________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुपवादे णे प्रियेक्षा । क्ते प्रेक्षितः 'तेट.' इत्यः प्रेक्षा । ध्यणि उत्प्रेक्ष्यः । करणेऽनटि ईक्षणम् ।
. 'आत्मनेपदिनां भ्वादिधातूनां द्विशती स्मृता।
षण्णवत्यधिकाऽथैकोनषष्टिश्च घटादयः ॥१॥
'ज्वलादयः स्मृता एकत्रिंशदेवं द्युतादयः। ५ त्रयोविंशतिरित्येवं नवोपेता चतुःशती' ॥२॥॥ १३३॥ अथ परस्मैपदिनामुभयपदिनां च यथात्मनेपदित्वं भवति तथा दर्शयति
विशिष्टार्थोपसर्गादेः परस्मैपदिनामपि ।
तथा चोभयपदिनामात्मनेपदिता भवेत् ॥१॥ विशि० विशिष्टा येऽर्थाश्च उपसर्गाश्च ते आदिर्यस्य क्रियाव्यतिहारादेः स विशिष्टार्थोपसर्गादि१० स्तस्मात् । तत्र विशिष्टार्था इत्यर्थविशेषा यथा 'प्रलम्भे गृधिवश्चः' (३।३।८९) बटुं गर्द्धयते
वञ्चयते । विशिष्टोपसर्गा उपसर्गविशेषा यथा ‘परावेर्जे:' (३।३।२८) पराजयते विजयते । आदिशब्दादन्येऽपि क्रियाव्यतिहारादय आत्मनेपदित्वहेतवो गृह्यन्ते । यथा 'समस्तृतीयया' ( ३।३।३२) इत्यत्रोपसर्गविभक्तिविशेषसमुदायः । यथा वा 'उदश्वरः साप्यात्' ( ३।३।३१) इत्यत्रोपसर्गसकर्म
कत्वसमुदाय इत्यादयो यथायथं दर्शयिष्यन्त इति । १५ देवार्चामैत्रीसङ्गमपथिकर्तृकमत्रकरणे स्थः ॥ १३४ ॥ [ सि० ३॥३६०]
एतदर्थादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । देवार्चा, जिनेन्द्रमुपतिष्ठते उपातिष्ठत ४ ॥१३४॥ 'देवार्चा०' जिनेन्द्रमुपतिष्ठते पूजयतीत्यर्थः ॥ १३४ ॥ अद्यतन्यास्ते सूत्रम्
इश्च स्थादः ॥ १३५॥ [सि० ४।३।४१] स्थाधातोर्दासंज्ञाचात्मनेपदविषयः सिच् किद्वत्स्यात् तद्योगे च स्थादोरिश्च । सिचः किवा२० गुणाभावः । धुड्हस्वादिति सिज्लोपे उपास्थित उपास्थिषाताम् उपास्थिषत ५ । उपतस्थे ६ ।
उपस्थाषीष्ट ७ । उपस्थाता ८ । उपस्थास्यते ९ । उपास्थास्यत १० । मैत्री, रथिकानुपतिष्ठते । सँङ्गमः, यमुना गङ्गामुपतिष्ठते । पन्थाः कर्ता यस्य तत्र श्रुघ्नमुपतिष्ठते पन्थाः । मैंत्रः करणं यस्य तत्र ऐन्या गार्हपत्यमुपतिष्ठते ॥ १३५ ॥
'इश्च०' स्पष्टं च । यथा च । 'बहूनामप्यचित्तानामेको भवति चित्तवान् । पश्य वानरसोऽस्मिन् २५यदर्कमुपतिष्ठते' । यदा तु नेयं देवपूजाऽपि तु चापलमिति विवक्षितम् , तदा न भवत्यात्मनेपदम् । 'मैवं
मंस्थाः सचित्तोऽयमेषोपि हि यथा वयम् । एतदप्यस्य कापेयं यदर्कमुपतिष्ठति' इति । मैत्रीति मित्रतया मित्रं वा कर्तुमाचरणं मैत्री उपस्थानस्य हेतुः फलं वा। अयमत्राभिप्रायः। अजयं सङ्गतमितिवत्संपूर्वाद्गममैत्र्यामपि दर्शनान्मैत्रीसङ्गमयोराभेदं यः शङ्कते तं प्रत्युपश्लेषरूपात्सङ्गमान्मित्रतयेत्यादिना
मैत्र्या भेदं दर्शयति । विनापि संश्लेषेण मैत्री, मित्रस्य भावो मैत्री । सा हि उपस्थानस्य धात्वर्थस्य ३० हेतुर्निर्वतिका । यथा रथिकानुपतिष्ठते इत्यत्र मित्रं सत् उपतिष्ठते तदा मैत्रीहेतुः । यदा तु प्रागमित्रं
सन्मैत्र्यर्थं प्रवर्त्तते तदा मैत्रीफलम् । ततश्च कारणस्य फलस्य च क्रियां प्रति विषयत्वोपपत्तेरुपस्थानस्य विशेषणत्वेन मैत्री गौणो धात्वर्थो भवति । एवं च रथिकानुपतिष्ठते इति मैत्र्या हेतुना फलेन वारा३३धयतीत्यर्थः । सङ्गम इति सङ्गम उपश्लेषः । यमुना गङ्गामुपतिष्ठते उपश्लिष्यतीत्यर्थः । पैन्थाः कर्ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org