ३० क्षान्ताविति किम् ? आगमयति विद्याम् गृह्णातीत्यर्थः । क्षान्तौ स्वभावाद्गमिर्ण्यन्त एव वर्त्तते । 'यमः स्वीकारे' ( ३।३।५९) उपपूर्वाद्यमेः स्वीकार एवार्थे वर्त्तमानात् कर्त्तर्यात्मनेपदं स्यात् । कन्यामुपयच्छते । वेश्यामुपयच्छते । उपायंस्त महास्त्राणि । च्विनिर्देशः किम् ? शाटकानुपयच्छति नात्रास्वं स्वं क्रियते, स्वत्वेन तु निर्ज्ञातस्य ग्रहणमिति न भवति । उद्वाह एवेच्छन्त्येके तन्मते वैश्यामुपयच्छते इत्यादि न स्यात् ॥ १४५ ॥ 'चर गतिभक्षणयो' रिति अत्र सूत्रम्
है० प्रका० उत्त० ७५
Jain Education International
For Personal & Private Use Only
३५
www.jainelibrary.org