________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे आत्मनेपदविधिः
५८९
पूर्वेद्युः प्रक्रामति गच्छतीत्यर्थः । अपरेद्युरुपक्रामति समीपमागच्छतीत्यर्थः । 'परोपात्' ( ३ | ३ | ४९ ) इत्यनेनापि न भवति । वृत्त्यादेरर्थस्याविवक्षितत्वात् । अन्ये तु स्वार्थविषय एवारम्भे मन्यन्ते । तेन प्रक्रमते उपक्रमते पादाभ्यां गन्तुमारभते इत्यर्थः इत्यत्रैव भवति । स्वार्थविषयादन्यत्र तु प्रक्रामति उपक्रामति भोक्तुमित्यत्र न भवति । प्रक्रमते इत्यादि प्रक्रिया स्पष्टा । 'ऋमो० ' ( ३।३।४७ ) अविद्यमानोपसर्गात्क्रमेः कर्त्तर्यात्मनेपदं वा स्यात् । क्रमते क्रामति । अनुपसर्गादिति किम् ? संक्रामति ॥ ५ वृत्त्यादेरन्यन्त्रायमारम्भ इत्यप्राप्तविभाषा । इत्यादिकरणात् । 'वृत्तिसर्गतायने' ( ३।३।४८ ) वेति निवृत्तम् । वृत्त्यादिष्वर्थेषु वर्त्तमानात्क्रमेः कर्त्तर्यात्मनेपदं स्यात् । वृत्तिरप्रतिबन्धः आत्मयापनं षा । शास्त्रेऽस्य क्रमते बुद्धिः न तत्र प्रतिहन्यते, आत्मानं यापयति वेत्यर्थः । सर्ग उत्साहः तात्पर्यं वा । सर्गेणातिसर्गशब्दस्य लक्षणादनुज्ञा वा । सूत्राय क्रमते तदर्थमुत्सहते तत्परो वाऽनुज्ञाता वा । तायनं स्फीतता सन्तानपालनं वा । क्रमन्तेऽस्मिन् योगाः स्फीता भवन्ति सन्तन्यन्ते सन्तानेन १० वर्त्तन्ते इति कर्मकर्त्तरि पाल्यन्ते वेत्यर्थः । वृत्त्यादिष्विति किम् ? क्रामति । 'परोपात्' (३|३| ४९) परोपाभ्यामेव परस्मात्क्रमेर्वृत्त्यादिष्वर्थेषु कर्त्तर्यात्मनेपदं स्यात् । पराक्रमते उपक्रमते । परोपा देवेति किम् ? अनुक्रामति । वृत्त्यादिष्वित्येव पराक्रमति । उपक्रामति समीपे गच्छतीत्यर्थः । अन्येतु परोपाभ्यां पराक्रमतेर्वृत्त्याद्यर्थाभावेऽपीच्छन्ति तेन पराक्रमते उपक्रमते इत्यात्मनेपदमेव । वृत्त्यादिषु त्वन्योपसर्गपूर्वादपि पूर्वेण मन्यन्ते निष्क्रमते प्रतिक्रमते न प्रतिहन्यत इत्यर्थः । ' वेः स्वार्थे १५ ( ३।३।५० ) स्वार्थः पादविक्षेपः । तस्मिन् वर्त्तमानाद्वेः परात्क्रमेः कर्त्तर्यात्मनेपदं स्यात् । साधु विक्रमते गजः । स्वार्थ इति किम् ? अश्वेन विक्रामति । नन्वत्रापि पादविक्षेप एव क्रमिर्वर्त्तते स च कर्तृकृतः करणकृतो वा भवतु । सत्यम्, गौणमुख्ययोरिति न्यायात्सर्वकारकप्रधान कर्तृगत एव गृह्यते । अत्र तु करणकृतः पादविक्षेप इति न भवति । विक्रामत्यजिनसन्धिः स्फुटतीत्यर्थः । विक्रामति राजा उत्सहते इत्यर्थः । 'आङो ० ' ( ३|३|५२ ) आङः परात्क्रमेर्ज्योतिषां चन्द्रादीनामुद्रमे ऊर्द्धगमने २० प्रधाने उपसर्जने वा वर्त्तमानात् कर्त्तर्यात्मनेपदं स्यात् । आक्रमते भानुरिति उदयते इत्यर्थः । दिवमाक्रममाणेन हेतुना अत्र दिवमिति कर्मणा योगादुद्गमनोपसर्जन व्याप्तिवचनः क्रमः । ज्योतिरुद्रम इति किम् ? आक्रमति माणवकः कुतुपं अवष्टनाति इत्यर्थः । ज्योतिरिति किम् ? धूम आक्रमति उद्गच्छतीत्यर्थः । आक्रामति धूमो हर्म्यातलं उद्गच्छन् व्याप्नोतीत्यर्थः । उद्गम इति किम् ? ' नभः समाक्रामति नष्टवर्त्मना स्थितैकचक्रेण रथेन भास्करः' । अत्र व्याप्तिमात्रं विवक्षितम् । नतूद्गमोपसर्जना- २५ व्याप्तिः । अन्ये तद्गमोपसर्जनां व्याप्तिं पश्यन्तोऽसाधुमेनं मन्यन्ते ॥ अस्योपलक्षणत्वात् । 'दागोस्वास्यप्रसारविकास' ( ३।३।५३ ) आङ्पूर्वाद्ददातेः कर्त्तर्यात्मनेपदं स्यात्, न चेत्स्वास्यप्रसारणं विकासश्चार्थो भवति । प्रसारणं प्रयोजकव्यापारः । विकासश्च कर्तृव्यापार इत्यनयोर्भेद: । विपूर्वात्कस गतावित्यतो घञि वृद्धौ विकामः । विद्यामादत्ते । अस्वास्यप्रसारविकास इति किम् ? उष्ट्रो मुखं व्याददाति प्रसारयतीत्यर्थः । कूलं व्याददाति विपादिका, व्याददाति विकसयतीत्यर्थः । स्वग्रहणं ३० किम् ? व्याददते पिपीलिकाः पतङ्गस्य मुखम् । आङ् इत्येव ददाति प्रददाति । फलवतोऽन्यत्रायं विधिः ॥ १४१ ॥ वदेति अत्र सूत्रम् ।
|
व्यक्तवाचां सहोक्तौ ॥ १४२ ॥ [ सि० ३३३ ७९ ]
व्यक्तवाचो नरादयस्तेषां सम्भूयोच्चारणार्थाद आत्मने पदं स्यात् । सम्प्रवदन्ते ग्राम्याः | ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org