________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादय आत्मनेपदिनः
५८३
निलयनम् दुलयनम् । निर्दुसोस्तु सो रुत्वस्य परे लत्वे सिद्धत्वान्निरयणम् दुरयणम् । अत्र 'स्वरात्' (२।३।८५ ) इति नस्य णत्वम् । अदुरुपसर्गान्तर इत्यत्र दुरो वर्जनात् स्वरादिति णत्वाभावे दुरयनम् । मनि ‘य्वो:' ( ४|४|१२१ ) इति यलोपेऽकारान्ताद्विहितेऽशिति 'अतः' (४।३।८२) इति लोपविधानादस्य लोपाभावे स्वमा । ये त्वत्राप्यलुकमिच्छन्ति तन्मते सुमा । विपि 'वो:' इति यलुपि
स्वस्येति ते स्वत् । ये त्वत्राप्यत इति अल्लोपमिच्छन्ति तन्मते सुत् । ये त्वन्तरङ्गं तागमं प्रति बहि - ५ रङ्गस्य यलुकोsसिद्धत्वमिच्छन्ति तन्मते ( स्वः) । विचि यलुकि ( स्वः । क्तौ खोरिति यलुकि अतिः, अपक्षे तु तिः । वयि वयते नशसेत्येत्वनिषेधाद्ववये वयिता मनि वोरिति यलुकि) सुवमा । अल्लुक् पक्षे सुष्मा । अत्र स्वरस्य ( परे ) प्राविधाविति स्थानित्वात् 'अनुनासिके च० (४।१।१०८) इति वस्योट् न भवति । उणादौ सृवधिभ्यां णित् (५७० ) इत्यसे वायसः । अस् ( ९५२ ) इत्यसि वयः पक्षी बाल्यादि च । पयि पयते पेये पयिता । मनि यो लुकि सुपमा । अल्लुकपक्षे सुप्मा । एवं वनि १० सुषवा सुप्वा । असित्यसि पयः, पिबतेर्वा पाहाभ्यां पयौ च ( ९५३ ) इत्यसि । मयि मयते मेये मयिता अचि मयः । नयि नयते नेये नयिता । णोपदेशत्वाण्णत्वाभावे प्रनयिता । मनि यो लुकि सुनमा । अल्लुक्पक्षे सुन्मा । एवं सुनवा सुन्वा । क्विपि यलुकि 'ह्रस्वस्य ० ' ( ४|४|११३ ) इति ते च सुनत् सुनतौ सुनतः । सूः सूनौ सूनः । अत्रालुक् ‘स्वरस्य परे प्राविधौ ' ( ७|४|११०) इति स्थान - त्यस्य 'न सन्धिः' इति प्रतिषेधात् 'नि दीर्घ' इति दीर्घो नाम्नो नोऽनह्न इति नस्य लुक् च भवति । तौ १५ नतिः न्तिः । चयि चयते चेये चयिता । धनि चायः । चय इति तु चिनातेरलि । रयि रयति रेये रयतेत्यादि । 'दयि दानगतिहिंसादानेषु च' चकाराद्रक्षणे ' स्मृत्यर्थदयेश : ' (२।२।११) इति कर्मणो वा कर्मत्वे 'शेषे' (२।२।८१ ) इति षष्ठयां दानस्य दयते, दानं दयते । ' दयायास् ० ' ( ३|४|४७ ) इति परोक्षाया आमि दयाञ्चक्रे दयिता । क्ये दय्यते अत्र 'वोः वय्०' इत्यत्र यिवर्जनाद्यलोपाभावः । ‘शीङ् श्रद्धा०' ( ५।२।३७ ) इत्याला दयालुः । दयनं दयन्ते प्राणिनोऽनयेति वा यथाक्रमं तयन - २० टोरपवादे भिदादित्वादङि दया । क्ते दयितः । दयेरेव कर्मणो वा कर्मत्वविधानाद्देङ् पालने इत्यस्य कर्मणि द्वितीया । मातरं दयते । षेवृङ् सेवृङ् प्रभृतय इति षेवृङ् सेवृङ् केवृङ् खेवृङ् गेवृङ् ग्लेवृङ् पेवृङ् प्लेवृङ् मेवृङ् म्लेवृङ् सेवने' दशाप्येते ऋदितः सेटश्च । ऋदित्त्वं ङपरे णावुपान्त्यस्य ह्रस्वाभावार्थम् । षेवृङ् 'षः स ० ' ( २। ३ । ९८ ) इति सत्वे सेवते सिषेवे सेविता । ऋदित्त्वात् ङे ह्रस्वाभावे षोपदेशत्वाच्च 'नाम्यन्तस्था ० ' ( २।३।१५ ) इति षत्वे असिषेवत् २५ ॥ १२९ ॥ उपसर्गयोगे सूत्रम् ।
परिनिवेः सेवः ॥ १३० ॥ [ सि० २।३।४६ ]
एभ्यः परस्य सेवः सो द्वित्वेप्यय्यपि षु स्यात् । सेवते परिषेवते । पर्यषेवत् ४ । पर्यषेविष्ट ५ । परिषिषेवे ६ | परिषेविषीष्ट ७ । परिषेविता ८ । परिषेविष्यते ९ । पर्यषेविष्यत १० । 'हि मर्षणे' । सहते ॥ १३० ॥
३०
'परि०' एभ्यः परस्येति परिनिव्युपसर्गस्थान्नाम्यन्तस्थाकवर्गात् परस्य सेवतेर्धातोः सकारस्य द्वित्वेऽप्यय्यपि षो भवति परिषेवते । निषेवते । विषेवते । अव्यवायेऽपि पर्यषेवत न्यषेवत व्यपेवत । सनि परिषिषेविषते । यङि परिषेषेव्यते निषेषेव्यते । विषिषेविषते विषेषेव्यते । विषषे । परिनिवेरिति किम् ? अनुसेवते प्रतिसेषेव्यते प्रत्यसिषेवत् । अत्रोपसर्गाश्रितं षत्वं न भवति । ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org