________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय आत्मनेपदिनः
५८५ यूष जूष शष चष हिंसायाम् । एषां त्रयोदशानामष्टमनवमौ रुषरिषौ । एभ्यः परस्य । तादेरित्यादि व्यक्तम् ॥ १३२ ॥ इडभावपक्षे 'हो धुट पदान्ते' इत्यादिप्रक्रियायां कृतायां सूत्रम् ।।
सहिवहरोच्चावर्णस्य ॥ १३३ ॥ [ सि० १।३।४३ ] सहिवह्योर्दस्य तवे परे लुक् स्यात् , ओचावर्णख । सोढा सहिता सोढारौ । असोडेति किम् ? । विषहितासे-विसोढासे ८ । सहिष्यते ९ । असहिष्यत १० । 'गाहोङ् विलोडने ।५ गाहते ४ । इइविकल्पे अगाहिष्ट-अगाढ अगाहिषाताम्-अघाक्षाताम् । अगाहिपत-अघाक्षत । अगाहिष्ठाः-अगाढाः इत्यादि ५। जगाहे जगाहिषे-जघाक्षे ६ । गाहिषीष्ट-घाक्षीष्ट ७ । गाहितागाढा ८ । गाहिष्यते-घाक्ष्यते ९ । अगाहिष्यत-अघाक्ष्यत १० । 'इहि चेष्टायाम्' । ईहते ऐहत ४ ऐहिष्ट ५ ईहाञ्चक्रे ६ ईहिषीष्ट ७ ईहिता ८ ईहिष्यते ९ ऐहिष्यत १० । 'ईक्षि दर्शने' ईक्षते ऐक्षत ४ । ऐक्षिष्ट ५ ईक्षाश्चके ६ ईक्षिषीष्ट ७ ईक्षिता ८ ईक्षिष्यते ९ ऐक्षिष्यत ॥१३३॥१०
'सहि०' स्पष्टम् । सोढेति 'वहीं प्रापणे' इति वहीधातोस्तु वोढेति एवं सोढुं सोढव्यम् । सहिता सहितुम् सहितव्यम् । लिभ इत्यविशेषेण ग्रहणम् । लोव्धा लोब्धुम् लोब्धव्यम् । लोभिता लोभितुम् लोभितव्यम् । इच्छ एष्टा एष्टुम् एष्टव्यम् एषिता एषितुम् एषितव्यम् । इच्छेति निर्देशादिषत् इच्छायामित्यस्य ग्रहणम् । 'इषच् गतौ' 'इषश् आभीक्ष्ण्ये' इत्यनयोस्तु नित्यमेवेट प्रेषिता प्रेषितुम् प्रेपितव्यम् । केचिदिषशोऽपि विकल्पमाहुः । रुष् रोष्टा रोष्टुम् रोष्टव्यम् रोषिता रोषितुम् रोपितव्यम् । १५ रेष्टा रेषितुम् रेषितव्यम् । तादेरिति किम् ? सहिष्यते लोभिष्यति एषिष्यति । कश्चित्त पठति सूत्रम् 'अशिभृगस्तुशुचिवस्तिभ्यस्तकारादौ वेट्' अष्टा अशिता । भ" भरिता । स्तोता स्तविता । शोक्ता शोचिता । वस्ता वसिता ॥ तथा 'रुनुसुदु ४ भ्यो(ऽप्य)परोक्षायां वेट्' रोता रविता । नोता नविता । सोता सविता । अत्र 'सुं प्रसवे' इत्यषोपदेश एव गृह्यते । अन्यथा व्यावृत्तिदर्शिते सुसुविमेति प्रयोगे कृतत्वात्पत्वं स्यात् । दोता दविता । अपरोक्षायामिति किम् ? रुरुविम नुनुविम सुसु-२० विम । (दुदुविम) तथा 'विषेर्मूलफलकर्मण्यपरोक्षायामिवा' । वेष्टा वेषिता मूलानि वा । ( फलानि वा) अन्यत्र संवेष्टा । अपरोक्षायामिति किम् ? संविविषिव(म)। 'गाहौ विलोडने' इति विलोडनं परिमलनम् अगाहिष्ठाः अगाढा इत्यादीति । अद्यतन्या ध्वमि इडभावपक्षे 'सो धि वा' (४।३।७२) इति सिज्लोपे हो धुट्पदान्ते' (२।११८२) इति हस्य ढत्वे 'तवर्गस्य श्ववर्ग' (१।३।६०) इति धस्य ढत्वे 'तृतीयस्तृतीयचतुर्थे' (१।३।४९) इति ढस्य डत्वे अघाड्ढम् 'धुटो धुटि स्वे०'२५ (१।३।४८) इति डलापे अघाड्दम् । 'सो धि वा' इति सिज्लोपाभावे तु 'पढोः कः सि.' (२।१।६२) इति ढस्य कत्वे 'नाम्यन्तस्थाकवर्गात्' (२।३।१५) इति सस्य षत्वे 'तृतीयस्तृतीय.' इति षस्य डत्वे 'तवर्गस्य श्ववर्ग०' इति धस्य ढत्वे अगाहिड्डम् । सिचो लोपे 'हान्तस्थाझीड्भ्यां वा' (२।१।८१ ) इति धस्य ढत्वे अगाहिट्वम् । धस्य ढत्वाभावे अगाहिध्वम् अघाक्षि अगाहिषि अघावहि अगाहिष्वहि । अघामहि अघाहिष्महि । परोक्षायां जगाहिषे इति जगाहाथे जगाहिढे ३० जगाहिध्वे । शेषं स्पष्टम् । वेट्त्वात् क्तयोर्नेट् गाढः गाढवान् । अचि गाहः । स्त्रियां गौरादित्वात् । ड्यां गाही घत्रि अवगाहः । इहि चेष्टायामिति ईहते इत्यादि सर्वं स्पष्टम् । घनि ईहः स्त्रियां 'क्तेट.' ( ५।३।१०६) इत्यः ईहा । ईक्षि दर्शने ईक्षते इत्यादि सर्व सुबोधम् । 'यद्वीक्ष्ये राधीक्षी' (२।२।५८) इति चतुर्थ्यां मैत्रायेक्षते । ईक्षितव्यम् परस्त्रीभ्यः । अचि वीक्ष्यः । शीलीकामीत्यणो-३४
है. प्रका० उत्त० ७४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org