________________
५८२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
दीपजनबुधिपूरितायिप्यायो वा ॥ १२७ ॥ [सि० ३४६७] एभ्यः षड्भ्योऽद्यतन्यास्ते परे बिच् वा स्यात्तद्योगे तलुक् च । अचावितौ । आप्यायि चैत्रः । आप्यायिष्ट ५॥ १२७॥ ___'दीप' एभ्यः षड्भ्य इति 'दीपैचि दीप्तौ,' 'जनैचि प्रादुर्भावे,' 'बुधिं मनिंच् ज्ञाने' 'पूरैपि ५आप्यायने' 'ताङ सन्तानपालनयोः' 'प्यायैङ् अयमेव । एतेभ्यः क्रमेणोदाहरणानि अदीपि अदीपिष्ट । अजनि अजनिष्ट । अबोधि अबुद्ध । अपूरि अपूरिष्ट । अतायि अतायिष्ट । अप्यायि अप्यायिष्ट चैत्र इति । ते पर इति किम् ? अदीपिषाताम् । कर्तरीत्येव । अदीपि भवता । भावकर्मणोरुत्तरेण नित्यमेव, बुधीति इकारो देवादिकस्यात्मनेपदिनः परिग्रहार्थः, तेन बुधृग् अबोधिष्टेत्यत्र न भवति ॥ १२७ ॥ परोक्षायां सूत्रम्
प्यायः पीः ॥ १२८ ॥ [सि० ४।१९१] प्यायः परोक्षायडोः पीः स्यात् । आपिप्ये । आपिप्यिषे ६ । आप्यायिपीष्ट ७ । आप्यायिता ८ । आप्यायिष्यते ९ । आप्यायिष्यत १० । 'तायङ् सन्तानपालनयोः' । तायते ४ । अतायि अतायिष्ट इत्यादि । अयिवयिप्रभृतयो गतौ । अयते । उपसर्गस्यायौ (२।३।
१००) रो लः । प्लायते-पलायते ४ । पलायिष्ट ॥ १२८॥ १५ 'प्यायः' स्पष्टं च । आपिप्ये इत्यादि सर्व व्यक्तमेव । यङि आपेपीयते । क्तयोरनुपसर्गस्य (४।१।
९२) इति पीभावे 'सूयत्याद्योदितः' (४।२।७० ) इति क्तस्य नत्वे च पीनौ स्तनौ । पीनं मुखम् । 'आङोऽन्धूधसोः' (४।१।९३) इति प्यादेशे आपीनोऽन्धुः आपीनमूधः। अर्थान्तरे तु आप्यानश्चन्द्रः । वरात् ( २।३।८५) अदुरुपसर्गान्तः शब्दस्थाद्रवर्णात्परस्य कृद्विषयस्य नकारस्य स्वरा
दुत्तरस्य णो भवति इति णत्वे प्राप्ते 'न ख्यापूग्०' (२।३।९०) इति प्रतिषेधात् णत्वाभावे प्रप्यानः । २० ओदित्त्वात् 'सूयत्याद्योदितः' इति तस्य नत्वम् । तायडू इति तायते इत्यादि व्यक्तार्थम् । ऋदित्त्वात् ङपरें णौ न ह्रस्वः अततायत् । यङि ताताय्यते यङ्लुपि तातायीति ताताति । 'न णिड्य०' (५।२। ४५) इति प्रतिषेधादनाभावे तृनि तायिता । 'णिन् चावश्यका०' (५।४।३६) इति णिनि तायी । अयि वयि प्रभृतय इति 'अयि वयि पयि मयि नयि चयि रयि गतौ' । अयते उपसर्गयोगे सूत्रम् । 'उप०' (३।२।१००) रो ल् इति अयमस्यार्थः । उपसर्गसम्बन्धिनो रेफस्य अयि २५ गतावित्यस्मिन् धातौ परे लकारादेशो भवति । प्लायते पलायते पल्ययते । प्लत्ययते । अत्रानेकवर्ण
व्यवधानानेच्छन्त्यन्ये । प्रतिपूर्वस्य प्रयोग एव नास्तीत्यन्ये । उपसर्गस्येति किम् ? परस्य अयनं परायनम् । अयाविति किम् ? इण्क् गतौ । अल् प्रायः परायः । अयीतीकारानिर्देशो यि गतावित्यस्य परिग्रहार्थः॥ १२८ ॥ परोक्षायां सूत्रम्
दयायास्कासः॥१२९॥ [सि० ३४॥४७] ३० एतेभ्यश्चतुर्यः परोक्षाया आम् स्यात् । पलायाञ्चके ६ । 'दयि दानगतिहिंसादानेषु च। दयते ४ । अदयिष्ट ५ । दयाश्चक्रे ६ । 'षेवृङ् सेवृङ् सेवने ॥ १२९ ॥
'दया.' एभ्यश्चतुर्थ्य इति । 'दयि दानगतिहिंसादानेषु' १ । अयिरयमेव 'आसिक् उपवेशने' ३३ 'कासृङ् दीप्तौ' । दयाश्चक्रे अयाश्चक्रे एवं पलायाञ्चक्रे एवमासाञ्चक्रे कासाञ्चके । अयिधातोश्चानटि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org