________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे आत्मनेपदविधिः
५९१ तु सम्बन्धे षष्ठी । कर्मण्यसतीत्येव तैलं सर्पिषो जानाति, तैलं सर्पिष्टया जानातीत्यर्थः । स्वरेण पुत्रं जानाति । केचित्तु ज्ञानोपसर्जनायां प्रवृत्तावेवाकर्मकाजानातरात्मनेपदमाहुः, अत एव ते संभविष्याव एकस्यामभिजानासि मातरि इत्यादौ प्रवृत्त्यर्थाभावादात्मनेपदाभावं मन्यन्ते । सम्भविष्याव इति 'अयदि स्मृत्यर्थे भविष्यन्ती' (५।२।९) इत्यनेन भूते भविष्यन्तीस्यावस् । अभिजानासि मातरीति एकस्यां मातरि आवां सम्भविष्याव इत्युल्लेखेन त्वं स्मरसि इति विवक्षायामकर्मकत्वमन्यथा५ ब्यङ्गविकलता स्यात् । खमते तु इति त्वं स्मरसि इति वाक्यार्थस्य कर्मत्वविवक्षायां सकर्मकत्वान्नात्मनेपदम् । इति शब्दोऽत्रा(ध्या)हार्यः । तथा ज्ञास्ये रात्राविति प्राज्ञ इत्यत्रापि ज्ञात्वा प्रवर्तिष्ये इति व्याचक्षते । जाने कोपपराङ्मुखीत्यत्र ज्ञोऽनुपसर्गादित्यात्मनेपदमिच्छन्ति । अत्रायमभिप्रायः-कोपपरासुखी दयिता इत्युल्लेखेन जाने इति विवक्षायामकर्मतया 'ज्ञ' इत्यनेनाप्यात्मनेपदम् । अहमिति जाने यद्दयिता कोपपराङ्मुखीति वाक्यार्थस्य कर्मत्वविवक्षायां 'ज्ञोऽनुपसर्गात्' (३।३।९६) इत्यात्मनेपदम् । १० वक्ष्यति हि तत्र अकर्मकात् 'ज्ञ' इत्यनेन सिद्धे सकर्मकार्थं वचनमिति । 'ज्ञोऽनुपसर्गात्' (३।३। ९६) अविद्यमानोपसर्गाज्जानातेः फलवति कर्तर्यात्मनेपदं स्यात् । गां जानीते अश्वं जानीते । अनुपसर्गादिति किम् ? स्वर्ग प्रजानाति । फलवतीत्येव परस्य गां जानाति । अकर्मकात्पूर्वेण सिद्धे सकर्मकार्थं वचनम् ॥ १४२ ॥
समो गमृच्छिप्रच्छिश्रुवित्खरत्यर्तिदृशः ॥ १४३ ॥ [ सि० ३।३।८४] १५ सम्पूर्वेभ्यः एभ्योऽष्टाभ्यः कर्मण्यसत्यात्मनेपदं स्यात् । सङ्गच्छते । समगच्छत ॥ १४३ ॥ 'समो०' एभ्योऽष्टाभ्य इति 'अम द्रम हम्म मिमृ गम्लं गतौ' सङ्गच्छते । 'ऋछत् इन्द्रियप्रलयमूर्तिभावयोः' समृच्छते समृच्छिष्यते । ऋच्छेरत॑श्च रूपसाम्यात् ऋच्छेरभिव्यक्त्यर्थं द्वितीयमुदाहरणम् । 'प्रच्छंत् ज्ञीप्सायाम्' सम्पृच्छते । 'श्रृंगटु श्रवणे' संशृणुते । नित्यपरस्मैपदिभिः साहचर्यात् ज्ञानार्थस्यैव विदेर्ग्रहणम्। संवित्ते । बहुवचने 'वेत्तेनेवा' (४।२।११६) वेत्तेः परस्यात्मने-२० पदसम्बन्धिनोन्तो रत् इत्यादेशो वा स्यात् । संविद्रते संविद्रतां समविद्रत । पक्षे संविदते संविदताम् समविदत । वेत्तेरिति किम् ? रौधादिकस्य मा भूत् संविदन्ते । 'औस्तृ शब्दोपतापयोः' संस्वरते । अर्तीति सामान्यनिर्देशात् ' प्रापणे' चेति भ्वादिः, 'ऋक् गतौ' इत्यदादिश्च द्वयमपि गृह्यते । तत्राद्यस्य 'श्रौति०' (४।२।१०८) इत्यादिना ऋच्छादेशे समृच्छते द्वितीयस्य 'हवः शिति' (४।१।१२) इति द्वित्वम् 'ऋतोऽत्' (४।१।३८) इति पूर्वस्य अत्वम् । 'पृभृमाहाङामिः' (४।१।५८) पूर्वस्य २५ इत्वम् । 'पूर्वस्यास्वे खरे.' (४।१।३७ ) इति इय् समृयते । 'दृशं प्रेक्षणे' सम्पश्यते । स्वरत्योंस्तिनिर्देशो यङ्लुब्निवृत्त्यर्थस्तेन स्वरतेर्यङ्लुपि संसरिस्वति संसरीस्वर्ति संसद्धति । संसरिस्वरीति संसरीस्वरीति संसर्वरीति ६ । अर्तेश्च 'अट्यति०' (३।४।१०) इति यङागमे तल्लुकि रिरी आगमे 'पूर्वस्येति इयादेशे समरियति समरियरीति आगमे च समरर्ति । समरियरीति २ समररीति । अन्येषां तु यङ्लुप्यात्मनेपदम् । सञ्जङ्गते सम्परीपृष्टे ३ संशोश्रुते संवेवित्ते संदरीदृष्टे ३ । ऋच्छेस्तु ३० यङ् एवासम्भवः व्यञ्जनादित्वाभावात् ॥ १४३ ॥ गमेविशेषसूत्रम् ।
गमो वा ॥ १४४॥ [सि० ४३३३३७] गमेरात्मनेपदविषयौ सिजाशिषौ किद्वद्वा स्याताम् ॥ १४४ ॥ 'गमो०' स्पष्टम् । अथात्र किद्वत्तायाः फलमाह ॥ १४४ ॥ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org