________________
५९०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
विवादे वा (३३८० ) विवदन्ति विवदन्ते वा गणकाः । 'अनोः कर्मण्यसति' ( ३।३।८१) अनुवदते चैत्रो मैत्रस्य । कर्मणि तु उक्तमनुवदति ॥ १४२ ॥
'व्यक्त०' सम्प्रवदन्ते ग्राम्याः सम्भूय भाषन्ते इत्यर्थः । व्यक्तवाचामिति किम् ? सम्प्रवदन्ति कुक्कुटाः । सम्प्रवदन्ति शुकाः सारिकाश्च । शुकसारिकादीनामपि व्यक्तवाक्त्वात्सहोक्ता विच्छन्त्यन्ये ५ सम्प्रवदन्ते शुकाः सारिकाश्च । सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति । 'विवा०' ( ३।३। ८०) विरुद्धार्थो वादो विवादः । व्यक्तवाचां सहोक्तौ विवादरूपायां वर्त्तमानाद्वदेः कर्त्तयात्मनेपदं वा स्यात् । विवदन्ते गणका इति परस्परप्रतिषेधेन युगपद्विरुद्धं वदन्तीत्यर्थः । विवाद इति किम् ? सम्प्रवदन्ते वैयाकरणाः सह वदन्तीत्यर्थः । ( सहशब्देनापि सहों तावुक्तायां व्यक्तवाचामित्यनेनापि नात्रात्मनेपदम् ) । व्यक्तवाचामित्येव सम्प्रवदन्ति शकुनयः । नानारुतं कुर्वन्ति जातिशक्तिभेदात् । १० सहोत्तावित्येव मौहूर्त्ता मौहूर्त्तेन सह क्रमेण विप्रवदति । विरुद्धाभिधानमात्रमिह विवक्षितम् न तु विमतिपूर्वकम् । तेन विमतिलक्षणमप्यात्मनेपदं न भवति । 'अनो:' ( ३।३।८१ ) व्यक्तवाचामित्येवानुवर्त्तते । व्यक्तवाचां सम्बन्धिन्येवार्थे वर्त्तमानादनुपूर्वाद्वदेः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । अनुः सादृश्ये पश्चादर्थे वा । अनुवदते चैत्रो मैत्रस्येति । यथा मैत्रो वदति तथा चैत्रो वदतीत्यर्थः । अनुवदते आचार्यस्य शिष्यः आचार्येण पूर्वमुक्ते पश्चाद्वदतीत्यर्थः । कथं वाचिक - १५ षडिकौ न संवदेते इति । वागाशिस वागाशीर्दत्त इति वा प्रकृतिः । अनुकम्पितो वागाशीर्वागाशीर्दत्तो वा 'अजातेर्नृनाम्नो बहुस्वरादियेकलं वा' ( ७।३।३५ ) इत्यनेन इकप्रत्यये । 'षड्वर्जेकस्वरपूर्वपदस्य स्वरे' ( ७।३।४० ) षट्शब्दवर्जितमेकस्वरं पूर्वपदं यस्य तत् सम्बन्धिन उत्तरपदस्यानुकपायां विहिते स्वरादौ प्रत्यये लुग् भवति । अनुकम्पितो वागाशीः वाग्दत्तो वागाशीर्दत्तो वा वाचिकः । एवमनुकम्पितः षडङ्गुलिः षडङ्गुलिदत्तो वा 'अजाते' रितीके 'द्वितीयात्स्वरादूर्ध्वम्' ( ७।३। २०४१ ) अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतेर्द्वितीयात्स्वरादूर्ध्वं शब्दस्वरूपस्य लुग् भवति ततश्च (ङ्गुलिलोपे ) षडिक इति । एतौ च वाचिकपडिको शास्त्रकारविशेषो न संवदेते मिथो विरुयेते । कथमत्रात्मनेपदमित्यत्रोच्यते विमतिविवक्षायां भविष्यति । यद्वा वाचिकषडिकौ इति शब्दौ मिथो विरुद्ध्येते यथा वाचिक इति सिद्ध्यति तथा षडिक इति न सिद्ध्यति । तथाहि षड्वजैकस्वरपूर्वपदस्य खरे इत्युत्तरपदलोपे वाचिक इति सिद्ध्यति । षडिक इत्यत्र तु द्वितीयात्स्वरादूर्ध्वमिति २५ द्वितीयस्वरादूर्ध्वं लोपे । तथा च ' अवर्णवर्णस्य' ( ७|४|६८ ) इत्यलुचः स्थानिवद्भावात्पदत्वस्यानिवृत्तेस्तृतीयत्वं न निर्वर्त्यते । षड्वर्जनादेव चापदत्वे सन्धिविधावप्यलुकः स्थानित्वनिषेधो न भवति । 'अनोः कर्मण्यसतीत्यत्र अकर्मकादित्यनुक्त्वा : कर्मण्यसतीति निर्देश: 'आङो यमहनः स्वेऽङ्गे च' ( ३।३।८६ ) कर्मणीति लाघवेन प्रतिपत्त्यर्थम् । अस्याप्युपलक्षणत्वात् इत्यादिशब्दानुसन्धानाद्वा । 'वदोsपात्' ( ३।३।९७ ) अपपूर्वाद्वदतेः फलवति कर्त्तर्यात्मनेपदं स्यात् । एकान्तमपवदते । अपादिति किम् ? वदति । फलवतीत्येव अपवदति परं स्वभावतः | 'ज्ञ' ( ३।३।८२ ) जानतेः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । सर्पिषो जानीते । कथमत्र जानातिरकर्मकः । उच्यते नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्, किं तर्हि ? प्रवृत्तौ करणत्वेन सर्पिषा मधुना करणेन भोक्तुं प्रवर्त्तते इत्यर्थः । अत एव 'अज्ञाने ज्ञः षष्ठी (२।२।८० ) इति षष्ठी । मिथ्याज्ञानार्थो वा जानातिः, सर्पिषि रक्तः प्रतिहतो वोदकादि सर्पिष्टया ज्ञानवान् भवतीत्यर्थः । मिथ्याज्ञानं चाज्ञानमित्यज्ञानार्थे ३५ पूर्ववदेव षष्ठी । अथवा सर्पिसम्बन्धिज्ञानं करोतीति विवक्षायां ज्ञानार्थोऽपि जानातिरकर्मकस्तदा
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org