________________
५९२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुयमिरमिनमिगमिहनिमनिवनतितनादेधुटि किति ॥१४५॥ [सि० ४।२।५५]
एषां तनादीनां च धुडादौ क्विति लुक् स्यात् इति मलुकि धुड्हस्वादिति सिज्लुपि समगत । पक्षे समगस्त समगसाताम्-समगंस्ताम् ५। संजग्मे संजग्मिषे ६ । संगसीष्ट संगंसीष्ट ७ । संगन्ता ८ । संगंस्यते ९ । समगंस्थत १० । 'औस्व शब्दोपतापयोः' । संवरते ४ । सम५ स्वरिष्ट ५ । संयोगादर्जेरिति गुणे संसखरे संसस्वरिषे ६ । इत्यादि । सम्पश्यते ४ । सिजाशिषावात्मन इति सिचः कित्त्वम् । समदृष्ट समदृक्षाताम् समक्षत ५ । संददृशे संददृशिषे ६ । संदृक्षीष्ट ७ । संद्रष्टा ८ । संद्रक्ष्यते ९ । समद्रक्ष्यत १० । सकर्मकत्वे तु संगच्छति रवि शशीत्यादि । 'नुप्रच्छ:' (३।३।५४) आनुते शृगालः । आपृच्छते गुरुम् । 'गमेः क्षान्तौ'
(३।३।५५) आत्मनेपदम् । आगमयते गुरुम् । कञ्चित्कालं प्रतीक्षत इत्यर्थः । 'चर गति१० भक्षणयोः' ॥१४५॥
' 'यमि०' एषामिति यम्यादीनां सप्तानाम् , तनादीनामिति तनादिगणस्य, मनीति मन्यतेर्ग्रहणम् मनोतेस्तनादित्वेन सिद्धत्वात् । एवं वनतीति 'वन षण संभक्तौ' इत्यस्य ग्रहणम् वनूयीत्यस्य तनादित्वेन सिद्धत्वात् । क्रमेणोदाहरणानि यतः यतवान् यत्वा यतिः । एवं रतः ४ । गतः ४ । हतः हतवान् हत्वा हतिः 'सातिहेति०' (५।३।९४) इति बाधनाथ श्वादिभ्यः क्तिः आहत आहथाः । मतः १५ मतवान् मत्वा मतिः । वतिः क्तिः, क्तक्तवतू न दर्शितौ इट्प्राप्तेः । क्तौ तु नियमान्नेट तथाहि 'तेर्ग्रहादिभ्यः' (४।४।३३) ग्रहादिभ्य एव स्ताद्यशितस्तेरादिरिट् स्यात् । तेरिति सामान्येन क्तेस्तिको वा ग्रहणम् । निगृहीतिः अपिस्निहितिः निकुचितिः निपठितिः उदितिः भणितिः रणितिः मथितिः लिखितिः रुशितिः कम्पितिः अन्दोलितिः । बहुवचनमाकृतिगणार्थम् । तेहादिभ्य एवेति नियमा
दन्यत्र न भवति । शान्तिः वान्तिः दान्तिः ( दीप्तिः) ज्ञप्तिः सस्तिः ध्वस्तिः। तिकः खल्वपि तन्तिः २० सन्तिः कण्डूतिः । णौ पाक्तिः याष्टिः प्रज्ञप्तिः । तेरेव ग्रहादिभ्य इति विपरीतनियमो न भवति ।
उत्तरत्र ग्रहः परोक्षायामिटो दीर्घनिषेधात् । तिकि त्वन्तलोपप्रतिषेधस्तद्यथा 'न तिकि दीर्घश्च' (४।२।५९) यमि रमि नमि गमि हनि मनि वनति तनादीनां तिकिप्रत्यये लुक् दीर्घश्च न भवतः । यन्तिः रन्तिः नन्तिः गन्तिः हन्तिः मन्तिः वन्तिः तन्तिः । क्षणिति लाक्षणिकोऽयं णकारस्तेन
क्षन्तिरिति भवति । नान्तप्रकृतेर्णत्वबाधनाय नामिति बहुवचनात् प्रथममेव नकारः, नामिति बहुवच२५ नाण्णत्वं कृतमपि वर्गान्ते कर्त्तव्ये निवर्त्तते वा । अन्यस्तु औपदेशिकोऽयं णकार इति मन्यते तन्मते
क्षण्टिरिति भवति । अन्तलोपे प्रतिषिद्धे 'अहन्पञ्चमस्य०' (४।१।१०७) इत्यादिना दीर्घत्वं प्राप्तम् , तदपि प्रतिषिध्यते । एषामिति-शान्तिर्भगवान् । तिकीति किम् ? यतिः रतिः ततिः । तनादिः तनूयि ततः ततवान् तत्वा ततिः । सनोतेरात्वं भवति 'आः खनिसनिजन' (४।२।६० ) इति सातः
सातवान् 'क्षणूग् क्षिणूयी हिंसायाम्' क्षतः क्षतवान् क्षत्वा क्षतिः (क्षितः क्षितवान् क्षित्वा क्षितिः) ३० ऋणूयी, ऋतः ऋतवान् । तृणूयी तृतः तृतवान् । घृणूयी घृतः घृतवान् । वनूयि वतः वतवान् ।
मनूयि मतः मतवान् । एषामिति किम् ? शान्तः दान्तः । तनादीनां गणनिर्देशात् यङ्लुपि अन्तलोपो न भवति । वंवातः तन्तातः । अन्येषां भवति यंयतः रंरतः नंनतः जङ्गतः जङ्घतः । कुटिलं हतः यङ् लुप् द्वित्वम् मुरन्तः 'अड़े हिहन' (४।११३४) इति घः गत्यर्थत्वाद् नीनं भवति । केचित्तु यङ्
लुपि नी नेच्छन्ति तन्मते वधार्थोऽपि । मंमतः । धुटीति किम् ? यम्यते यंयम्यते । कितीति किम् ? ३५ यन्ता रन्ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org