________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय आत्मनेपदिनः क्तौ जूतिः । 'समः पृचैज्वरेः' (५।२।५६) इति घिनणि संज्वरणशीलः संज्वारी । उणादौ कावावी. (६३४) इति णौ जूर्णिः ज्वरः । अथ लान्ताश्चत्वारः सेटश्च ॥ ४ ॥ 'चल कम्पने' । चलति णौ ह्रस्खे चलयति शाखाम् । कम्पनादन्यत्र चालयति सूत्रम् पर्यनुयुङ्क्ते । चालयति शीलम् हरतीत्यर्थः । ज्वलादौ पठितोऽयं घटादिकार्यार्थमिह पठ्यते । 'हल मल चलने' । ह्वलति णौ हस्खे विह्वलयति । (अचि विह्वलः । झल झलति णौ हवे प्रह्मलयति ज्वलबलेत्यनुपसर्गस्य वा ह्रस्वे ५ ह्वलयति ह्यालयति झलयति ) ह्यालयति 'ज्वल दीप्तौ च' । चकाराच्चलने प्रज्वलयति संज्वलयति । 'ज्वलह्वल.' (४।२।३२) इत्यनुपसर्गस्य वा हस्खे ज्वलयति ज्वालयति । ज्वलादौ पठितोऽप्ययं घटादिकार्यार्थमिह पठितः । केचित्तु दलिवलिस्खलिक्षपित्रपीणामपि घटादित्वमिच्छन्ति । तन्मते दलयति वलयति स्खलयति क्षपयति त्रपयति इत्यपि भवति । वृत् घटादिः ५९.९ __'वदुङ् स्तुत्यभिवादनयोः' । वन्दते इत्यादि पाठसिद्धम् । धातुश्चायं वर्णपरिपाट्यां निरूपित १० एव ॥ १२५ ॥ स्फायैङ् इति अद्यतन्या द्वितीयत्रिकबहुवचने सूत्रम्
हान्तस्थाञीड्भ्यां वा ॥ १२६ ॥ [सि० २११८१] हादन्तस्थायाश्च परा रिटश्च परासां परोक्षाद्यतन्याशिषां धो द वा स्यात् । अस्फायिदम्अस्फायिध्वम् । पस्फाये पस्फायिढ़े २।६। स्फायिषीष्ट स्फायिषीदम् २।७। स्फायिता ८। स्फायिष्यते ९ । आप्यायते ४ ॥ १२६ ॥
'हान्त.' हान्तस्थात बीड्भ्यां वेत्यत्र वचनभेदो यथासङ्ख्यनिवृत्त्यर्थः । हकारादन्तस्थायाश्च परात् बेरिति 'स्वरग्रहदशहन्भ्यः स्यसिजाशीः श्वस्तन्यां भिड् वा' (३।४।६९) इति बिडागमः । ततो मेः परासामद्यतन्याशिषां धस्य ढत्वे क्रमेणोदाहरणानि-अग्राहिड्वम् अग्राहिध्वम् । ग्राहिषीट्वम् ग्राहिषीध्वम् । अनायिट्वम् अनायिध्वम् । नायिषीट्वम् नायिषीध्वम् । अकारितम् अकारिध्वम् । कारिपीट्वम् कारिषीध्वम् । अलाविट्वम् अलाविध्वम् । लाविषीछम् लाविषीध्वम् । भावकर्मविहितासु २० स्यसिजाशीःश्वस्तनीषु बिद्विधानात्परोक्षायां बिर्न सम्भवतीति नोदाहृतः। इटश्चेति हादन्तस्थायाश्च परादिटः परासां परोक्षाद्यतन्याशिषां धस्य ढत्वे क्रमेणोदाहरणानि जगृहिवे जगृहिध्वे । अग्रहीवम् अग्रहीध्वम् । 'सो धि वा' (४।३।७२) इति सिचो लुक् ग्रहीषीट्वम् ग्रहीपीध्वम् । 'दीच् क्षये' 'दीय दीङः किति स्वरे'. (४।३।९३) इतीयादेशे उपदिदीयिवे उपदिदीयिध्वे । आयित्वम् आयिध्वम् । अयिषीट्वम् अयिषीध्वम् । तत्वरित्वे तत्वरिध्वे । अत्वरिट्वम् अत्वरिध्वम् । त्वरिषीद्वम् त्वरि-२५ षीध्वम् । ववलिढ्वे २ । अवलिट्वम् अवलिध्वम् संवलिषीट्वम् संवलिषीध्वम् । लुलुविवे लुलुविध्वे । अलविवम् अलविध्वम् । लविषीध्वम् । लविषीट्वम् । हान्तस्थादिति किम् ? घानिषीट्वम् आसिषीध्वम् । __ ऐदित्त्वात् क्तयोर्नेट् स्फातः स्फातवान् । 'स्फायः स्फीवी' (४।१।९४) इति स्फीतः स्फीतवान् । णौ 'स्फायः स्फाव' (४।२।२२) इति स्फावादेशे स्फावयति । पारायणिकानां तु स्फाययतात्यपि । तथा किपि यलुकि स्फामाचष्टे इति णिचि अन्तस्य स्फावादेशे स्फावयतीति । उणादौ दिननग्न ३० (२६८ ) इति इने निपातनात् फेनः भीवृधि० (३८७) इति रे स्फारम् । स्थविरपिठिर, (४१७) इतीरे निपातनात् स्फिरः स्फार इत्यर्थः । ओप्यायैङ् आप्यायते इत्यादि स्फुटम् ॥ १२६ ॥ अद्यतन्यामाद्यत्रिकाद्यवचने सूत्रम् ।
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org