________________
५८४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुधातोस्तु द्वित्वाश्रितं भवत्येव । उभयत्र नेच्छन्त्येके । प्रतिसेसेव्यते प्रत्यसिसेवत् । अत्र ‘णिस्तोरेवः' ( २।३।३७) इति नियमेन बाधितस्य षत्वस्य प्रतिप्रसवः । अनटि सेवनम् । भीरुष्ठानादित्वात्षत्वे दुन्दुभेः सेवनं दुन्दुभिषेवणम् । सेवृङ् सेवते अषोपदेशत्वात्षत्वाभावे परिसेवते निसेवते विसेवते । सनि परिसिसेविषते सिसेवे । णौ डे असिसेवत् क्ते सेवितः 'क्तेट०' (५।३।१०६ ) इत्यः सेवा । ५केवृङ् केवते चिकेवे णौ डे अचिकेवत् उणादौ 'मृदिकन्दि०' (४६५) इत्यले केवलः । खेवृक
खेवते चिखेवे णौ डे अचिखेवत् । गेवृ गेवते जिगेवे अजिगेवत् । ग्लेवृक ग्लेवते जिग्लेवे अजिग्लेवत् । पेङ पेवते पिपेवे अपिपेवत् । प्लेवृ प्लेवते पिप्लेवे अपिप्लेवत् । मेवृडू मेवते मिमेवे अमिमेवत् । म्लेवृडू म्लेवते मिम्लेवे अमिम्लेवत् । 'पहि मर्षणे' इति अनुस्वारेत्त्वाभावात्
सेट् मर्षणं क्षमा । सहते उत्सहते सहेत सहताम् असहत । असहिष्ट असहिषाताम् ध्वमि ‘सो धि १० वा' (४।३।७२) इति सिज्लोपे 'हान्तस्था०' (२।१।८१) इति वा ढत्वे त्रैरूप्यम असहिध्वम्
असहिड्डम् । असहिड्वम् । सेहे सेहाते सेहिरे सेहिषे । सहिषीष्ट । सोढा सहिता । सहिष्यते । असहिष्यत ॥ १३० ॥ उपसर्गयोगे सूत्रम्
असोसिवूसहस्सटाम् ॥ १३१ ॥ [ सि० २।३।४८] परिनिविभ्यः परस्य सिवूसहोः स्सटश्च सः ष् स्यात् । अँटि च वा न च सो विषये । १५ विषहते । पर्यषहत-पर्यसहत ४ । पर्यषहिष्ट २।५ । सेहे ६ । सहिषीष्ट ७ ॥ १३१ ॥
'असो.' क्रमेणोदाहरणानि ‘षिवूच उतौ' 'पः स०' (२।३।९८ ) इति सत्वे पुनरनेन षत्वे परिषीव्यति निपीव्यति विषीव्यति । परिषहते निषहते विषहते । सम्परेः कृगस्सडिति स्सद परिष्करोति विष्किरः शकुनिः । नेस्तु परस्सड् नास्तीति नोदाह्रियते । असोडेति किम् ? परिसोढः परिसोढव्यः निसोटः निसोढव्यः विसोढः विसोढव्यः । डे मा परिसी षिवत् परिसीषहत् । मूलधातोस्तु षत्वं भवइत्येव । सो प्रतिषेधः सेहेरेव न सिवस्तस्य सोरूपासम्भवात् । सिवोऽनुबन्धनिर्देशात् यङ्लुपि न भवति
परिसेषिवीति । बहुवचनं परिनिविभिः सह यथासयनिवृत्त्यर्थम्। अटि च वेति । अत्र सूत्रम् 'स्तुखअशादि नवा' (२।३।४९) परिनिविभ्यः परस्य स्तुस्वोर्धात्वोरसोङ्सिवूसहस्सटां च सकारस्याटि सति षो वा स्यात् । 'टुंग्क् स्तुतौ' 'षः स०' (२।३।९८ ) इति सत्वे अनेन विकल्पेन पत्वे
पर्यष्टौत् पर्यस्तौत् । न्यष्टौत् न्यस्तौत् । व्यष्टौत् व्यस्तोत् । 'ध्वञ्जित् सङ्गे' 'पः स.' इति सत्वे अपनरनेन विकल्पेन षः पर्यध्वजत पर्यस्वजत । न्यध्वजत न्यस्वजत । व्यप्वजत व्यस्खजत । पर्यषी
व्यात पर्यसीव्यत् । न्यषीव्यत् न्यसीव्यत् । व्यषीव्यत् व्यसीव्यत् । पर्यपहत पर्यसहत । न्यषहत न्यसहत । व्यषहत व्यसहत । पर्यष्करोत् पर्यस्करोत् । असोसिवूसहेत्येव पर्यसोढयत् पर्यसीषिवत् पर्यसीषहत् । स्तुस्वञ्जोर्नित्यं प्राप्ते सिवूसहस्सदां चाप्राप्ते विभाषा ॥ १३१ ॥ अशिति तादौ इड विकल्पे सूत्रम् । ३०
सहलुभेच्छरुषरिषस्तादेः ॥ १३२ ॥ [सि० ४।४।४६] एभ्यः परस्य तादेरशित आदिरिड् वा स्यात् । सहिता । पक्षे हो धुट्पदान्ते इति हस्य ढत्वे, अधश्चतुर्थादिति तस्य धत्वे, तवर्गश्चवर्गेति धस्य ढत्वे ॥ १३२ ।। र सह 'पहि मर्षणे' 'लुभचू गाये' 'इषत् इच्छायाम्' 'कष शिष जप झष वष मष मुष रुष रिप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org