________________
५८८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुपूर्वस्य गृणातेः प्रयोगो नास्तीत्यन्ये । 'निह्नवे ज्ञः' ( ३।३।६८) निह्नवोऽपलापस्तस्मिन् वर्तमानाजानातेः कर्त्तर्यात्मनेपदं स्यात् । शतमपजानीते अपहृते इत्यर्थः । अनेन चास्यायमर्थोऽभिव्यज्यते । निह्नव इति किम् ? तत्त्वं जानाति । 'सम्प्रतेरस्मृती' (३।३।६९) सम्-प्रतिभ्यां पराजानातेरस्मृती वर्तमानात्कर्त्तर्यात्मनेपदं स्यात् । 'समो ज्ञोऽस्मृतौ वा' (२।२।५१ ) अस्मृतौ वर्तमानात्स५म्पूर्वाजानातेः कर्मणि तृतीया वा स्यात् । पक्षे द्वितीया। शतेन सञ्जानीते । शतं सञ्जानीते । अवेक्षते इत्यर्थः । शतं प्रतिजानीते अभ्युपगच्छतीत्यर्थः । अस्मृताविति किम् ? मातुः सञ्जानाति । मातरं सञ्जानाति स्मरतीत्यर्थः । 'अननोः सनः' (३।३।७०) सन्नन्ताजानातेः कर्त्तर्यात्मनेपदं स्यात् , स चेदनोरुपसर्गात्परो न भवति । धर्म जिज्ञासते । अननोरिति किम् ? धर्ममनुजिज्ञासति । कथ
मौषधस्यानुजिज्ञासते ? 'अकर्मकात्प्राग्वत्' ( ३।३।७४ ) इत्यनेन भविष्यति । अकर्मकात् ज्ञ इत्यनेन १० प्राग् दृष्टत्वात्सन्नन्तात्प्राग्वदित्यनेनात्मनेपदे सिद्धे सकर्मकादेवायं विधिरिति ज्ञायते । 'श्रुवोऽनाडूप्रतेः' (३।३७१) सन्नन्तात् शृणोते: कर्त्तर्यात्मनेपदं स्यात्, स चेदाङ्मतिभ्यामुपसर्गाभ्यां परो न भवति । शुश्रूषते गुरून् । संशुश्रूषते शब्दान् । अनामतेरिति किम् ? आशुश्रूषति प्रतिशुश्रूषति । चैत्रं प्रति शुश्रूषते इति प्रतिना सम्बन्धाभावात् प्रतिषेधो न भवति । 'स्मृ शः ' (३।३।७२ ) स्मृदृशिभ्यां सन्नन्ताभ्यां कर्त्तर्यात्मनेपदं स्यात् । सुस्मूर्षते पूर्ववृत्तम् । दिदृक्षते देवम् । 'शको १५जिज्ञासायाम्' ( ३।३।७३ ) शकिःस्वभावादन्यधात्वर्थानुसंहितः प्रवर्तते । शक्नोति भोक्तुम् अन्य
द्वेति । ततो ज्ञानानुसंहितार्थात्सन्नन्तात्कर्तर्यात्मनेपदं स्यात् । विद्याः शिक्षते विद्यासु शिक्षते . ज्ञातुं शक्नुयामितीच्छतीत्यर्थः । आत्मनेपदेनैव जिज्ञासाया अवगमात् जिज्ञासितुमिति न प्रयुज्यते । जिज्ञासायामिति किम् ? शक्तुमिच्छति शिक्षति 'शिक्षि विद्योपादाने' इत्यनेनैव सिद्धे आमनुप्रयोगार्थ च वचनम् । तेन शिक्षाञ्चके इति भवति नतु शिक्षाञ्चकारेति । अयं भावः । यद्यदः सूत्रं न व्यधा२० स्यत् तदा सन्नन्तस्य शकेर्धातोः 'आमः कृग' ( ३।३।७५) इति आत्मनेपदं नाभविष्यत् । ततः शिक्षाञ्चक्रे इति न स्यात् । शिक्षेस्त्वामोऽसम्भव एव एकस्वरत्वात् । केचित्तु शकेः सन्नन्तस्यात्मनेपदमनिच्छन्तः शिक्षतेरेव जिज्ञासायामात्मनेपदमन्यत्र च परस्मैपदमिच्छन्ति ।
अथ प्रकृतम् । "सिंवि०' (३।३।६३) एभ्यश्चतुर्थ्यः परात्तिष्ठते: कर्तर्यात्मनेपदं स्यात् । सन्तिष्ठते वितिष्ठते प्रतिष्ठते अवतिष्ठते ॥ १३९ ॥
उपात्स्थः ॥ १४०॥ [सि० ३३८३] कर्मण्यसति तथा । योगे उपतिष्ठते । सकर्मणस्तु नृपमुपतिष्ठति ॥ १४० ॥ 'उपा०' उपपूर्वात्तिष्ठतेः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते ।। १४० ॥
प्रोपादारम्भे ॥ १४१॥ [सि० ३३५१] आभ्यामारम्भेऽर्थे क्रम आत्मनेपदं स्यात् । पँक्रमते ४ । 'क्रम' इतीइनिषेधे प्रास्त ५। ३० प्रचक्रमे ६ । प्रक्रंसीष्ट ७ । प्रक्रन्ता ८ । प्रक्रयते ९ । प्राक्रस्थत १० । 'क्रमोऽनुपसार (३३१४७) वात्मनेपदम् । क्रमते-क्रामति इत्यादि । 'आडो ज्योतिरुद्गमे' (३३५२) आक्रमते भानुः । 'वद व्यक्तायां वाचि' ॥१४१ ॥
'प्रोपा.' आरम्भ आदिकर्म, अङ्गीकरणं वेत्यन्ये । तस्मिन् वर्तमानात् प्रोपाभ्यां पराक्रमः ३४कतर्यात्मनेपदं स्यात् प्रक्रमते उपक्रमते भोक्तुम् । आरभते अङ्गीकरोति वेत्यर्थः । आरम्भ इति किम् ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org