________________
५८७
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे आत्मनेपदविधिः यस्येति यस्य धात्वर्थस्य उपस्थानलक्षणस्य पन्थाः कर्ता भवति । तदप्युपचारात् पथिकगतमुपस्थानकर्तृत्वं पथ्युपचर्यते इति । ऐन्द्रया गार्हपत्यमिति ऐन्द्रथा मत्रविशेषेण गार्हपत्यमग्निविशेषमाराधयतीत्यर्थः । मत्रादन्यत्र पतिमुपतिष्ठति यौवनेन । करणप्रहणं गायत्रीमुपतिष्ठति । अत्र मैत्री धात्वर्थविशेषणत्वेनोपसर्जनं धात्वर्थः, शेषास्तु प्रधानम् । अद्यतन्यां सिजागमे सूत्रम् 'इश्च०' स्पष्टम् ॥ १३५ ॥ वा लिप्सायाम् ॥ १३६ ॥ [सि० ३३६१]
५ उपात्स्थो लिप्सायां गम्यायामात्मनेपदं वा स्यात् । भिक्षुर्वदान्यमुपतिष्ठते २ ॥ १३६ ॥ 'वा लि.' वदान्यमुपतिष्ठते उपतिष्ठति. वा भिक्षां लभेयेति । द्विकेनाङ्केन वैकल्पिकं रूपद्वयं ज्ञेयम् ॥ १३६ ॥
उदोऽनूहे ॥ १३७ ॥ [सि० ३३६२ ] अनूलचेष्टायां उत्पूर्वात्स्थस्तथा । मुक्तावुत्तिष्ठते । ऊर्ध्वचेष्टायां तु आसनादुत्तिष्ठति । अचे-१० टायामपि ग्रामाच्छतमुपतिष्ठति ॥ १३७॥
'उदो' अनूो य ईहश्चेष्टा तत्र वर्तमानादुदः परात्तिष्ठतेः कर्त्तर्यात्मनेपदं भवतीति । मुक्तावुत्तिष्ठते इति मुक्त्यर्थं चेष्टते इत्यर्थः । ग्रामाच्छतमुत्तिष्ठति उत्पद्यते इत्यर्थः ॥ १३७ ॥ उदुपसर्गयोगे
विशेषसूत्रम्
उदः स्थास्तम्भः सः॥ १३८ ॥ [सि० १॥३।४४ ] उदः परयोः स्थास्तम्भोः सस्य लुक् स्यात् । उत्थाता ॥ १३८ ॥ 'उद०' स्पष्टार्थम् ॥ १३८ ॥
ज्ञीप्सा स्थेये ॥ १३९॥ [सि० ३६४ ] ज्ञीप्सात्मप्रकाशनम् स्थेयः सभ्यस्तयोर्विषये स्थ आत्मनेपदम् । तिष्ठते कन्या छात्रेभ्यः । त्वयि तिष्ठते विवादः । प्रतिज्ञायाम् (३।३।६५) अप्येवम् । नित्यं शब्दमातिष्ठते । (सिंवि-२० प्रावात् ) (३॥३६३) संतिष्ठते इत्यादि ॥ १३९ ॥ _ 'ज्ञीप्सा.' आत्मप्रकाशनमिति परपरितोषार्थमात्मरूपादिप्रकाशनम् झीप्सा । स्थेयः सभ्य इति तिष्ठत्यस्मिन्निति स्थेयः । बाहुलकादधिकरणे ‘य एचातः' (५।१।२८) इति यः । व्युत्पत्तिसमये आधारस्य निर्णेतृत्वं न विवक्षितमिति वाक्ये परस्मैपदम् । एषा च स्थेयशब्दस्य व्युत्पत्तिः, रूढिवशाच्च विवादपदे निर्णता प्रमाणभूतः पुरुष उच्यते । तयोर्विषये स्थ इति ज्ञीप्सायां स्थेयविषयायां च क्रियायां २५ वर्तमानात्तिष्ठतेः कर्तर्यात्मनेपदं स्यात् । तिष्ठते कन्येति स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्यर्थः । त्वयि तिष्ठते विवाद इति त्वदुपदिष्टं निर्णयतीत्यर्थः । यथा 'संशथ्य कर्णादिषु तिष्ठते यः' कर्णादिस्थेयोपदिष्टं निर्णयतीत्यर्थः । प्रतिज्ञायामप्येवमिति प्रतिज्ञा अभ्युपगमस्तत्र वर्तमानात्तिष्ठते: कर्त्तर्यात्मनेपदं भवति । नित्यं शब्दमातिष्ठते अभ्युपगच्छतीत्यर्थः । स्वभावाचायमापूर्वक एव प्रतिज्ञायां वर्तते । अस्योपलक्षणत्वात् 'समो गिरः' (३।३।६६) सम् पूर्वागिरतेः प्रतिज्ञायां वर्त-३० मानात् कर्तर्यात्मनेपदं स्यात् । स्याद्वाद सङ्गिरते प्रतिजानीते इत्यर्थः । प्रतिज्ञायामित्येव सङ्गिरति ग्रासम् । गिर इति निर्देशात् गृणातेर्न भवति । 'अवात्' (३।३।६७ ) पृथग्योगात्प्रतिज्ञायामिति निवृत्तम् । अवपूर्वागिरतेः कर्त्तर्यात्मनेपदं भवति । अवगिरते । अवादन्यत्र गिरति गिर इत्येव । अवगृणाति अव-३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org